संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २०

ब्रह्मपुराणम् - अध्यायः २०

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


जम्बूद्वीपवर्णनम्
लोमहर्षण उवाच
क्षीरोदेन यथा द्वीपो जम्बूसंज्ञोऽभिवेष्टितः ।
संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थिताः ॥१॥

जम्बूद्वीपस्य विस्तारः शतसाहस्रसम्मितः ।
स एव द्विगुणो विप्राः प्लक्षद्वीपेऽप्युदाहृतः ॥२॥

सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै ।
श्रेष्ठ शान्तमयो नाम शिशिरस्तदनन्तरम् ॥३॥

सुखोदयस्तथानन्दः शिवः क्षेमक एव च ।
ध्रुवश्च सप्तमस्तेषां प्लक्षद्विपेश्वरा हि ते ॥४॥

पूर्व्व शान्तमयं वर्षं शिशिरं सुखदं तथा ।
आनन्दञ्च शिवञ्चैव क्षेमकं धुवमेव च ॥५॥

मर्य्यादाकारकास्तेषां तथान्ये वर्षपर्व्वताः ।
सप्तैव तेषां नामानि शृणृध्वं मुनिसत्तमाः ॥६॥

गोमेदश्चैव चन्द्रश्च नारदो दुन्दुभिस्तथा ।
सोमकः सुमनाः शैलो वैभ्राजश्चैव सप्तमः ॥७॥

वर्षाचलेषु रम्येषु वर्षेष्वेतेषु चानघआः ।
वसन्ति देवगन्धर्व्वसहिताः सहितं प्रजाः ॥८॥

तेषु पुण्या जनपदा वीरा न म्रियते जनः ।
नाधयो व्याधयो वापि सर्व्वकालसुखं हि तत् ॥९॥

तेषां नद्यश्च सप्तैव वर्षाणान्तु समुद्रगाः ।
नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः ॥१०॥

अनुतप्ता शिखा चैव विप्रासा त्रिदिवा क्रमुः ।
अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः ॥११॥

एते शैलास्तथा नद्यः प्रथानाः कथिता द्विजाः ।
क्षुद्रनद्यस्तथा शैलास्तत्र सन्ति महस्रशः ॥१२॥

ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते ।
अवसर्पिणी नदी तेषां न चैवोत्सपिर्णो द्विजाः ॥१३॥

न तेष्वस्ति युगावस्था तेषु स्थानेषु सपतषु ।
त्रेतायुगसमः कालः सर्व्वदैव द्विजोत्तमाः ॥१४॥

प्लक्षद्वीपादिके विप्राः शाकद्वीपान्तिकेषु वै ।
पञ्चवर्षसहस्राणि जना जीवन्त्यनामयाः ॥१५॥

धर्म्मस्चतुर्व्विधस्तेषु वर्णाश्रमविभागजः ।
वर्णास्च तत्र चत्वारस्तान् बुधाः प्रवदामि वः ॥१६॥

आर्य्यकाः कुरवश्चैव विविश्वा भाविनश्च ये ।
विप्रक्षत्रियवैश्यास्ते शूद्राश्च मुनिसत्तमाः ॥१७॥

जम्बुवृक्षप्रमाणन्तु तन्मध्ये सुमहातरुः ।
प्लक्षस्तन्नामसंज्ञोऽयं प्लक्षद्वीपो द्विजोत्तमाः ॥१८॥

इज्येते तत्र भगवांस्तैर्व्वर्णैरार्य्यकादिभिः ।
सोमरूपी जगत्‌स्रष्टा सर्ध्वः सर्व्वेश्वरो हरिः ॥१९॥

प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समागवृतः ।
तथैवेक्षुरसोदेन परिवेषानुकारिणा ॥२०॥

इत्येतद् वो मुनिश्रेष्ठाः प्लक्षद्वीप उदाहृतः ।
संक्षोपेम मया भूयः शाल्मलं तं निबोधत ॥२१॥

शाल्मस्येश्वरो वीरो वपुष्मांस्तत्सुता द्विजाः ।
तेषान्तु नाम संज्ञानि सप्त वर्षाणि तानि वै  ॥२२॥

श्वेतोऽथ हरितस्चैव जीमूतो रोहितस्तथा ।
वैद्युतो मानसश्चैव सुप्रभश्च द्विजोत्तमाः ॥२३॥

शाल्मलश्च समुद्रोऽसौ द्वीपेनेक्षुरसोदकः ।
विस्ताराद्‌द्विगुणेनाथ सर्व्वतः संवृतः स्थितः ॥२४॥

तत्रापि पर्व्वताः सप्त विज्ञेया रत्नयोनयः ।
वर्षाभिव्यञ्जकास्ते तु तथा स्पतैव निम्नगाः ॥२५॥

कुमुदश्चोन्नतश्चैव तृतीयस्तु बलाहकः ।
द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः ॥२६॥

कङ्कस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा ।
ककुद्‌मान् पर्व्वतवरः सरिन्नामान्यतो द्विजाः ॥२७॥

श्रोणीतोया वितृष्णा च चन्द्रा शुक्रा विमोचनी ।
निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः ॥२८॥

श्वेतञ्च चलोहितञ्चैव जीमूतं हरितं तथा ।
वैद्युतं मानसञचैव सुप्रभं नाम सप्तमम् ॥२९॥

सप्तैतानि तु वर्षाणि चातुर्व्वर्ण्ययुतानि च ।
वर्णाश्च शाल्मले ये च वसन्त्येषु द्विजोत्तमाः ॥३०॥

कपिलाश्चारुणाः पीताः कृष्णास्चैवपृथक्‌पृथक् ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव यजन्ति तम् ॥३१॥

भगवन्तं समस्तस्य विष्णुमात्मानमव्ययम् ।
वायुभूतं मखश्रेष्ठैर्यज्वानो यज्ञसंस्थितम् ॥३२॥

देवानामत्र सान्निध्यमतीव सुमनोहरे ।
शाल्मलिश्च महावृक्षो नामनिवृत्तिकारकः ॥३३॥

एष द्वीपः समुद्रेण सुरोदेन समावृतः ।
शाल्मलस्य तु विस्ताराद्‌द्विगुणेन समन्ततः ॥३४॥

सुरोदकः परिवृतः कुशद्वीपेन सर्व्वतः ।
शाल्मलस्य तु विस्ताराद्‌द्विगुणेन समन्ततः ॥३५॥

ज्योतिष्मतः कुशद्वीपे श्रृणुध्वं तस्य पुत्रकान् ।
उद्भिदो वेणुमांश्चैव स्वैरथो रन्धनो धृतिः ॥३६॥

प्रभाकरोऽथ कपिलस्तन्नाम्ना वर्षपद्धतिः ।
तस्यां वसन्ति मनुजैः सह दैतेयदानवाः ॥३७॥

तथैव देवगन्धर्व्वा यक्षकिम्पुरुषादयः ।
वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः ॥३८॥

दमिनः शुष्मिणः स्नेहा मान्दहाश्च द्विजोत्तमाः ।
ब्राह्मणाः क्षत्रिया वैस्याः शूद्रास्चानुकमोदिताः ॥३९॥

यथोक्तकर्म्मकर्त्तृत्वात् स्वाधिकारक्षयाय ते ।
तत्र ते तु कुशद्वीपे ब्रह्मरूपं जनाद्र्दनम् ॥४०॥

यजन्तः क्षपयन्त्युग्रमधिकारफलप्रदम् ।
विद्रुमो हेमसैलश्च द्युतिमान् पुष्टिमांस्तथा ॥४१॥

कुशेशयो हरिश्चैव सप्तमो मन्दराचलः ।
वर्षाचलास्तु सप्तैते द्वीपे तत्र द्विजोत्तमाः ॥४२॥

नद्यश्च सप्त तासां तु वक्ष्ये नामान्यनुक्रमात् ।
धूतपापा शिवा चैव पवित्रा सम्मतिस्तथा ॥४३॥

विद्युदम्भो मही चान्या सर्व्वपापहरास्त्विमाः ।
अन्याः सहस्रस्स्तत्र क्षुद्रनद्यस्तथाचलाः ॥४४॥

कुशद्वीपे कुशस्तम्बः संज्ञया तस्य तत्स्मृतम् ।
तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः ॥४५॥

घृतोदश्च समुद्रो वै क्रौञ्चद्वीपेन संवृतः ।
क्रौञ्चद्वीपो मुनिश्रेष्ठाः श्रूयतां चापरो महान् ॥४६॥

कुशद्वीपस्य विस्ताराद्द्विगुणो यस्य विस्तरः ।
क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्त महात्ममनः ॥४७॥

तन्नामानि च वर्षाणि तेषां चक्रे महामनाः ।
कुशगो मन्दगश्चोष्णः पीवरोऽथान्धकारकः ॥४८॥

मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता द्विजाः ।
तत्रापि देवगन्धर्व्वसेविताः सुमनोरमाः ॥४९॥

वर्षाचला मुनिश्रेष्ठास्तेषां नामानि भो द्विजाः ।
क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः ॥५०॥

देवव्रतो धमश्चैव तथान्यः पुण्डरीकवान् ।
दुन्दुभिश्च महाशैलो द्विगुणास्ते पचरस्परम् ॥५१॥

द्वीपाद्द्वीपेषु ये शैलास्तथा द्वीपानि ते तथा ।
वर्षेष्वेतेषु रम्येषु वर्षशैलवरेषु च ॥५२॥

निवसन्ति निरातङ्काः सह देवगणैः प्रजाः ।
पुष्कला पुष्करा धन्यास्ते ख्याताश्च द्विजोत्तमाः ॥५३॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः ।
तत्र नद्यो मुनिश्रेष्ठा याः पिबन्दि तु ते सदा ॥५४॥

सप्त प्रधानाः शतशस्तथान्याः क्षद्रनिम्नगाः ।
गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ॥५५॥

ख्यातिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः ।
तत्रापि वर्णैर्भगवान् पुष्कराद्यैर्ज्जनाद्र्दनः ॥५६॥

ध्यानयोगै रुद्ररूप इज्यते यज्ञसन्निधौ ।
क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन तु ॥५७॥

आवृतः सर्व्वतः क्रौञ्चद्वीपतुल्येन मानतः ।
दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः ॥५८॥

क्रौञ्चद्वीपस्य विस्तारद्विगुणेन द्विजोत्तमाः ।
शाकद्वीपेश्वरस्यापि भव्यस्य सुमहात्मनः ॥५९॥

सप्तैव तनयास्तेषां ददौ वर्षाणि सप्त सः ।
जलदश्च कुमारश्च सुकुमारो मनीरकः ॥६०॥

कुसमोदश्च मोदाकिः सप्तमश्च महाद्रुमः ।
तत्संज्ञानयेव तत्रापि सप्त वर्षाण्यनुक्रमात् ॥६१॥

तत्रापि पर्व्वताः सप्त वर्षविच्छेदकारकाः ।
पूर्व्वस्तत्रोदयगिरिर्ज्जलधारस्तथापरः ॥६२॥

तथा रैवतकः श्यामस्तथैवाम्भोगिरिद्विजाः ।
आस्तिकेयस्तता रम्यः केसरी पर्व्वतोत्तमः ॥६३॥

शाकश्चात्र महावृक्षः सिद्धगन्धर्व्वसेवितः ।
यत्पत्रवातसंस्पर्शादाह्लादो जायते परः ॥६४॥

तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः ।
निवसन्ति महात्मानो निरातङ्का निरामयाः ॥६५॥

नद्यश्चात्र महापुण्याः सर्व्वपापभयापहाः ।
सुकुमारी च नलिनी रेणुका च या ॥६६॥

इक्षुश्च धेनुका चैव गभस्ती सप्तमी तथा ।
अन्यास्त्वयुतशस्तत्र क्षुद्रनद्यो द्विजोत्तमाः ॥६७॥

महीधरास्तथा सन्ति शतशोऽथ सहस्रशः ।
ताः पिबन्ति मुदा युक्ता जलदादिषु ये स्तिताः ॥६८॥

वर्षेषु ये जनपदाश्चतुर्थार्थसमन्विताः ।
नद्याश्चात्र महापुण्याः स्वर्गादभ्येत्य मेदिनीम् ॥६९॥

धर्म्महानिर्न तेष्वस्ति न संहर्षो न शुक् तथा ।
मर्य्यादाव्युत्क्रमश्चापि तेषु देशेषु सप्तसु ॥७०॥

मगाश्च मागधाश्चैव मानसा मन्दागास्तथा ।
मगा ब्राह्मणभूयिष्ठा मागधाः क्षत्रियास्तु ते ॥७१॥

वैश्यास्तु मानसास्तेषां शूद्रा ज्ञेयास्तु मन्दगाः ।
शाकद्वीपे स्थितैर्विष्णुः सूर्य्यरूपधरो हरिः ॥७२॥

यथोक्तैरिज्यते सम्यक्कर्म्मभिर्नियतात्मभिः ।
साकद्वीपस्ततो विप्राः क्षीरोदेन समन्ततः ॥७३॥

शाकद्वीपप्रमाणेन बलयेनेव वेष्टितः ।
क्षीराब्धिः सर्व्वतो विप्राः पुष्कराख्येन वेष्टितः ॥७४॥

द्वीपेन साकद्वीपातु द्विगुणेन समन्ततः ।
पुष्करे सवनस्यापि महावीतोऽभवत् सुतः ॥७५॥

धातकिश्च तयोस्तद्वद्द्वे वर्षे नामसंज्ञिते ।
महावीतं तथैवान्यद्वातकीखण्डसंज्ञितम् ॥७६॥

एकश्चात्र महाभागाः प्रख्यातो वर्षपर्व्वतः ।
मानसोत्तरसंज्ञो वै मध्यतो वलयाकृतिः ॥७७॥

योजनानां सहस्राणि ऊर्ध्व पञ्चाशदुच्छ्रितः ।
तावदेव च विस्तीर्णः सर्व्वतः परिमण्डलः ॥७८॥

पुष्करद्वीपवलयं तयोर्म्मध्ये महागिरिः ।
दशावर्षसहस्राणि तत्र जीवन्ति मानवाः ॥७९॥

वलयाकारमेकैकं तयोर्म्मध्ये महागिरिः ।
दशवर्षसहस्राणि तत्र जीवन्ति मानवाः ॥८०॥

निरामया विशोकाश्च रागद्वेषविवर्ज्जिताः ।
अधमोत्तमो न तेष्वास्तां न वध्यवधकौ द्विजाः ॥८१॥

नेर्ष्यासूया भयं रोषो लोभादिकं न च ।
महावीतं बहिर्व्वर्ष धातकोखण्डमन्ततः ॥८२॥

मानसोत्तरशैलस्य देवदैत्यादिसेवितम् ।
सत्यानृते न तत्रास्तां द्वीपे पुष्करसंज्ञिते ॥८३॥

न तत्र नद्यः शैला वा द्वीपे वर्षद्वयान्विते ।
तुल्यवेषास्तु मनुजा देवैस्तत्रैकरूपिणः ॥८४॥

वर्णाश्रमाचारहीनं धर्म्महरणवर्ज्जितम् ।
त्रयीवार्त्तदण्डनीतिशुश्रूषारहितं च तत् ॥८५॥

वर्षद्वयं ततो विप्रा भौमस्वर्गोऽयमुत्तमः ।
सर्व्वस्य सुखदः कालो जरारोगविवर्ज्जितः ॥८६॥

पुष्करे धातकीखण्डे महावीते च वै द्विजाः ।
न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम् ॥८७॥

तस्मिन्निवसति ब्रह्मापूज्यमानः सुरासुरैः ।
स्वादूदकेनोदधिना पुष्करः परिवेष्टितः ॥८८॥

समेन पुष्करस्यैव विस्तारान्मण्डलात्तथा ।
एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः ॥८९॥

द्वीपश्चैव समुद्रश्च समानौ द्विगुणौ परौ ।
पयांसि सर्व्वदा सर्व्वसमद्रेषु समानि वै ॥९०॥
न्यूनातिरिक्तता तेषां गटाचिन्नैव जायते ।
स्तालीस्थमग्निसंयोगादुद्रेकि सलिलं यथा ॥९१॥

तथेन्दुवृद्धौ सलिलम्मभौधो मुनिसत्तमाः ।
अनयूनानतिरिक्ताश्च वर्द्धन्त्यापो हसन्ति च ॥९२॥

उदयास्तमने त्विन्दौः पक्षयोः सुक्लकृष्णयोः ।
दशोत्तराणि पञ्चैव अङ्गुलानां शतानि च ॥९३॥

अपां वृद्धिक्षयो दृष्टौ सामुद्रीणां द्विजोत्तमाः ।
भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम् ॥९४॥

भुञ्जन्ति षड्सं विप्राः प्रजाः सर्व्वाः सदैव हि ।
स्वादूदकस्य परितो दृस्यते लोकसंस्थितिः ॥९५॥

द्विगुणा काञ्चनी भूमिः सर्व्वजन्तुविवर्जिता ।
लोकालोकस्ततः शैलो योजनायुतविस्तृतः ॥९६॥

उच्छ्रयेणापि तावन्ति सहस्रण्यावलोहि सः ।
ततस्तमः समावृत्य तं शैलं सर्व्वतः स्थितम् ॥९७॥

तमश्चाण्डकटाहेन समन्तात् परिवेष्टितम् ।
पञ्चाशत्कोटिविस्तारा सेयमुर्व्वे द्विजोत्तमाः ॥९८॥

सहैवाण्‍कटाहेन सद्वीपा समहीधरा ।
सेयं धात्री विधात्री च सर्व्वभूतगुणाधिक ।
आधारभूता जगतं सर्व्वेषां सा द्विजोत्तमाः ॥९९॥   

इति श्रीब्राह्मे महापुराणे समुद्रद्वीपपरिमाणवर्णनं नाम विंशोऽधायायः॥२०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP