TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १२४

ब्रह्मपुराणम् - अध्यायः १२४

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १२४
अथ चतुर्विंशाधिकशततमोऽध्यायः
पुत्रतीर्थवर्णनम्
ब्रह्मोवाच
पुत्रतीर्थमिति ख्यातं पुण्यतीर्थं तदुच्यते ।
सर्वान्कामानवाप्नोति यन्महिम्नः श्रुतेरपि ॥१॥

तस्य स्वरूपं वक्ष्यामि श्रृणु यत्नेन नारद ।
दितेः पुत्राश्च दनुजाः परिक्षीणा यदाऽभवन् ॥
अदितेस्तु सुना ज्येष्ठाः सर्वभावेन नारद  ॥२॥

तदा दितिः पुत्रवियोगदुःखात्संस्पर्धमाना दनुमाजगाम ॥३॥

दितिरुवाच
क्षीणाः सुता आवयोरेव भद्रे, किं कुर्महे कर्म लोके गरीयः ।
पश्यादितेर्वंशमभिन्नमुत्तमं, सौराज्ययुक्तं यशसा जयश्रिया ॥४॥

जितारिमभ्युन्नतकीर्तिधर्मं, मच्चित्तसंहर्षविनाशदक्षम् ।
समानभर्तृत्वसमानधर्मे, समानगोत्रेऽपि समानरूपे ॥५॥

न जीवयेयं श्रियमुन्नतिं च, जीर्णाऽस्मि दृष्ट्वा त्वदितिप्रसूतान् ।
कामप्यवस्थामनुयामि दुःस्थाऽदितेर्विलोक्याथ परां समृद्धिम् ॥
दावप्रवेशोऽपि सुखाय नूनं, स्वप्नेऽप्यवेक्ष्या न सपत्नलक्ष्मीः ॥६॥

ब्रह्मोवाच
एवं ब्रुवाणामतिदीनवक्त्रां विनिश्वसन्तीं परमेष्ठपुत्रः ।
कृताभिपूजो विगतश्रमस्तां, स सान्त्वयन्नाह मनोभिरामाम् ॥७॥

परमेष्ठिपुत्र उवाच
खेदो न कार्यः समभीप्सितं यत्तत्प्राप्यते पुण्यत एव भद्रे ।
तत्साधनं वेत्ति महानुभावः, प्रजापतिस्ते स तु वक्ष्यतीति ॥८॥

साध्व्येतत्सर्वभावेन प्रश्रयावनता सती ॥९॥

ब्रह्मोवाच
एवं ब्रुवाणां च दितिं दनुः प्रोवाच नारद ॥१०॥

दनुरुवाच
भर्तारं कश्यपं भद्रे तोषयस्व निजैर्गुणैः ।
दुष्टो यदि भवेद्भर्ता ततः कामानवाप्स्यसि ॥११॥

ब्रह्मोवाच
तथेत्युक्त्वा सर्वभावैस्तोषयामास कश्यपम् ।
दितिं प्रोवाच भगवान्कश्यपोऽथ प्रजापतिः ॥१२॥

कश्यप उवाच
किं ददामि वदाभिष्टं दिते वरय सुव्रते ॥१३॥

ब्रह्मोवाच
दितिरप्याह भर्तारं पुत्रं बहुगुणान्वितम् ।
जेतारं सर्वलोकानां सर्वलोकनमस्कृतम् ॥१४॥

येन जातेन लोकेऽस्मिन्भवेयं वीरपुत्रिणी ।
तं वरेयं सुरपितरित्याह विनायन्विता ॥१५॥

कश्यप उवाच
उपदेक्ष्ये व्रतं श्रेष्ठं द्वादशाब्दफलप्रदम् ।
तत आगत्य ते गर्भमाधास्ये यन्मनोगतम् ॥
निष्पापतायां जातायां सिध्यन्ति हि मनोरथाः ॥१६॥

ब्रह्मोवाच
भर्तृवाक्याद्दितिः प्रीता तं नमस्याऽऽयतेक्षणा ।
उपदिष्टं व्रतं चक्रे भर्त्राऽऽदिष्टं यथाविधि ॥१७॥

तीर्थसेवापात्रदानव्रतचर्यादिवर्जिताः ।
कथमासादयिष्यन्ति प्राणिनोऽत्र मनोरथान्  ॥१८॥

ततश्चीर्णे व्रते तस्यां दित्यां गर्भमधारयत् ।
पुनः कान्तामथोवाच कश्यपस्तां दितिं रहः ॥१९॥

कश्यप उवाच
न प्राप्नुवन्ति यत्कामान्मुनयोऽपि तपस्थिताः ।
यथाविहितकर्माङ्गावज्ञया तच्छुचिस्मिते ॥२०॥

निन्दितं च न कर्तव्यं संध्ययोरुभयोरपि ।
न स्वप्तव्यं न गन्तव्यं मुक्तकेशी च नो भव ॥२१॥

भोक्तव्यं सुभगे नैव क्षुतं जृम्भणं तथा ।
संध्याकाले न कर्तव्यं भूतसंघसमाकुले ॥२२॥

सान्तर्धानं सदा कार्यं हसितं तु विशेषतः ।
गृहान्तदेशे संध्यासु न स्थातव्यं कदाचन ॥२३॥

मुशलोलूखलादीनि सूर्पपीठपिधानकम् ।
नैवातिक्रमणीयानि दिवा रात्रौ सदा प्रिये ॥२४॥

उदक्शीर्षं तु शयनं न संध्यासु विशेषतः ।
वक्तव्यं नानृतं किंचिन्नान्यगेहाटनं तथा ॥२५॥

कान्तादन्यो न वीक्ष्यस्तु प्रयत्नेन नरः क्वचित् ।
इत्यादिनियमैर्युक्ता यदि त्वमनुवर्तसे ॥
ततस्ते भविता पुत्रस्त्रलोक्यैश्वर्यभाजनम् ॥२६॥

ब्रह्मोवाच
तथेति प्रतिजज्ञे सा भर्तारं लोकपूजितम् ।
गतश्च कश्यपो ब्रह्मन्नितश्चेतः सुरान्प्रति ॥२७॥

दितेर्गर्भोऽपि ववृधे बलवान्पुण्यसंभवः ।
एतत्सर्वं मयो दैत्यो मायया वेत्ति तत्त्वतः ॥२८॥

इन्द्रस्य सख्यमभवन्मयेन प्रीतिपूर्वकम् ।
मयो गत्वा रहः प्राह इन्द्रं स विनयान्वितः ॥२९॥

दितेर्दनोरभिप्रायं व्रतं गर्भस्य वर्धनम् ।
तस्य वीर्यं च विविधं प्रीत्येन्द्राय न्यवेदयत् ॥३०॥

विश्वासैकगृहं मित्रमपायत्रासवर्जितम् ।
अर्जितं सुकृतं नानाविधं चेत्तदवाप्यते ॥३१॥

नारद उवाच
नमुचेश्च प्रियो भ्राता मयो दैत्यो महाबलः ।
भ्रातृहन्त्रा कथं मैत्र्यं मयस्याऽसीत्सुरेश्वर ॥३२॥

ब्रह्मोवाच
दैत्यानामधिपश्चाऽऽसीद्बलावान्नमुचिः पुरा ।
इन्द्रेण वैरमभवद्भीषणं लोमहर्षणम् ॥३३॥

युद्धं हित्वा कदाचिद्भो गच्छन्तं तु शतक्रतुम् ।
दृष्ट्वा दैत्यपतिः शूरो नमुचिः पृष्ठतोऽन्वगात् ॥३४॥

तमायान्तमभिप्रेक्ष्य शचीभर्ता भयातुरः ।
ऐरावतं गजं त्यक्त्वा इन्द्रः फेनमथाऽऽविशत् ॥३५॥

स वज्रपाणिस्तरसा फेनेनैवाहनद्रिपुम् ।
नमुचिर्नाशमगमत्तस्य भ्राता मयोऽनुजः ॥३६॥

भ्रातृहन्तृविनाशाय तपस्तेपे मयो महत् ।
मायां च विविधामाप देवानामतिभषणाम् ॥३७॥

वरांश्चावाप्य तपसा विष्णोर्लोकपरायणात् ।
दानशौण्डः प्रियालापी तदाऽभवदसौ मयः ॥३८॥

अग्नींश्च ब्राह्मणान्पूज्य जेतुमिन्द्रे कृतक्षणः ।
दातारं च तदाऽर्थिभ्यः स्तूयमानं च बन्दिभिः ॥३९॥

विदित्वा मघवा वायोर्मयं मायाविनं रिपुम् ।
उपक्रान्तं सुयुद्धाय विप्रो भूत्वा तमभ्यगात् ॥
शचीभर्ता मयं दैन्यं प्रोवाचेदं पुनः पुनः  ॥४०॥

इन्द्र उवाच
देहि दैत्यपे मह्यमर्थिनेऽपेक्षित वरम् ।
त्वां दातृतिलकमागतोऽहं द्विजोत्तमः ॥४१॥

ब्रह्मोवाच
मयोऽपि ब्राह्मणं मत्वाऽवद्दत्तं मया तव ।
विचारयन्ति कृतिनो बह्वल्पं वा पुरोऽर्थिनि ॥४२॥

इत्युक्ते तु हरिः प्राह सख्यमिच्छे ह्यहं त्वया ।
इन्द्रं मयः पुनः प्राह किमनेन द्विजोत्तम ॥४३॥

न त्वया मम वैरं भोः स्वस्तीत्याह हरिर्मयम् ।
तत्त्वं वदेति स हरिर्दैत्येनोक्तः स्वकं वपुः ॥४४॥

दर्शयामास दैत्याय सहस्राक्षं यदुच्यते ।
ततः सविस्मयो दैत्यो मयो हरिमुवाच ह ॥४५॥

मय उवाच
किमिदं वज्रपाणिस्त्वं तवायोग्या कृतिः सखे ॥४६॥

ब्रह्मोवाच
परिष्वज्य विहस्याथ वृत्तमित्यब्रवीद्धरिः ।
केनापि साधयन्त्यत्र पण्डिताश्च समीहितम् ॥४७॥

ततः प्रभृति शक्रस्य मयेन महती ह्यभूत् ।
सुप्रीतिर्मुनिशार्दूल मयो हरिहितः सदा ॥४८॥

इन्द्रस्य भवनं गत्वा तस्मै सर्वं न्यवेदयत् ।
किं मे कृत्यमिति प्राह मयं मायाविनं हिः ॥४९॥

हरये च मयो मायां प्रादात्प्रीत्य तथा हरिः ।
प्राप्तः संप्रीतिमानाह किं कृत्यं मय तद्वद ॥५०॥

आगस्त्याऽऽश्रमं गच्छ तत्राऽऽस्ते गर्भिणी दितिः ।
तस्याः शुश्रूषणं कुर्वन्नास्स्व तत्र कियन्ति च ॥५१॥

अहानि मघवंस्तस्या गर्भमाविश्य वज्रधृक् ।
वर्धमानं च तं छिन्धि यावद्वश्योऽथवा मृतिम् ॥
प्राप्नोति तावद्वज्रेण ततो न भविता रिपुः ॥५२॥

ब्रह्मोवाच
तथेत्युक्त्वा मयं पूज्य मघवानेक एव हि ।
विनीतवत्तदा प्रायाद्दितिं मातरमञ्जसा ॥५३॥

शुश्रूषमाणस्तां देवीं शक्रो दैतेयमातरम् ।
सा न जानाति तच्चित्तं शक्रस्य द्विषतो दितिः ॥५४॥

गर्भे स्थितं तु यद्भूतं देवेन्द्रस्य विचेष्टितम् ।
अमोघं तन्मुनेस्तेजः कश्यपस्य दुरासदम् ॥५५॥

ततः प्रगृह्य कुलिशं सहस्राक्षः पुरंदरः ।
अन्तःप्रवेशकामोऽसौ बहुकालं समावसन् ॥५६॥

संध्योदक्शीर्षनिद्रां तामवेक्ष्य कुलिशायुधः ।
इदमन्तरमित्युक्त्वा दित्याः कुक्षिं समाविशत् ॥५७॥

अन्तर्वर्ति च यद्भूतमिन्द्रं दृष्ट्वा धृतायुधम् ।
हन्तुकामं तदोवाच पुनः पुनरभीतवत् ॥५८॥

गर्भस्थ उवाच
किं मां न रक्षसे वज्रिन्भ्रातरं त्वं जिघांससि ।
नारणे मारणादन्यत्पातकं विद्यते महत् ॥५९॥

ऋते युद्धान्महाबाहो शक्र युध्यस्व निर्गते ।
मयि तस्मान्नैतदेवं तव युक्तं भविष्यति ॥६०॥

शतक्रतुः सहस्राक्षः शचीभर्ता पुरंदरः ।
वज्रपाणिः सुरेन्द्रस्त्वं ते न युक्तं भवेत्प्रभो ॥६१॥

अथवा युद्धकामस्त्वं मम निष्क्रमणं यथा ।
तथा कुरु महाबाहो मार्गादस्मादपासर ॥६२॥

कुमार्गे न प्रवर्तन्ते महान्तोऽपि विपद्गताः ।
अविद्यश्चाप्यशस्त्रश्च नैव चाऽऽयुधसंग्रहः ॥६३॥

त्वं विद्यावान्वज्रपाणे मां निघ्नन्किं न लज्जसे ।
कुर्वन्ति गर्हितं कर्म न कुलीनाः कदाचन ॥६४॥

हत्वा वा किं तु जायेत यशो वा पुण्यमेव वा ।
वध्यन्ते भ्रातरः कामाद्गर्भस्थाः किं न पौरुषम् ॥६५॥

यदि वा युद्धभक्तिस्ते मयि भ्रातरसंशयम् ।
ततो मुष्टिं पुरस्कृत्य वज्रिणेऽसौ व्यवस्थितः ॥६६॥

बालघाती ब्रह्मघाती तथा विश्वसघातकः ।
एवंभूतं फलं शक्र कस्मान्मां हन्तुमुद्यतः ॥६७॥

यस्याऽऽज्ञया सर्वमिदं वर्तते सचराचरम् ।
स हन्ता बालकं मां वै किं यशः किन्तु पौरुषम् ॥६८॥

ब्रह्मोवाच
एवं ब्रुवन्तं तं गर्भं चिच्छेद कुलिशेन सः ।
क्रोधान्धानां लोभिनां च न घृणा क्वापि विद्यते ॥६९॥

न ममार ततो दुःखादाहुस्ते भ्रातरो वयम् ।
पुनश्चिच्छेद तान्खण्डान्मा वधीरिति चाब्रुवन् ॥७०॥

विश्वस्तान्मातृगर्भस्थान्निजभ्रातृञ्शतक्रतो ॥
द्वेषविध्वस्तबुद्धीनां न चित्ते करुणाकणः ॥७१॥

एवं तु खण्डितं खण्डं हस्तपादादिजीववत् ।
निर्विकारं ततो दृष्ट्वा सप्तसप्त सुविस्मितः ॥७२॥

एकवद्बहुरूपाणि गर्भस्थानि शुभानि च ।
रुदन्ति बहुरूपाणि मा रुतेत्यब्रवीद्धरिः ॥७३॥

ततस्ते मरुतो जाता बलवन्तो महौजसः ।
गर्भस्था एव तेऽन्योन्यमूचुः शक्रं गतभ्रमाः ॥७४॥

अगस्त्यं मुनिशार्दूलं माता यस्याऽऽश्रमे स्थिता ।
अस्मत्पिता तव भ्राता सख्यं ते बहु मन्यते ॥७५॥

अस्मानुपरि सस्नेहं मनस्ते विद्महे मुने ।
न यत्करोति श्वपचः प्रवृत्तस्तत्र वज्रधृक् ॥७६॥

इत्येतद्वचनं श्रुत्वा अगस्त्योऽगात्ससंभ्रमः ।
दितिं संबोधयामास व्यथितां गर्भवेदनात् ॥
तत्रागस्त्यः शचीकान्तमशपत्कुपितो भृशम्  ॥७७॥

अगस्त्य उवाच
सङ्ग्रामे रिपवः पृष्ठं पश्येयुस्ते सदा हरे ।
जीवतामेव मरणमेतदेव हि मानिनाम ॥
पृष्ठं पलायमानानां यत्पश्यन्त्यहिता रणे ॥७८॥

ब्रह्मोवाच
साऽपि तं गर्भसंस्थं च शशापेन्द्रं रुषा दितिः ॥७९॥

दितिरुवाच
न पौरुषं कृतं तस्माच्छापोऽयं भविता तव ।
स्त्रीभिः परिभवं प्राप्य राज्यात्प्रभ्रश्यसे हरे ॥८०॥

ब्रह्मोवाच
एतस्मिन्नन्तरे तत्र कश्यपो वै प्रजापतिः ।
प्रायाच्च व्यथितोऽगस्त्याच्छ्रुत्वा शक्रविचेष्टितम् ॥
गर्भान्तरगतः शक्रः पितरं प्राह भीतवत् ॥८१॥

शक्र उवाच
अगस्त्याच्च दितेश्चैव बिभेमि क्रमितुं बहिः ॥८२॥

ब्रह्मोवाच
एतस्मिन्नन्तरे प्राप्य कश्यपोऽपि प्रजापतिः ।
पुत्रकर्म च तद्दृष्ट्वा गर्भान्तः स्थितिमेव च ॥
दितिशापमगस्त्यस्य श्रुत्वाऽसौ दुःखितोऽभवत् ॥८३॥

कश्यप उवाच
निर्गच्छ शक्र पुत्रैतत्पापं किं कृतवानसि ।
न निर्मलकुलोत्पन्ना मनः कुर्वन्ति पातके ॥८४॥

ब्रह्मोवाच
स निर्गतो वज्रपाणिः सव्रीडोऽधोमुखोऽब्रवीत् ।
तन्मूर्तिरेव वदति सदसच्चेष्टितं नृणाम् ॥८५॥

शक्र उवाच
यदुक्तमत्र श्रेयः स्यात्तत्कर्ताऽहमसंशयम् ॥८६॥

ब्रह्मोवाच
ततो ममान्तिकं प्रायाल्लोकपालैः स कश्यपः ।
सर्वं वृत्तमथोवाच पुनः पप्रच्छ मां सुरैः ॥८७॥

दितिगर्भस्य वै शान्ति सहस्राक्षविशापताम् ।
गर्भस्थानां च सर्वेषामिन्द्रेण सह मित्रताम् ॥८८॥

तेषामारोग्यतां चापि शचीभर्तुरदोषताम् ।
अगस्त्यदत्तशापस्य विशापत्वमपि क्रमात् ॥८९॥

ततोऽहमब्रवं वाक्यं कश्यपं विनयान्वितम् ।
प्रजापते कश्यप त्वं वसुभिर्लोकपालकैः ॥९०॥

इन्द्रेण सहितः शीघ्रं गौतमीं याहि मानद ।
तत्र स्नात्वा महेशानं स्तुहि सर्वैः समन्वितः ॥९१॥

ततः शिवप्रसादेन सर्वं श्रेयो भवेदिति ।
तथेत्युक्त्वा जगामासौ कश्यपो गौतमीं तदा ॥९२॥

स्नात्वा तुष्टाव देवेशमेभिरैव पदक्रमैः ।
सर्वदुःखापनोदाय द्वयमेव प्रकीर्तितम् ॥
गौतमी वा पुष्यनदी शिवो वा करुणाकरः ॥९३॥

कश्यप उवाच
पाहि शंकर देवेश पाहि लोकनमस्कृत ।
पाहि पावन वागीश पाहि पन्नगभूषण ॥९४॥

पाहि धर्म वृषारूढ पाहि वेदत्रयेक्षण ।
पाहि गोधरलक्ष्मीश पाहि शर्व गजाम्बर ॥९५॥

पाहि त्रिपुरहन्नाथ पाहि सोमार्धभूषण ।
पाहि यज्ञेश सोमेश पाह्यभीष्टप्रदायक ॥९६॥

पाहि कारुण्यनिलय पाहि मङ्गलदायक ।
पाहि प्रभव सर्वस्य पाहि पालक वासव ॥९७॥

पाहि भास्कर वित्तेश पाहि ब्रह्मनमस्कृत ।
पाहि विश्वेश सिद्धेश पाहि पूर्ण नमोऽस्तु ते ॥९८॥

घोरसंसारकान्तारसंचारोद्विग्नचेतसाम् ।
शरीणां कृपासिन्धो त्वमेव शरणं शिव ॥९९॥

एवं संस्तुवतस्तस्य पुरतोऽभूद्वृषध्वजः ।
वरेण च्छन्दयामास कश्यपं तं प्रजापतिम् ॥१००॥

कश्यपोऽपि शिवं प्राह विनीतवदिदं वचः ।
स प्राह विस्तरेणाथ इन्द्रस्य तु विचेष्टितम् ॥१०१॥

शापं नाशं च पुत्राणां परस्परममित्रताम् ।
पापप्राप्तिं तु शक्रस्य शापप्राप्तिं तथैव च ॥
ततो वृषाकपिः प्राह दितिं चागस्त्यमेव च ॥१०२॥

शिव उवाच
मरुतो ये भवत्पुत्राः पञ्चाशच्चैकवर्जिताः ।
सर्वे भवेयुः सुभगा भवेयुर्जज्ञभागिनः ॥१०३॥

इन्द्रेण सहिता नित्यं वर्तयेयुर्मुदाऽन्विताः ॥१०४॥

इन्द्रस्य तु हविर्भागो यत्र यत्र मखे भवेत् ।
आहौ तु मरुतस्तत्र भवेतुर्नात्र संशयः ॥१०५॥

मरुद्भिः सहितं शक्रं न जयेयुः कदाचन ।
जेता भवेत्सर्वदैव सुखं तिष्ठ प्रजापते ॥१०६॥

अद्यप्रभृति ये कुर्युरनयाद्भ्रातृघाततन् ।
वंशच्छेदो विपत्तिश्च नित्यं तेषां भविष्यति ॥१०७॥

ब्रह्मोवाच
अगस्त्यमृषिशार्दूलं शंभुरप्याह यत्नतः ॥१०८॥

शंभुरुवाच
न कुर्यास्त्वं च कोपं च शचीभर्तरि वै मुने ।
शमं व्रज महाप्राज्ञ मरुतस्त्वमरा भवन् ॥१०९॥

ब्रह्मोवाच
दितिं चापि शिवः प्राह प्रसन्नो वृषभध्वजः ॥११०॥

शिव उवाच
एको भूयान्मम सुतस्त्रैलोक्यैश्वर्यमण्डितः ।
इत्येवं चिन्तयन्ती त्वं तपसे नियताऽभवः ॥१११॥

तदेतत्सफलं तेऽद्य पुत्रा बहुगुणाः शुभाः ।
अभवन्बलिनः शूरास्तस्माज्जहि मनोरुजम् ॥
अन्यापि वरान्सुभ्रूर्याचस्व गतसंभ्रमा ॥११२॥

ब्रह्मोवाच
तदेतद्वचनं श्रुत्वा देवदेवस्य सा दितिः ।
कृताञ्जलिपुटा नत्वा शंभुं वाक्यमथाब्रवीत् ॥११३॥

दितिरुवाच
लोके यदेतत्परमं यत्पित्रोः पुत्रदर्शनम् ।
विशेषेण तन्मातुः प्रियं स्यात्सुरपूजित ॥११४॥

तत्रापि रूपसंपत्तिशौर्यविक्रमवान्भवेत् ।
एकोऽपि तनयः किंतु बहवश्चेत्किमुच्यते ॥११५॥

मत्पुत्रास्ते प्रभावाच्च जेतारो बलिनो ध्रुवम् ।
इन्द्रस्य भ्रातरः सत्यं पुत्राश्चैव प्रजापते ॥११६॥

अगस्त्यस्य प्रसादाच्च गङ्गायाश्च प्रसादतः ।
यत्र देव प्रसादस्ते तच्छुभं कोऽत्र संशयः ॥११७॥

कृतार्थाऽहं तथाऽपि त्वां भक्त्या विज्ञापयाम्यहम् ।
श्रृणुष्व देव वचनं कुरुष्व च जगद्धितम् ॥११८॥

ब्रह्मोवाच
वदेत्युक्ता जगद्धात्रा दितिर्नम्राऽब्रवीदिदम् ॥११९॥

दितिरुवाच
सन्ततिप्रापणं लोके दुर्लभं सुरवन्दित ।
विशेषेण प्रियं मातुः पुत्रश्चैक्तिं नु वर्ण्यते ॥१२०॥

स चापि गुणवाञ्श्रीमानायुष्मान्यदि जायते ।
किंतु स्वर्गेण देवेश पारमेष्ठ्यपदेन वा ॥१२१॥

सर्वेषामपि भूतानामिहामुत्र फलैषिणाम् ।
गुणवत्पुत्रसंप्राप्तिरभीष्टा सर्वदैव हि ।
तस्मादाप्लवनादत्र क्रियतां समनुग्रहः ॥१२२॥

शंकर उवाच
महापापफलं चेदं यदेतदनपत्यता ।
स्त्रिया वा पुरुषस्यापि वन्ध्यत्वं यदि जायते ॥१२३॥

तदत्र स्नानमात्रेण तद्दोषो नाशमाप्नुयात् ।
स्नात्वा तत्र फलं दद्यात्स्तोत्रमैतच्च यः पठेत् ॥१२४॥

स तु पुत्रमावाप्नोति त्रिमासस्नानदानतः ।
अपुत्रिणी त्वत्र स्नानं कृत्वा पुत्रमवाप्नुयात् ॥१२५॥

ऋतुस्नाता तु या काचित्तत्र स्नाता सुताँल्लभेत् ।
त्रिमासाभ्यन्तरं या तु गुर्विणी भक्तितस्त्विह ॥१२६॥

फलैः स्नात्वा तु मां पश्येत्स्तोत्रेण स्तौति मां तथा ।
तस्याः शक्रसमः पुत्रो जायते नात्र संशयः ॥१२७॥

पितृदोषैश्च ये पुत्रं न लभन्ते दिते श्रृणु ।
धनापहारदोषैश्च तत्रैषा निष्कृतिः परा ॥१२८॥

तत्रैषां पिण्डदानेन पितॄणां प्रीणनेन च ।
किंचित्सुवर्णदानेन ततः पुत्रो भवेद्ध्रुवम् ॥१२९॥

ये न्यासाद्यपहर्तारो रत्नापह्नवकारकाः ।
श्राद्धकर्मविहीनाश्च तेषां वंशो न वर्धते ॥१३०॥

दोषिणां तु परेतानां गतिरेषा भवेदिति ।
संततिर्जायतां श्लाघ्या जीवतां तीर्थसेवनात् ॥१३१॥

संगमे दितिगङ्गायाः स्नात्वा सिद्धेश्वरं प्रभुम् ।
अनाद्यपरामजरं चित्सदानन्दविग्रहम् ॥१३२॥

देवर्षिसिद्धगन्धर्वयोगीश्वरनिषेवितम् ।
लिङ्गात्मकं महादेवं ज्योतिर्मयमनामनयम् ॥१३३॥

पूजयित्वोपचारैश्च नित्यं भक्त्या यतव्रतः ।
स्तोत्रेणानेन यः स्तौति चतुर्दश्यष्टमीषु च ॥१३४॥

यथाशक्त्या(क्ति)स्वर्णदानं ब्राह्मणानां च भोजनम् ।
यः करोत्यत्र गङ्गायां स पुत्रशतमाप्नुयात् ॥१३५॥

संप्राप्य सकलान्कामानन्ते शिवपुरं व्रजेत् ।
स्तोत्रेमानेन यः कश्चिद्यत्र क्वापि स्तवीति माम् ॥
षण्मासात्पुत्रमाप्नोति अपि वन्ध्याऽप्यशङ्कितम् ॥१३६॥

ब्रह्मोवाच
ततः प्रभृति तत्तीर्थं पुत्रतीर्थमुदाहृतम् ।
तत्र तु स्नानदानाद्यैः सर्वकामानवाप्नुयात् ॥१३७॥

मरुद्भिः सह मैत्र्येण मित्रतीर्थं तदुच्यते ।
निष्पापत्वेन चेन्द्रस्य शक्रतीर्थं तदुच्यते ॥१३८॥

ऐन्द्रीं श्रियं यत्र लेभे तत्तीर्थं कमलाभिधम् ।
एतानि सर्वतीर्थानि सर्वाभीष्टप्रदानि हि ॥१३९॥

सर्वं भविष्यतीत्युक्त्वा शिवश्चान्तरधीयत ।
कृतकृत्याश्च ते जग्मुः सर्व एव यथागतम् ॥
तीर्थानां पुण्यदं तत्र लक्षमेकं प्रकीर्तितम् ॥१४०॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे तीर्थमाहात्म्ये पुत्रतीर्थादिलक्षतीर्थवर्णनं नाम चतुर्विंशाधिकशततमोऽध्यायः ॥१२४॥

गौतमीमाहात्म्ये पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:40.4600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

रोटगा

  • पु. कणकेचा भाकरीसारखा जाड व भाजलेला गोळा ; जाड भाकरी ; जाड , मोठी भाकर . [ हिं .; फा . रोटिलो ] रोटपाट - पु . ( खा . ) पोळपाट . रोंटक , रोंटका - पु . रोटी ; भाकरी . रोटा - पु . 
  • भाकरी ; जाड व मोठी पोळी . 
  • आंबलेला युरोपियनांचा पाव . [ हिं . ] 
  • अन्न ; पोटापाण्याची चिंता . रोटिगा - पु . रोड्गा ; रोटगा . कांदेभरित रोटिगे केले । - दावि २८ . रोटो - स्त्री . पोळी ; चपाती ; पाव ; कणकेची भाकर . [ दे . प्रा . रुट्टिया , रोट्टग ; हिं . रोट ] 
More meanings
RANDOM WORD

Did you know?

जेवण उष्टे सोडून अन्नाचा अपमान करणार्याला विविध शास्त्र, पुराणात काय शिक्षासांगितली आहे कृपाया संदर्भासह स्पष्ट करणे .
Category : Vedic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.