TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १३६

ब्रह्मपुराणम् - अध्यायः १३६

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १३६
विष्णुतीर्थवर्णनम्
ब्रह्मोवाच
विष्णुतीर्थमिति ख्यातं तत्र वृत्तमिदं श्रृणु ।
मौद्‌गल्य इति विख्यातो मुद्‌गलस्य सुतो ऋषिः ॥१॥

तस्य भार्या तु जाबाला नाम्ना ख्याता सुपुत्रिणी ।
पिता ऋषिस्तथा वृद्धो मुद्‌गलो लोकविश्रुतः ॥२॥

तस्य भार्या तथा ख्याता नाम्ना भागीरथी शुभा ।
स मौद्‌गल्यः प्रातरेव गङ्गां स्नाति यतव्रतः ॥३॥

नित्यमेव त्विदं कर्म तस्याऽऽसीन्मुनिसत्तम ।
गङ्गातीरे कुशैर्मृद्भिः शमीपुष्पैरहर्निशम् ॥४॥

गुरूदितेन मार्गेण स्वमानससरोरुहे ।
आवाहनं नित्यमेव विष्मोश्चक्रे स मौद्‌गलिः ॥५॥

तेनाऽऽहूतस्त्त्वरन्नेति लक्ष्मीभर्ता जगत्पतिः ।
वैनतेयमथाऽऽरूह्य शङ्खचक्रगदाधरः ॥६॥

पूजितस्तेन ऋषिणा स मौद्‌गल्येन यत्नतः ।
प्रब्रूते च कथाश्चित्रा मौद्‌गल्याय जगत्प्रभुः ॥७॥

ततोऽपराह्‌मसमये विष्णुः प्राह स मौद्‌गलिम् ।
याहि वत्स स्वभवनं श्रान्तोऽसीति पुनः पुनः ॥८॥

एवमुक्तः स देवेन विष्णुना याति स द्विजः ।
जगत्प्रभुस्ततो याति देवैर्युक्तः स्वमन्दिरम् ॥९॥

मौद्‌गल्योऽपि तथाऽभ्येत्य किंचिदादाय नित्यशः ।
स्वमेव भवनं विद्वान्भार्यायै स्वार्जितं धनम् ॥१०॥

ददाति स महाविष्णुचरणाब्जपरायणः ।
मौद्‌गल्यस्य प्रिया साऽपि पतिव्रतपरायणा ॥११॥

शाकं मूलं फलं वाऽपि भर्त्राऽऽनीतं तु यत्नतः ।
सुसंस्कृत्याप्यतिथीनां बालानां भर्तुरेव च ॥१२॥

दत्त्वा तु भोजनं तेभ्यः पश्चाद्‌भुङ्क्ते यतव्रता ।
भुक्तवत्स्वथ सर्वेषु रात्रौ नित्यं स मौद्‌गलिः ॥१३॥

विष्णोः श्रुताः कथाश्चित्रास्तेभ्यो वक्त्यथ हर्षितः ।
एवं बहुतिथे काले व्यतीते चातिविस्मिता ॥
मौद्‌गल्यस्य रहो भार्या भर्तारं वाक्यमब्रवीत् ॥१४॥

जाबालोवाच
यदि ते विष्णुरभ्येति समीपं त्रिदशार्चितं ।
तथाऽपि कष्टमस्माकं कस्मादिति जगत्प्रभुम् ॥१५॥

तत्पृच्छ त्वं महाप्राज्ञ यदाऽसौ विष्णुरेति च ।
यस्मिश्च स्मृतमात्रे तु जराजन्मरूजो मृतिः ॥
नाशं यान्ति कुतो दृष्टे तस्मात्पृच्छ जगत्पतिम् ॥१६॥

ब्रह्मोवाच
तथेत्युक्त्वा प्रियावाक्यान्मौद्‌गल्यो नित्यवद्धरिम् ।
पूजयित्वा विनीतश्च पप्रच्छ स कृताञ्जलिः ॥१७॥

मौद्‌गल्य उवाच
त्वयि स्मृते जगन्नाथ शोकदारिद्र्‌यदुष्कृतम् ।
नाशं याति विपत्तिर्मे त्वयि दृष्टे कथं स्थिता ॥१८॥

श्रीविष्णुरुवाच
स्वकृतं भुज्यते भूतैः सर्वैः सर्वत्र सर्वदा ।
न कोऽथि कस्याचित्किंचित्करोत्यत्र हिताहिते ॥१९॥

यादृशं चोप्यते बीजं फलं भवति तादृशम् ।
रसालः स्यान्न निम्बस्य बीजाज्जात्वपि कुत्रचित् ॥२०॥

न कृता गौतमीसेवा नार्चितौ हरिशंकरौ ।
न दत्तं यैश्च विप्रेभ्यस्ते कथं भाजनं श्रियः ॥२१॥

त्वया न दत्तं किंचिच्च ब्राह्मणेभ्यो ममापि च ।
यद्दीयते तदेवेह परस्मिंश्चोपतिष्ठति ॥२२॥

मृद्भिर्वार्भिः कुशैर्मन्त्रैः शुचिकर्म सदैव यत् ।
करोति तस्मात्पूतात्मा शरीरस्य च शोषणात् ॥२३॥

विना दानेन न क्वापि भोगावाप्तिर्नृणां भवेत् ।
सत्कर्माचरणाच्छुद्धो विरक्तः स्यात्ततो नरः ॥२४॥

ततोऽप्रतिहतज्ञानो जीवन्मुक्तस्ततो भवेत् ।
सर्वेषां सुलभा मुक्तिर्मद्भक्त्या चेह पूर्ततः ॥२५॥

भुक्तिर्दानादिना सर्वभूतदुःखनिबर्हणात् ।
अथवा लप्स्यसे मुक्तिं भक्त्या भुक्तिं न लप्स्यसे ॥२६॥

मौद्‌गल्य उवाच
भक्त्या मुक्तिः कथं भूयाद्‌भुक्तेर्मुक्तिः सुदुर्लभा ।
जाता चेद्देहिनां मुक्तिः किमन्येन प्रयोजनम् ॥२७॥

भक्त्या मुक्तिः सर्वपूज्या तामिच्छेयं जगन्मय ॥२८॥

विष्णुरुवाच
एतदेवान्तरं ब्रह्मन्दीयते मामनुस्मरन् ।
ब्राह्मणायाथवाऽर्थिभ्यस्तदेवाक्षयतां व्रजेत् ॥२९॥

मामध्यात्वाऽथ यद्दद्यात्तत्तन्मात्रफलप्रदम् ।
तत्पुनर्दत्तमेवेह न भोगायात्र कल्पते ॥३०॥

तस्माद्दही महाबुद्धे भोज्यं किंचिन्मम ध्रुवम् ।
अथवा विप्रमुख्याय गौतमीतीरमाश्रितः ॥३१॥

ब्रह्मोवाच
मौद्‌गल्यः प्राह तं विष्णुं देयं मम न विद्यते ।
नान्यत्किंचन देहादि यत्तत्त्वयि समर्पितम् ॥३२॥

ततो विष्णुर्गरुत्मन्तं प्राह शीघ्रं जगत्पतिः ।
इहाऽऽनयस्व कणिशं ममायं चार्पयिष्यति ॥३३॥

ततो योग्यानयं भोगान्प्राप्स्यते मनसः प्रियान् ।
आकर्ण्य स्वामिनाऽऽदिष्टं तथा चक्रे स पक्षिराट् ॥३४॥

विष्णुहस्ते कणान्प्रादात्स मौद्‌गल्यो यतव्रतः ।
एतस्मिन्नन्तरे विष्णुर्विश्वकर्माण्मब्रवीत् ॥३५॥

यावच्चास्य कुले सप्त पुरुषास्तावदेव तु ।
भवितारो महाबुद्धे तावत्कामा मनीषिताः ॥
गावो हिरण्यं धान्यानि वस्त्राण्याभरणानि च ॥३६॥

ब्रह्मोवाच
यच्च किंचिन्मनःप्रीत्यै लोके भवति भूषणम् ।
तत्सर्वमाप मौद्‌गल्यो विष्णुगङ्गाप्रभावतः ॥३७॥

गृहं गच्छेति मौद्‌गल्यो विष्णुनोक्तस्ततो ययौ ।
आश्रमे स्वस्य सर्वर्धिं दृष्ट्वा ऋषिरभाषत ॥३८॥

ऋषिरुवाच
अहो दानप्रभावोऽयमहो विष्णोरनुस्मृतिः ।
अहो गङ्गाप्रभावश्च कौर्विचार्यो महानयम् ॥३९॥

ब्रह्मोवाच
मौद्‌गल्यो भार्यया सार्धं पुत्रैः पौत्रैश्च बन्धुभिः ।
पितृभ्यां बुभुजे भोगान्भुक्तिं मुक्तिमवाप च ॥४०॥

ततः प्रभृति तत्तीर्थं मौद्‌गल्यं वैष्णवं तथा ।
तत्र स्नानं च दानं च भुक्तिमुक्तिफलप्रदम् ॥४१॥

तत्र श्रुतिः स्मृतिर्वाऽपि तीर्थस्य स्यात्कथंचन ।
तस्य विष्णुर्भवेत्प्रीतः पापैर्मुक्तः सुखी भवेत् ॥४२॥

एकादश सहस्राणि तीर्थानां तीरयोर्द्वयोः ।
सर्वार्थदायिनां तत्र स्नानदानजपादिभिः ॥४३॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये मौद्‌गल्यविष्णुतीर्थाद्येकादशसहस्रतीर्थवर्णनं नाम षट्‌त्रिंशदधिकशततमोऽध्यायः ॥१३६॥

गौतमीमाहात्म्ये सप्तषष्टितमोऽध्यायः ॥६७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:41.0830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

किंतोक

  • क्रि.वि. ( व .) मनांत किंतू आणून ; संताप करून . 
RANDOM WORD

Did you know?

मकर संक्रांति हिंदू सण असूनही १४ जानेवारीला का साजरा करतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.