संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ६१

ब्रह्मपुराणम् - अध्यायः ६१

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथैकषष्टितमोऽध्यायः
पूजाविधिकथनम्
ब्रह्मोवाच
देवान्पितृस्तथा चान्यान्संतर्प्याऽऽचम्य वाग्यतः ।
हस्तमात्रं चतुष्कोणं चतुर्द्वारं सुशोभनम् ॥१॥

पुरं विलिख्य भो विप्रास्तीरे तस्य महोदधेः ।
मध्ये तत्र लिखेत्पद्म्मष्टपत्रं सकर्णिकम् ॥२॥

एवं मण्डलमालिख्य पूजयेत्तत्र भो द्विजाः ।
अष्टाक्षरविधानेन नारायणमजं विभुम् ॥३॥

अतः परं प्रवक्ष्यामि कायशोधनमुत्तमम् ।
अकारं हृदये ध्यात्वा चक्ररेखासमन्वितम् ॥४॥

ज्वलन्तं त्रिशिखं चैव दहन्तं पापनाशनम् ।
चन्द्रमण्डलमध्यस्थं राकारं मूर्ध्नि चिन्तयेत् ॥५॥

शुक्लवर्णं प्रवर्षन्तममृतं प्लावयन्महीम् ।
एवं निर्धूतपापस्तु दिव्यदेहस्ततो भवेत् ॥६॥

अष्टाक्षरं ततो मन्त्रं न्यसेदेवाऽऽत्मनो बुधः ।
वामपादं समारभ्य क्रमशश्चैव विन्यसेत् ॥७॥

पञ्चाङ्गं वैष्णवं चैव चतुर्व्यूहं तथैव च ।
करशुद्धिं प्रकृर्वीत मूलमन्त्रेण साधकः ॥८॥

एकैकं चैव वर्णं तु अङ्गुलीषु पृथक्पृथक् ।
ओंकारं पृथिवीं शुक्लां वामपादे तु विन्यसेत् ॥९॥

नकारः शांभवः श्यामो दक्षिणे तु व्यवस्थितः ।
मोकारं कालमेवाऽऽहुर्वामकट्यां निधापयेत् ॥१०॥

नाकारः सर्वबीजं तु दक्षिणस्यां व्यवस्थितः ।
राकारस्तेज इत्याहुर्नाभिदेशे व्यवस्थितः ॥११॥

वायव्योऽयं यकारस्तु वामस्कन्धे समाश्रितः ।
णाकारः सर्वगो ज्ञेयो दक्षिणांसे व्यवस्थितः ॥

यकारोऽयं शिरस्थश्च तत्र लोकाः प्रतिष्ठिताः ॥१२॥
ॐ विष्णवे नमः शिरः ।
ॐ ज्वलनाय नमः शिखा ।
ॐ विष्णवे नमः कवचम् ।
ॐ विष्णवे नमः स्फुरणं दिशोबन्धाया ।
ॐ हुफडस्त्रम् ।
ॐ शिरसि शुक्ले वासुदेव इति ।
ॐ आं ललाटे रक्तः संकर्षणो गरुत्मान्वह्निस्तेज आदित्य इति ।
ॐ आं ग्रीवायां पीतः प्रद्युम्नो वायुमेघ इति ।
ॐ आं हृदये कृष्णोऽनिरुद्धः सर्वशाक्तिसमन्वित इति ।
एवं चतुर्व्य्रहमात्मानं कृत्वा ततः कर्म समाचरेत् ॥१३॥

ममाग्रेऽवस्थितो विष्णुः पृष्ठतश्चपि केशवः ।
गोविन्दो दक्षिणे पार्श्वे वामे तु मधुसूदनः ॥१४॥

उपरिष्टात्तु वैकुण्ठो वाराहः पृथिवीतले ।
अवान्तरदिशो यास्तु तासु सर्वासु माधवः ॥१५॥

गच्छतस्तिष्टतो वाऽपि जाग्रतः स्वपतोऽपि वा ।
नरसिंहकृता गुप्तिर्वासुदेवमयो ह्यहम् ॥१६॥

एवं विष्णुमयो भूत्वा ततः कर्म समारभेत् ।
यथा देहे तथा देवे सर्वतत्त्वानि योजयेत् ॥१७॥

ततश्चैव प्रकुर्वीत प्रोक्षणं प्रणवेन तु ।
फट्कारान्तं समुद्दिष्टं सर्वविघ्नहरं शुभम् ॥१८॥

तत्रार्कचन्द्रवह्नीनां मण्डलानि विचिन्तयेत् ।
पद्ममध्ये न्यसेद्विष्णुं पवनस्याम्बरस्य च ॥१९॥

ततो विचिन्त्य हृदय ओंकारं ज्योतीरूपिणम् ।
कर्णिकायां समासीनं ज्योतीरूपं सनातनम् ॥२०॥

अष्टाक्षरं ततो मन्त्रं विन्यसेच्च यथाक्रमम् ।
तेन व्यस्तसमस्तेन पूजनं परमं स्मृतम् ॥२१॥

द्वादशाक्षरमंत्रेण यजेद्देवं सनातनम् ।
ततोऽवधार्य हृदये कर्णिकायां बहिर्न्यसेत् ॥२२॥

चुत्भुजं महासत्त्वं सूर्यकोटिसमप्रभम् ।
चिन्तयित्वा महायोगं ज्योतीरूपं सनातनम् ॥

ततश्चाऽऽवाहयेन्मन्त्रं क्रमेणाऽऽचिन्त्य मानसे ॥२३॥
आवाहनमन्त्रः--मीनरूपो वराहश्च नरसिंहोऽथ वामनः ।

आयातु देवो वरदो मम नारायणोऽग्रतः ।
ॐ नमो नारायणाय नमः ॥२४॥

स्थापनमन्त्रः--कर्णिकायां सुपीठेऽत्र पद्मकल्पितमासनम् ।
सर्वसत्त्वहितार्थाय तिष्ठ त्वं मधुसूदन ।

ओं नमो नारायणाय नमः ॥२५॥
अर्घमन्त्रः--ॐ त्रैलोक्यपीनां पतये देवदेवाय हृषीकेशाय विष्णवे नमः ।

ओं नमो नारायणाय नमः ॥२६॥
पाद्यमन्त्रः--ओं पाद्यं पादयोर्देव पद्मनाभ सनातन ।

विष्णो कमलपत्राक्ष गृहाण मधुसूदन ।
ओं नमो नारायणाय नमः ॥२७॥

मधुपर्कमन्त्रः--मधुपर्कं महादेव ब्रह्मद्यैः कल्पितं तव ।
मया निवेदितं भक्त्या गृहाण पुरुषोत्तम ।

ओं नमो नारायणाय नमः ॥२८॥
आचमनीयमन्त्रः--मन्दाकिन्याः सितं वारि सर्वपापहरं शिवम् ।

गृहाणाऽऽचमनीयं त्वं मया भक्त्या निवेदितम् ।
ओं नमो नारायणाय नमः ॥२९॥

स्नानमन्त्रः-- त्वमापः पृथिवी चैव ज्योतिस्त्वं वायुरेव च ।
लोकेश वृत्तिमात्रेण वारिणा स्नापयाम्यहम् ।

ओं नमो नारायणाय नमः ॥३०॥
वस्त्रमन्त्रः--देवतत्त्वसमायुक्त यज्ञवर्णसमन्वित ।

स्वर्णवर्णप्रभे देव वाससी तव केशव ।
ओं नमो नारायणाय नमः ॥३१॥

विलेपनमन्त्रः--शरीरं ते न जानामि चेष्टां चैव च केशव ।
मया निवेदितो गन्धः प्रतिगृह्य विलिप्यताम् ।
ओं नमो नारायणाय नमः ॥३२॥

उवीतमन्त्रः ऋग्यजुःसाममन्त्रेण त्रिवृतं पद्मयोनिना ।
सावित्रीग्रन्थिसंयुक्तमुपवीतं तवार्पये ।
ओं नमो नारायणाय नमः ॥३३॥

अलंकारमन्त्रः--दिव्यरत्नसमायुक्त वह्निभानुसमप्रभ ।
गात्राणि तव शोभन्तु सालंकाराणि माधव ।
ओं नमो नारायणाय नमः ॥३४॥

ओं नम इति प्रत्यक्षरं समस्तेन मूलमन्त्रेण वा पूजयेत् ॥३५॥

धूपमन्त्रः--वनस्पतिरसो दिव्यो गन्धाढ्यः सुरभिश्च ते ।
मया निवेदितो भक्त्या धूपोऽयं प्रतिगृह्यताम् ।
ओं नमो नारायणाय नमः ॥३६॥

दीपमन्त्रः--सूर्यचन्द्रसमो ज्योतिर्विद्युदग्न्योस्तथैव च ।
त्वमेव ज्योतिषां देव दीपोऽयं प्रतिगृह्यताम् ।
ओं नमो नारायणाय नमः ॥३७॥

नैवेद्यमन्त्रः-- अन्नं चतुर्विधं चैव रसैः षड्भिः समन्वितम् ।
मया निवेदितं भक्त्या नैवद्यं तव केशव ।
ओं नमो नारायणाय नमः ॥३८॥

पूर्वे दले वासुदेवं याम्ये संकर्षणं न्यसेत् ।
प्रद्युम्नं पश्चिमे कुर्यादनिरुद्धं तथोत्तरे ॥३९॥

वाराहं च तथाऽऽग्नेये नरसिंहं च नैर्ऋते ।
वायव्ये माधवं चैव तथैशाने त्रिविक्रमम् ॥४०॥

तथाऽष्टाक्षरदेवस्य गरुडं पुरतो न्यसेत् ।
वामपार्श्वे तथा चक्रं शङ्खं दक्षिणतो न्यसेत् ॥४१॥

तया महागदां चैव न्यसेद्देवस्य दक्षिणे ।
ततः शार्ङगं धनुर्विद्वान्न्यसेद्देवस्य वामतः ॥४२॥

दक्षिणेनेषुधी दिव्ये खड्गं वामे च विन्यसेत् ।
श्रियं दक्षिणतः स्थाप्य पुष्टिमुत्तरतो न्यसेत् ॥४३॥

वनमालं च पुरतस्ततः श्रीवत्सकौस्तुभौ ।
विन्यसेद्धृदयादीनि पुर्वादिषु चतुर्दिशम् ॥४४॥

ततोऽस्त्रं देवदेवस्य कोणे चैव तु विन्यसेत् ।
इन्द्रमग्निं यमं चैव नैर्ऋतं वरुणं तथा ॥४५॥

वायुं धनदमीशानमनन्तं ब्रह्मणा सह ।
पूजयेत्तान्त्रिकैर्मन्त्रैरधश्चोर्ध्वं तथैव च ॥४६॥

एवं संपूज्य देवेशं मण्डलस्थं जनार्दनम् ।
लभेदभिमतान्कामान्नरो नास्त्यत्र संशयः ॥४७॥

अनेनैव विधानेन मण्डलस्थं जनार्दनम् ।
पूजितं यः संपश्येत स विशोद्विष्णुमव्ययम् ॥४८॥

सकृदप्यर्चितो येन विधिनाऽनेन केशवः ।
जन्ममृत्युजरां तीर्त्वा स विष्णोः पदमाप्नुयात् ॥४९॥

यः स्मरेत्सततं भक्त्या नारायणमतन्द्रितः ।
अन्वहं तस्य वासाय श्वेतद्वीपः प्रकल्पितः ॥५०॥

ओंकारादिसमायुक्तं नमःकारान्तदीपितम् ।
तन्नाम सर्वतत्त्वानां मन्त्र इत्यभिधीयते ॥५१॥

अनेनैव विधानेन गन्धपुष्पं निवेदयेत् ।
एकैकस्य प्रकुर्वीत यथोद्दिष्टं क्रमेण तु ॥५२॥

मुद्रास्ततो निबध्नीयाद्यथोक्तक्रमचोदिताः ।
जपं चैव प्रकुर्वीत मूलमन्त्रेण मन्त्रवित् ॥५३॥

अष्टाविंशतिमष्टौ वा शतमष्टोत्तरं तथा ।
कामेषु च यथाप्रोक्तं यथाशक्ति समाहितः ॥५४॥

पद्मं शङ्खश्च श्रीवात्सो गदा गरुड एव च ।
चक्रं खड्गश्च शार्ङ्गं च अष्टौ मुद्राः प्रकीर्तिताः ॥५५॥

विसर्जनमन्त्रः--गच्छ गच्छ परंस्थानं पुराणपुरुषोत्तम ।
यत्र ब्रह्मदयो देवा विन्दन्ति परमं पदम् ॥५६॥

अर्चनं ये न जानन्ति हरेर्मन्त्रैर्यथोदितम् ।
ते तत्र मूलमन्त्रेण पूजयन्त्वच्युतं सदा ॥५७॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे पूजाविधिकथनं नामैकषष्टितमोऽध्यायः ॥६१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP