संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ३०

ब्रह्मपुराणम् - अध्यायः ३०

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


आदित्यमाहात्म्यवर्णनम्
मुनय ऊचुः
अहो देवस्य माहात्म्यं श्रुतमेवं जगत्पते ।
भास्करस्य सुरश्रेष्ठ वदतस्तेषु दुर्लभम् ॥१॥

भूयः प्रब्रूहि देवेश यत् पृच्छामो जगत्पते ।
श्रोतुमिच्छामहे ब्रह्म परं कौतूहलं हि नः ॥२॥

गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः ।
य इच्छेन्मोक्षमास्थातुं देवतां कां यजेत् सः ॥३॥

कुतो ह्यस्याक्षयः स्वर्गः कुतो निःश्रेयसं परम् ।
स्वर्गतश्चैव किं कुर्म्माद्‌येन न च्यवते पुनः ॥४॥

देवानां चात्र को देवः पितृणाञ्चैव कः पिता ।
यस्मात् परतरं नास्ति नन्मे बूहि सुरेश्वर ॥५॥

कुतः सृष्टमिदं विश्वं सर्व्वं स्थावरजङ्गमम् ।
प्रलये च कमभ्येति तद्‌भवान् वक्तुमर्हति ॥६॥

उद्यन्नेवैष कुरुते जगद्वितिमिरं करैः ।
परतरो देवः कश्चिदन्यो द्विजोत्तमाः ॥७॥

अनादिनिधनो ह्येष पुरुषः शश्वतोऽव्ययः ।
तापयत्येष त्रील्लोकान् भवन्‌रश्मिभिरुल्वणः ॥८॥

सर्व्वदेवमयो ह्येष तपतां तपनो वरः ।
सर्व्वस्य जगतो नाथः सर्व्वसाक्षी जगत्‌पतिः ॥९॥

संक्षिपत्येष भूतानि तथा विसृजते पुनः ।
एष भाति तपत्येष वर्षत्येष गभस्तिभिः॥ ॥१०॥

एष धाता विधाता च भूतादिरभूतभावनः ।
न ह्येष क्षयमायाति नित्यमक्षयण्डलः ॥११॥

पितृणां च पिता ह्येष देवतानां हि देवता ।
ध्रुवं श्थानं स्मृतं ह्येतद्‌यस्मान्न च्यवते पुनः ॥१२॥

सर्गकाले जगत् कृत्स्नमादित्यात् सम्प्रसूयते ।
प्रलये च तमभ्येति भास्करं दीप्ततेजसम् ॥१३॥

योगिनश्चाप्यासंख्यातास्त्यक्त्वा गृहकलेवरम् ।
वायुर्भूत्वा विशन्त्यस्मिंस्तेजोराशौ दिवाकरे ॥१४॥

यस्य रश्मिसहस्राणि शाखा इव विहङ्गमाः ।
वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह ॥१५॥

गृहस्था जनकाद्याश्च राजानो योगधर्म्मिणः ।
बालखिल्यादयश्चैव ऋषयो ब्रह्मवादिनः ॥१६॥

वानप्रस्थाश्च ये चान्ये व्यासाद्या भिक्षवस्तथा ।
योगमास्थाय सर्व्वे ते प्रविष्टाः सूर्य्यमण्डलम् ॥१७॥

शुको व्याससतुतः श्रीमान्‌योगधर्म्मवाप्य सः ।
आदित्यकिरणान् गत्वा ह्यपुर्भावमास्थितः ॥१८॥

शब्दमात्रश्रुतिमुखा ब्रह्मविष्णुशिवादयः ।
प्रत्यक्षोऽयं परो देवः सूर्य्यस्तिमिरनाशनः ॥१९॥

तस्मादन्यत्र भक्तिर्हि न कार्य्या शुभमिच्छिता ।
यस्माद्‌दृष्टेरगम्यास्ते देवा विष्णुपुरोगमाः ॥२०॥

अतो भवद्भिः सततमभ्यच्चर्यो भगवान् रविः ।
स हि माता पिता चैव कुत्स्नास्य जगतो गुरुः ॥२१॥

अनाद्यो लोकनाथोऽसौ रश्मिमाली जगत्पतिः ।
मित्रत्वे च स्थितो यस्मात्तपस्तेपे द्विजोत्तमाः ॥२२॥

अनादिनिधनो ब्रह्मा नित्यश्चाक्षय एव च ।
सृष्ट्चवा ससागरान् द्वीपान् भुवनानि चतुर्दश ॥२३॥

लोकानां स हितार्थाय स्थितश्चन्द्रसरित्तटे ।
सृष्ट्वा प्रजापतीन् सर्व्वान्सृष्ट्वा च विविधाः प्रजाः ॥२४॥

ततः शतसहस्रांशुर्वयक्तश्च पुनः स्वयम् ।
कृत्वा द्वादशधात्मानमादित्यमुपपद्यते ॥२५॥

इन्द्रो धाताथ पर्जन्यस्त्वष्टा पूषार्य्यमा भगः ।
विवस्वान् विष्णुरंशश्च वरुणो मित्र एव च ॥२६॥

आभिर्द्वाशभिस्तेन सूर्य्येण परमात्मना ।
कृत्स्नं जगदिदं व्याप्तं मूर्त्तिभिश्च द्विजोत्तमाः ॥२७॥

तस्य या प्रथमा मूर्त्तिरादित्यस्येन्द्रसंज्ञिता ।
स्थिता सा देवराजत्वे देवानां रिपुनाशिनी ॥२८॥

द्वितीया तस्य या मूर्त्तिर्नाम्ना धातेति कीर्त्तिता ।
स्थिता प्रजापतित्वेन विविधाः सृजते प्रजाः ॥२९॥

तृतीयार्कस्य या मूर्त्तिः पर्जन्य इति विश्रुता ।
मेघेष्वेव स्थिता सा तु वर्षते च गभस्तिभिः ॥३०॥

चतुर्थी तस्य मूर्त्तिर्नाम्ना त्वष्टेति विश्रुता ।
स्थिता वनस्पतौ सा तु ओषधीषु च सर्व्वतः ॥३१॥

पञ्चमी तस्य या मूर्त्तिर्नाम्ना पूषेति वुश्रुता ।
अन्ने व्यवस्थिता सा तु प्रजां पुष्णाति नित्यशः ॥३२॥

मूर्त्तिः षष्ठी रवेर्या तु अर्य्यमा इति विश्रुता ।
वायोः संसरणा सा तु देवेष्वेव समाश्रिता ॥३३॥

भानोर्या सप्तमी मूर्त्तिर्नाम्ना भगेति विश्रुता ।
भूतिष्ववस्थिता सा तु शरीरेषु च देहिनाम् ॥३४॥

मूर्त्तिर्या त्वष्टमी तस्य विवस्वानिति विश्रुता ।
अग्नौ प्रतिष्ठिता सा तु पचत्यन्नं शरीरिणाम् ॥३५॥

नवमी चित्रभानोर्या मूर्त्तिर्विष्णुस्च नामतः ।
प्रादुर्भवति सा नित्यं देवनामरिशूदनी ॥३६॥

दशमी तस्य या मूर्त्तिरंशुमानिति विश्रुता ।
वायौ प्रतिष्ठिता सा तु प्रह्लादयति वै प्रजाः ॥३७॥

मूर्त्तिस्त्वेकादशी भानोर्नाम्ना वरुणसंज्ञिता ।
जलेष्ववस्थिता सा तु प्रजां पुष्णाति नित्यशः ॥३८॥

मूर्त्तिर्या द्वादशो भानोर्नाम्ना मित्रेण चक्षुषा ।
लोकानां सा हितार्थाय स्थिता चन्द्रसरित्तटे ॥३९॥

वायुभक्षस्तपस्तेषे स्थित्वा मैत्रेण चक्षुषा ।
अनुगृह्णन् सदा भक्तान् वरैर्नानाविधैस्तु सः ॥४०॥

एवं सा जगतां सूर्त्तिर्हिताय विहिता पुरा ।
तत्र मित्रः स्थइतो यस्मात्तस्मान्मित्रं परं स्मृतम् ॥४१॥

आभिर्द्वादशभिस्तेन सवित्रा परमात्मना ।
कृत्स्नं जगदिदं व्याप्तं मूर्त्तिभिश्च चद्विजोत्तमाः ॥४२॥

तस्माद्‌ध्येयो नमस्यश्च द्वादशस्थासु मूर्त्तिषु ।
भक्तिमद्भर्नरैर्नित्यं तद्‌गतेनान्तरात्मना ॥४३॥

इत्येवं द्वादशादित्यान्नमस्कृत्वा तु मानवः ।
नित्यं श्रुत्वा पठित्वा च सूर्य्यलोके महीयते ॥४४॥

मुनय ऊचुः
यदि तावदयटं सूर्य्यश्चादिदेवः सनातनः ।
ततः कस्मात्तपस्तेपे वरेप्सुः प्राकृतो यथा ॥४५॥

ब्रह्मोवाच
एतद्वः संप्रवक्ष्यामि परं गुह्यं विभावसोः ।
पृष्टं मित्रेण यत् पूर्व्वं नारदाय महात्मते ॥४६॥

प्राङमयोक्तास्तु युष्मभ्यं रवेर्द्वाश मूर्त्तयः ।
मित्रश्च वरुणश्चोभौ तासां तपसि संस्थितौ ॥४७॥

अब्भक्षो वरुणस्तासां तस्थौ पश्विमसागरे ।
मित्रो मित्रवने चास्मिन् वायुभक्षोऽभवत्तदा ॥४८॥

अथ मेरुगिरेः श्रृङ्गात् प्रच्युतो गन्धमादनात् ।
नारदस्तु महायोगो सर्व्वालोकांश्चरन् वशो ॥४९॥

आजगामाथ तत्रैव यत्र मित्रोऽचरत्तपः ।
तं दृष्ट्वा तु तपस्यन्तं तस्य कौतूहलं ह्यभूत् ॥५०॥

योऽक्षयश्चाव्ययश्चैव व्यक्ताव्यक्तः चसनातनः ।
धृतमेकात्मकं येन त्रैलोक्यं सुमहात्मना ॥५१॥

यः पिता सर्व्वदेवानां पराणामपि यः परः ।
अयजद्‌देवताः कास्तु पितृन् वा कानसौ येजेत् ।
इति सञ्चिन्त्य मानसा तं देवं नारदोऽब्रवीत् ॥५२॥

नार उवाच
वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे ।
त्वमजः शाश्वतो धाता त्वं निधानमनुत्तमम् ॥५३॥

भूतं भव्यं भवच्चैव त्वयि सर्व्वं प्रतिष्ठितम् ।
चत्वारस्चाश्रमा देव गृहस्थाद्यास्तथैव हि ॥५४॥

यजन्ति त्वामहरहस्त्वां मूर्त्तित्वं समाश्रितम् ।
पिता माता च सर्व्वस्य दैवतं त्वं हि शाश्वतम् ॥५५॥

यजसे पितरं कं त्वं देवं वापि न विद्‌महे ॥५६॥

अवाच्यमेतद्वक्तदव्यं परं गुह्यं सनातनम् ।
त्वयि भक्तिमति ब्रह्मन् प्रवक्ष्यामि यथातथम् ॥५७॥

यत्तत् सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम् ।
इन्द्रियैरिन्द्रियार्थैश्च सर्व्वभूतैर्विवर्ज्जितम् ॥५८॥

स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चैव कथ्यते ।
त्रिगुणाद्व्‌यतिरिक्तोऽसौ पुरुषश्चैव कल्पितः ॥५९॥

हिरण्यगर्भो भगवान् सैव बुद्धिरिति स्मृतः ।
महानिति च योगेषु प्रधानमिति कथ्यते ॥६०॥

सांख्ये च कथ्यते योगे नामभिर्बहुधात्मकः ।
स च त्रिरूपो विश्वात्मा शर्वोऽक्षर इति स्मृतः ॥६१॥

धृतमेकात्मकं तेन त्रैलोक्यमिदमात्मना ।
अशरीरः शरीरेषु सर्व्वेषु निवसत्यसौ ॥६२॥

वसन्नपि शरीरेषु न स लिप्येत कर्म्मभिः ।
ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः ॥६३॥

सर्व्वेषां साक्षिभूतोऽसौ न ग्राह्यं केनचित् क्वचित् ।
सगुणो निर्गुणो विश्वो ज्ञानगम्यो ह्यसौ स्मृतः ॥६४॥

सर्व्वतः पाणिपादान्तः सर्व्वतोऽक्षिशिरोमुखः ।
सर्व्वतः श्रुतिमाँल्लोके सर्व्वमावृत्य तिष्ठति ॥६५॥

विश्वमूर्द्धा विश्वभुजो विश्वपादाक्षिनासिकः ।
एकश्चरति वै क्षेत्रे स्वैरचारी यथासुखम् ॥६६॥

क्षेत्राणीह शरीराणि तेषाञ्चैव यथासुखम् ।
तानि वेत्ति स योगात्मा ततः क्षेत्रञ्च उच्यते ॥६७॥

अव्यक्ते च पुरे शेते पुरुषस्तेन चोच्यते ।
विश्वं बहुविधं ज्ञेयं स च सर्व्वत्र उच्यते ॥६८॥

तस्मात् स बहुरुपत्वाद्विश्वरूप इति स्मृतः ।
तस्यैकस्य महात्त्वं हि स चैकः पुरुषः स्मृतः ॥६९॥

महापुरुपषशब्दं हि बिभर्त्त्येकः सनातनः ।
स तु विधिक्रियायत्तः सृजत्यात्मानमात्मना ॥७०॥

शतधा सहस्रधा चैव तथा शतसहस्रधा ।
कोटिशश्च करोत्येष प्रत्यगात्मानमात्मता ॥७१॥

आकाशात् पतितं तोयं याति स्वाद्वन्तरं यथा ।
भूमे रसविशेषेण तथा गुणपसात्तु सः ॥७२॥

एक एव यथा वायुर्देहष्वेव हि पञ्चधा ।
एकत्वञ्च पृथक्‌त्वञ्च तथा तस्य न संशयः ॥७३॥

स्थानान्तरविसेषाच्च यथाग्निर्लभते पराम् ।
संज्ञां तथा मुने सोऽयं ब्रह्मादिषु तथाप्नुयात् ॥७४॥

यथा दीपसहस्राणि दीप एकः प्रसूयते ।
तथा रूपसहस्राणि स एकः सम्प्रसूयते ॥७५॥

यदा स बुध्यत्यात्मानं तदा भवति केवलः ।
एकत्वप्रलये चास्य बहुत्वञ्च प्रवर्त्तते ॥७६॥

नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् ।
अक्षयश्चाप्रमेयश्च सर्व्वेगश्च स उच्यते ॥७७॥

तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमाः ।
अव्यक्ताव्यक्तभावस्था या सा प्रकृतिरुच्यते ॥७८॥

तां योनिं ब्रह्मणो विद्धि योऽसौ सदसदात्मकः ।
लोके च पूज्यते योऽसौ दैव पित्र्ये च कर्म्मणि ॥७९॥

नास्ति तस्मात् परो ह्यन्यः पिता देवोऽपि वा द्विजाः ।
आत्मना स तु विज्ञेयस्ततस्तं पूजयाम्यहम् ॥८०॥

स्वर्गेष्वपि हि ये केचित्तं नमस्यन्ति देहिनः ।
तेन गच्छन्ति देवर्षे तेनोदिदष्टफलां गतिम् ॥८१॥

तं देवाः स्वाश्रमस्थाश्च नानामूर्त्तिसमाश्रिताः ।
भक्त्या सम्पूजयन्त्याद्यं गतिश्चैषां ददाति सः ॥८२॥

स हि सर्व्वगतश्चैव निर्गुणश्चैव कथ्यते ।
एवं मत्वा यथाज्ञानं पूजयामि दिवाकरम् ॥८३॥

ये च तद्‌भाविता लोक एकतत्त्वं समाश्रिताः ।
एतदप्यधिकं तेषां यदेकं प्रविशन्त्युत ॥८४॥

इति गुह्यसमुद्‌देशस्तव नारद कीर्त्तितः ।
अस्मद्‌भक्त्यापि देवर्षे त्वयापि परमं स्मृतम् ॥८५॥

सुरैर्व्वा मुनिभिर्व्वापि पुराणैर्व्वरदं स्मृतम् ।
सर्व्वे च परमात्मानं पूजयन्ति दिवाकरम् ॥८६॥

ब्रह्मोवाच
एवमेतत् पुराख्यातं नारदाय तु भानुना ।
मयापि च समाख्याता कथा भानोर्द्विजोत्तमाः ॥८७॥

इदमाख्यानामाख्येयं मयाख्यातं द्विजोत्तमाः ।
न ह्यनादित्यभक्ताय इदं देयं कदाचन ॥८८॥

यश्चैतच्छ्रावयेन्नित्यं यश्चैव श्रृणुयान्नरः ।
स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः ॥८९॥

मुच्यतार्त्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम् ।
जिज्ञासुर्लभते ज्ञानं गतिमिष्टां तथैव च ॥९०॥

क्षणेन लभतेऽधवानमिदं यः पठते मुने ।
यो यं कामयते कामं स तं प्राप्नोत्यसंशयम् ॥९१॥

तस्माद्‌भवद्‌भिः सततं स्मर्त्तव्यो भगवान् रविः ।
स च धाता विधाता च सर्व्वस्य जगतः प्रभुः ॥९२॥

इति श्रीब्राह्मे महापुराणे आदित्यमाहात्म्यवर्मनं नाम त्रिंशोऽध्यायः॥ ३०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP