TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ५८

ब्रह्मपुराणम् - अध्यायः ५८

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः ५८
अथाष्टापञ्चाशत्तमोऽध्यायः
नरसिंहमाहात्म्यवर्णनम्
ब्रह्मोवाच
एवं दृष्ट्वा बलं कृष्णं सुभद्रां प्रणिपत्य च ।
धर्मं चार्थं च कामं च मोक्षं च लभते ध्रुवम् ॥१॥

निष्क्रम्य देवतागारात्कृतकृत्यो भवेन्नरः ।
प्रणम्याऽऽयतनं पश्चाद्रव्रजेत्तत्र समाहितः ॥२॥

इन्द्रनीलमयो विष्णुर्यत्राऽऽस्ते वालुकावृतः ।
अन्तर्धानगतं नत्वा ततो विष्णुपुरं व्रजेत् ॥३॥

सर्वदेवमयो योऽसौ हतवानसुरोत्तमम् ।
स आस्ते तत्र भो विप्राः सिंहार्धकृतविग्रहः ॥४॥

भक्त्या दृष्ट्वा तु तं देवं प्रणम्य नरकेसरीम् ।
मुच्यते पातकैर्मर्त्यः समस्तैर्नात्र संशयः ॥५॥

नरसिंहस्य ये भक्ता भवन्ति भुवि मानवाः ।
न तेषां दुष्कृतं किंचित्फलं स्याद्यद्यदीप्सितम् ॥६॥

तस्मात्सर्वप्रयत्नेन नरसिंहं समाश्रयेत् ।
धर्मार्थकाममोक्षाणां फलं यस्मात्प्रयच्छति ॥७॥

मुनय ऊचुः
माहात्म्यं नरसिंहस्य सुखदं भुवि दुर्लभम् ।
यथा कथयसे देव तेन नो विस्मयो महान् ॥८॥

प्रभावं तस्य देवस्य विस्तरेण जगत्पते ।
श्रोतुमिच्छामहे ब्रूहि परं कौतूहलं हि नः ॥९॥

यथा प्रसीदेद्देवोऽसौ नरसिंहो महाबलः ।
भक्तानामुपकाराय ब्रूहि देव नमोऽस्तु ते ॥१०॥

प्रसादान्नरसिंहस्य या भवन्त्यत्र सिद्धयः ।
ब्राहि ताः कुरु चास्माकं प्रसादं प्रपितामह ॥११॥

ब्रह्मोवाच
श्रृणुष्वं तस्य भो विप्राः प्रभावं गदतो मम ।
अजितस्याप्रमेयस्य भुक्तिमुक्तिप्रदस्य च ॥१२॥

कः शक्नोति गुणान्वक्तुं समस्तांस्तस्य भो द्विजाः ।
सिंहारधकृतदेहस्य प्रवक्ष्यामि समासतः ॥१३॥

याः काश्चित्सिद्धयश्चात्र श्रूयन्ते दैवमानुषाः ।
प्रसादात्तस्य ताः सर्वाः सिध्यन्ति नात्र सशयः ॥१४॥

स्वर्गे मर्त्ये च पाताले दिक्षु तोये पुरे नगे ।
प्रसादात्तस्य देवस्य भवत्यव्याहता गतिः ॥१५॥

असाध्यं तस्य देवस्य नास्त्यत्र सचराचरे ।
नरसिंहस्य भो विप्राः सदा भक्तानुकम्पिनः ॥१६॥

विधानं तस्य वक्ष्यामि भक्तानामुपकारकम् ।
येन प्रसीदेच्चैवासौ सिंहार्धकृतविग्रहः ॥१७॥

श्रृषुध्वं मुनिशार्दूलाः कल्पराजं सनातनम् ।
नरसिंहस्य तत्त्वं च यन्न ज्ञातं सुरासुरैः ॥१८॥

शाकयावकमूलैस्तु फलपिण्याकसक्तुकैः ।
पयोभक्षेण विप्रेन्द्रा वर्तयेत्साधकोत्तमः ॥१९॥

कोशकौपीनवासाश्च ध्यानयुक्तो जितेन्द्रियः ।
अरण्ये विजने देश पर्वते सिन्धुसंगमे ॥२०॥

ऊषरे सिद्धक्षेत्रे च नरसिंहाश्रमे तथा ।
प्रतिष्ठाप्य स्वयं वाऽपि पूजां कृत्वा विधानतः ॥२१॥

द्वादश्यां शुक्लपक्षस्य उपोष्य मुनिपुंगवाः ।
जपेल्लक्षाणि वै विंशन्मनसा संयतेन्द्रियः ॥२२॥

उपपातकयुक्तश्च महापातकसंयुतः ।
मुक्तो भवेत्ततो विप्राः साधको नात्र संशयः ॥२३॥

कृत्वा प्रदक्षिणं तत्र नरसिंहं प्रपूजयेत् ।
पुण्यगन्धादिबिर्धूपैः प्रणम्य शिरसा प्रभुम् ॥२४॥

कर्पूरचन्दनाक्तानि जातीपुष्पाणि मस्तके ।
प्रदद्यान्नरसिंहस्य ततः सिद्धिः प्रजायते ॥२५॥

भगवान्सर्वकार्येषु न क्वचित्प्रतिहन्यते ।
तेजः सोढुं न शक्ताः स्युर्ब्रह्मरुद्रादयः सुराः ॥२६॥

किं पुनर्दानवा लोके सिद्धगन्धर्वमानुषाः ।
विद्याधरा यक्षगणाः सकिन्नरमहोरगाः ॥२७॥

मन्त्रं यानासुरान्हन्तुं जपन्त्येकेऽन्यसाधकाः ।
ते सर्वे प्रलयं यान्ति दृष्ट्वाऽऽदित्याग्निवर्चसः ॥२८॥

सकृज्जप्तं तु कवचं रक्षेत्सर्वमुपद्रवम् ।
द्विर्जप्तं कवचं दिव्यं रक्षते देवदानवात् ॥२९॥

गन्धर्वाः किन्नरा यक्षा विद्याधरमहोरगाः ।
भुताः पिशाचा रक्षांसि ये जान्ये परिपन्थिनः ॥३०॥

त्रिर्जप्तं कवचं दिव्यमभेद्यं च सुरासुरैः ।
द्वादशाभ्यन्तरे चैव योजनानां द्विजोत्तमाः ॥३१॥

रक्षते भगवान्देवो नरसिंहो महाबलः ।
ततो गत्वा बिलद्वारमुपोष्य रजनीत्रयम् ॥३२॥

पलाशकाष्ठैः प्रज्वाल्य भगवन्तं हुताशनम् ।
पलाशसमिधस्तत्र जुहुयात्त्रिमधुप्लुता ॥३३॥

द्वे शते द्विजशार्दूला वषट्कारेण साधकः ।
ततो विवरद्वारं तु प्रकटं जायते क्षणात् ॥३४॥

ततो विशेत्तु निःशङ्कं कवची विवरं बुधः ।
गच्छतः संकटं तस्य तमोमोहश्च नश्यति ॥३५॥

राजमार्गः सुविस्तीर्णो दृश्यते भ्रमराजि(ञ्चि) तः ।
नरसिंहं स्मरंस्तत्र पातालं विशते द्विजाः ॥३६॥

गत्वा तत्र जपेत्तत्त्वं नरसिंहाख्यमव्ययम् ।
ततः स्त्रीणां सहस्राणि वीणावादनकर्मणाम् ॥३७॥

निर्गच्छन्ति पुरो विप्राः स्वागतं ता वदन्ति च ।
प्रवेशयन्ति ता हस्ते गृहीत्वा साधकेश्वरम् ॥३८॥

ततो रसायनं दिव्यं पाययन्ति द्विजोत्तमाः ।
पीतमात्रे दिव्यदेहो जायते सुमहाबलः ॥३९॥

क्रीडते सह कन्याभिर्यावदाभूतसंप्लवम् ।
भिन्नदेहो वासुदेवे लीयते नात्र संशयः ॥४०॥

यदा न रोचते वासस्तस्मान्निर्गच्छते पुनः ।
पट्टं च खड्गं च रोजनां च मणिं तथा ॥४१॥

रसं रसायनं चैव पादुकाञ्जनमेव च ।
कृष्णाजिनं मुनिश्रेष्ठा गुटिकां च मनोहराम् ॥४२॥

कपण्डलुं चाक्षसूत्रं यष्टिं सञ्जीवनीं तथा ।
सिद्धविद्यां च शास्त्राणि गृहीत्वा साधकेश्वरः ॥४३॥

ज्वलद्विह्रिफुलिङ्गोर्मिष्टितं त्रिशिखं हृदि ।
सकन्न्यस्तं दहेत्सर्वं वृजिनं जन्मकोटिजम् ॥४४॥

विषेन्यस्तं विषं हन्यात्कुष्ठं हन्यात्तनौ स्थितम् ।
स्वदेहे भ्रूणहत्यादि कृत्वा दिव्येन शुध्यति ॥४५॥

महाग्राहगृहीतेषु ज्वलमानं विचिन्तयेत् ।
हृदन्ते वै ततः शीघ्रं नश्येयुर्दारुणा ग्रहाः ॥४६॥

बालानां कण्ठके बद्धं रक्षा भवति नित्यशः ।
गण्डपिण्डकलूतानां नाशनं कुरुते ध्रुवम् ॥४७॥

व्याधिजाते समिद्भिश्च घृतक्षीरेण होमयेत् ।
त्रिसंध्यं मासमेकं तु सर्वरोगान्विनाशयेत् ॥४८॥

असाध्यं तु न पश्यामि त्रैलोक्ये सचराचरे ।
यां यां कामयते सिद्धिं तां तां प्राप्नोति स ध्रुवम् ॥४९॥

अष्टोत्तरशतं त्वेकं पूजयित्वा मृगाधिपम् ।
मृत्तिकाः सप्त वल्मीके श्मशाने च चतुष्पथे ॥५०॥

रक्तचन्दनसंमिश्रा गवां क्षीरेण लोडयेत् ।
सिंहस्य प्रतिमां कृत्वा प्रमाणेन षडड्गुलाम् ॥५१॥

लिम्पेत्तथा भूर्जपत्रे रोचनया समालिखेत् ।
नरसिंहस्य कण्ठे तु बद्ध्वा चैव हि मन्त्रवित् ॥५२॥

जपेत्संख्याविहीनं तु पूजयित्वा जलाशये ।
यावत्सप्ताहमात्रं तु जपेत्संयमितेन्द्रियः ॥५३॥

जलाकीर्णआ मुहुर्तेन जायते सर्वमोदिनी ।
अथवा शुष्कवृक्षाग्रे नरसिंहं तु पूजयेत् ॥५४॥

जप्त्वा चाष्टशतं तत्त्वं वर्षन्तं विनिवारयेत् ।
तमेवं पिञ्जके बद्ध्वा भ्रामयेत्साधकोत्तमः ॥५५॥

महावातो मुहुर्तेन आगच्छेन्नात्र संशयः ।
पुनश्च धारयेत्क्षिप्रं सप्तस(ज)प्तेन वारिणाः ॥५६॥

अथ तां प्रतिमां द्वारि निखनेद्यस्य साधकः ।
गोत्रोत्सादो भवेत्तस्य उद्धृते चैव शान्तिदः ॥५७॥

तस्मात्तं मुनिशार्दूला भक्त्या संपूजयेत्सदा ।
मृगराजं महावीर्यं सर्वकामफलप्रदम् ॥५८॥

विमुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति  ।
क्षत्रिया वैश्याः शूद्रान्त्यजातयः ॥५९॥

संपूज्य तं सुरश्रेष्ठं भक्त्या सिंहवपुर्धरम् ।
मुच्यन्ते चाशुभैर्दुः खैर्जन्मकोटिसमुद्भवैः ॥६०॥

संपूज्य तं सुरश्रेष्ठं प्राप्नुवन्त्यभिवाञ्छितम् ।
देवत्वममरेशत्वं गन्धर्वत्वं च भो द्विजाः ॥६१॥

यक्षविद्याधरत्वं च तथाऽन्यच्चाभिवाञ्छितम् ।
दृष्ट्वा स्तुत्वा नमस्कृत्वा संपूज्य नरकेसरीम् ॥६२॥

प्राप्नुवन्ति नरा राज्यं स्वर्गं मोक्षं च दुर्लभम् ।
नरसिंहं नरो दृष्ट्वा लभेदभिमतं फलम् ॥६३॥

निर्मुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति ।
सकृद्दृष्ट्वा तु तं देवं भक्त्या सिंहवपुर्धरम् ॥६४॥

मुच्यते चाशुभैर्दुः खैर्जन्मकोटिसमुद्भवैः ।
संग्रामे संकटे दुर्गे चोरव्याघ्रादिपीडिते ॥६५॥

कान्तारे प्राणसंदेहे विषविह्निजलेषु च ।
राजादिभ्यः समुद्रेभ्यो ग्रहरोगादिपीडिते ॥६६॥

स्मृत्वा तं पुरुषः सर्वै राजग्रामैर्विमुच्यते ।
सूर्योदये यथा नाशं तमोऽभ्येति महत्तरम् ॥६७॥

तथा संदर्शने तस्य विनाशं यान्त्युपद्रवाः ।
गृटिकाञ्जनपातालपादुके च रसायनम् ॥६८॥

नरसिंहे प्रसन्ने तु प्राप्नोत्यन्यांश्च वाञ्छितान् ।
यान्यान्कामानभिध्यायन्भजते नरकेसरीम् ॥६९॥

तांस्तान्कामानवाप्नोति नरो नास्त्यत्र संशयः ।
दृष्ट्वा तं देवदेवेशं भक्त्याऽऽपूज्य प्रणम्य च ॥७०॥

दशानामश्वमेधानां फलं दशगुणं लभेत् ।
पापैः सर्वैर्विनिर्मुक्तो गुणैः सर्वैरलंकृतः ॥७१॥

सर्वकामसमृद्धात्मा जरामरणवर्जितः ।
सौवर्णेन विमानेन किंकिणीजालमालिना ॥७२॥

सर्वकामसमृद्धेन कामगेन सुवर्चसा ।
तुणादित्यवर्णेन मुक्ताहारावलम्बिना ॥७३॥

दिव्यस्त्रीशतयुक्तेन दिव्यगन्धर्वनादिना ।
कुलैकविंशमुद्धृत्य देववन्मुदितः सुखी ॥७४॥

स्तूयमानोऽप्सरोभिश्च विष्णुलोकं व्रजेन्नरः ।
भुक्त्वा तत्र वरान्भोगान्विष्णुलोके द्विजोत्तमाः ॥७५॥

गन्धर्वैरप्सरैर्युक्तः कृत्वा रूपं चतुर्भुजम् ।
मनोह्लादकरं सौख्यं यावदाभूतदसंप्लवम् ॥७६॥

पुण्यक्षयादिहाऽऽयातः प्रवरे योगिनां कुले ।
चतुर्वेदी भवेद्विप्रो वेदवेदाङ्गपारगः॥
वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥७७॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे नरसिंहमाहात्म्यवर्णनं नामाष्टपञ्चाशत्तमोऽध्यायः ॥५८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:36.5200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अवहेलणें

  • उ.क्रि. हेटाळणी करणें . द्विजाची मर्यादा तदपि अवहेळूंच न शके - सारुह ५ . ७० . [ सं . अव + हेलन ] 
RANDOM WORD

Did you know?

गणेश गीता कोणी वाचावी ?
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.