TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १२७

ब्रह्मपुराणम् - अध्यायः १२७

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १२७
देवतीर्थवर्णनम्
ब्रह्मोवाच
देवतीर्थमिति ख्यातं गङ्गाया उत्तरे तटे ।
तस्य प्रभावं वक्ष्यामि सर्वपापप्रणाशनम् ॥१॥

आर्ष्टिषेम इति ख्यातो राजा सर्वगुणान्वितः ।
तस्य भार्या जया नाम साक्षाल्लक्ष्मीरिवापरा ॥२॥

तस्य पुत्रो भरो नाम मतिमान्पितृवत्सलः ।
धनुर्वेदं च वेदे च निष्णातो दक्ष एव च ॥३॥

तस्य भार्या रूपवती सुप्रभेत्यभिश्रुता ।
आर्ष्टिषेणस्ततो राजा पुत्रे राज्यं निवेश्य सः ॥४॥

पुरोधसा च मुख्येन दीक्षीं चक्रे नरेश्वरः ।
सरस्वत्यास्ततस्तीरे ह्यमेधाय यत्नवान् ॥५॥

ऋत्विग्भिर्ऋषुमुख्यैश्च वेदशास्त्रपरायणैः ।
दीक्षितं तं नृपश्रेष्ठं ब्राह्मणाग्निसमीपतः ॥६॥

मिथुर्दानवराट्शूरः पापबुद्धिः प्रतापवान् ।
मखं विध्वस्य नृपतिं सभार्यं सपुरोहितम् ॥७॥

आदाय वेगात्स प्रागाद्रसातलतलं मुने ।
नीते तस्मिन्नृपवरे यज्ञे नष्टे ततोऽमराः ॥८॥

ऋत्विजश्च ययुः सर्वे स्वं स्वं स्थानं मखात्ततः ।
पुरोहितसुतो राज्ञो देवापिरिति विश्रुतः ॥९॥

बालस्तां मातरं दृष्ट्वा आत्मनः पितरं न च ।
दृष्ट्वा सविस्मयो भूत्वा दुःखितोऽतीव चाभवत् ॥१०॥

स मातरं तु पप्रच्छ पिता मे क्व गतोऽम्बिके ।
पितृहीनो न जीवेयं मातः सत्यं वदस्व मे ॥११॥

धिग्धिक्पितृविहीनानां जीवितं पापकर्मणाम् ।
न वक्षि यदि मे मातर्जलमग्निमथाऽऽविशे ॥१२॥

पुत्रं प्रोवाच सा माता राज्ञो भार्या पुरोधसः ।
दानवेन तलं नीतो राज्ञा सह पिता तव ॥१३॥

देवापिरुवाच
क्व नीतः केन वा नीतः कथं नीतः क्व कर्मणिः ।
केषु पश्यत्सु किं स्थानं दानवस्य वदस्व मे ॥१४॥

मातोवाच
दीक्षीतिं यज्ञसदसि सभार्यं सपुरोधसम् ।
राजानं तं मिथुर्दैत्यो नीतवान्स रसातलम् ॥
पश्यत्सु देवसंघेषु वहिनब्राह्मणसंनिधौ ॥१५॥

ब्रह्मोवाच
तन्मातृवचनं श्रुत्वा देवापिः कृत्यमस्मरत् ।
देवान्पश्येऽथवाऽग्निं वा ऋत्विजो वाऽसुरांस्तथा ॥१६॥

एतेष्वेव पिताऽन्वेष्यो नान्यत्रेति मतिर्मम ।
इति निश्चित्य देवापिर्भरं प्राह नृपात्मजम् ॥१७॥

देवापिरुवाच
तपसा ब्रह्मचर्येण व्रतेन नियमेन च ।
आनेतव्या मया सर्वे नीता ये च रसातलम् ॥१८॥

जाते पराभवे घोरे यो न कुर्यात्प्रतिक्रियाम् ।
नराधमेन किं तेन जीवता वा मृतेन वा ॥१९॥

त्वं प्रशाधि महीं कृत्स्नामार्ष्टिषेणः पिता यथा ।
माता मम त्वया पाल्या राजन्यावन्ममाऽऽगतिः ॥
भवेच्च कृतकार्यस्य अनुजानीहि मां भर ॥२०॥

ब्रह्मोवचा
भरेणोक्तः स देवापिः सर्वं निश्चित्य यत्नतः ॥२१॥

भर उवाच
सिद्धिं कुरु सुखं याहि मा चिन्तामल्पिकां भज  ॥२२॥

ब्रह्मोवाच
ततो देवापिरमरराजाङ्घ्रिध्यानतत्परः ।
ऋत्विजोऽन्वेष्य यत्नेन नत्वा तानृत्विजः पृथक् ॥
कृताञ्जलिपुटो बालो देवापिर्वाक्यमब्रवीत् ॥२३॥

देवापिरुवाच
भवद्‌भिश्च मखो रक्ष्यो यजमानश्च दीक्षितः ।
पुरोधाश्च तथा रक्ष्यः पत्नी या दीक्षितस्य तु ॥२४॥

भवत्सु तत्र पश्यत्सु यज्ञं विध्वस्य दैत्यराट्(ऋत्विजः) ।
राजादयस्तेन नीतास्तन्न युक्ततमं भवेत् ॥२५॥

अथाप्येतदहं मन्ये भवन्तस्तानरोगिणः ।
दातुमर्हन्ति तान्स(वै स)र्वानन्यथा शापमर्हथ ॥२६॥

ऋत्विज ऊचुः
मखेऽग्नि प्रथमं पूज्यो ह्यग्निरेवात्र दैवतम् ।
तस्माद्वयं न जानीमो ह्यग्नीनां परिचारकाः ॥२७॥

स एव दाता भोक्ता च हर्ता कर्ता च हव्यवाट् ॥२८॥

ब्रह्मोवाच
ऋत्विजः पृष्ठतः कृत्वा देवापिर्जातवेदसम् ।
पूजयित्वा यथान्यायमग्नये तन्न्यवेदयत् ॥२९॥

अग्निरुवाच
यर्थात्वजस्तथा चाहं देवानां परिचारकः ।
हव्यं वहामि देवानां भोक्तारो रक्षकाश्च ते ॥३०॥

देवापिरुवाच
देवानाहूय यत्नेन हविर्भागान्पृथक्पृथक् ।
दास्येऽहमेष दोषो मे तस्माद्याहि सुरान्प्रति ॥३१॥

ब्रह्मोवाच
देवापिः स सुरान्प्राप्य नत्वा तेभ्यः पृथक्पृथक् ।
ऋत्विग्वाक्यं चाग्निवाक्यं शापं चापि न्यवेदयत् ॥३२॥

देवा ऊचुः
आहूता वैदिकैर्मन्त्रैर्ऋत्विग्भिश्च यथाक्रमम् ।
भोक्ष्यामहे हविर्भागान्न स्वतन्त्रा द्विजोत्तम ॥३३॥

तस्माद्वेदानुगा नित्यं वयं वेदेन चोदिताः ।
परतन्त्रास्ततो विप्र वेदेभ्यस्तन्निवेदय ॥३४॥

ब्रह्मोवाच
स देवापिः शुचिर्भूत्वा वेदानाहूय यत्नतः ।
ध्यानेन तपसा युक्तो वेदाश्चापि पुरोऽभवत् ॥३५॥

वेदानुवाच देवापिर्नमस्य तु पुनः पुनः ।
ऋत्विग्वाक्यं चाग्निवाक्यं देववाक्यं न्यवेदयत् ॥३६॥

वेदा ऊचुः
परतन्त्रा वयं तात ईश्वरस्य वशानुगाः ।
अशेषजगदाधारो निराधारो निरञ्जनः ॥३७॥

सर्वशक्त्यैकसदनं निधानं सर्वसंपदाम् ।
स तु कर्ता महादेवः संहर्ता स महेश्वरः ॥३८॥

वयं शब्दमया ब्रह्मन्वदामो विद्म एव च ।
अस्माकमेतत्कृत्यं स्याद्वदामो यत्तु पृच्छसि ॥३९॥

केन नीतास्तस्य नाम तत्पुरं तद्‌बलं तथा ।
भक्षिताः किंतु नो नष्टा एतज्जानीमहे वयम् ॥४०॥

यथा च तव सामर्थ्यं यमाराध्य च यत्र च ।
स्यादित्येतच्च जानीमो यथा प्राप्स्यसि तान्पुरः ॥४१॥

ब्रह्मोवाच
एतच्छ्रुत्वाऽवदद्वेदान्विचार्य सुचिरं हृहि ॥४२॥

देवापिरुवाच
वेदा वदन्त्वेतदेव सर्वमेव यथार्थतः ।
सर्वान्प्राप्स्ये तलं नीतानलं तेभ्यो नमोऽस्तु वः ॥४३॥

वेदा ऊचुः
गौतमीं गच्छ देवापे तत्र स्तुहि महेश्वरम् ।
सुप्रसन्नस्तवाभीष्टं दास्यत्येव कृपाकरः ॥४४॥

भवेद्देवः शिवः प्रीतः स्तुतः सत्यं महामते ।
आर्ष्टिषेणश्च नृपतिस्तस्य जाया जया सती ॥४५॥

पिता तवाप्युपमन्युस्तले तिष्ठन्त्यरोगिणः ।
वरदानान्महेशस्य मिथुं हत्वा च राक्षसम् ॥
यशः प्राप्स्यसि धर्मं एतच्छक्यं न चेतरम् ॥४६॥

ब्रह्मोवाच
तद्वेदवचनाद्‌बालो देवापिर्गौ तमीं गतः ।
स्नात्वा कृतक्षणो विप्रस्तुष्टाव च महेश्वरम् ॥४७॥

देवापिरुवाच
बालोऽहं देवदेवेश गुरूणां त्वं गुरुर्मम ।
न मे शक्तिस्त्वत्स्तवने तुभ्यं शंभो नमोऽस्तु ते ॥४८॥

न त्वां जानन्ति निगमा न देवा मुनयो न च ।
न ब्रह्मा नापि वैकुण्ठो योऽसि नमोऽस्तु ते ॥४९॥

येऽनाथा ये च कृपणा ये दरिद्राश्च रोगिणः ।
पापात्मानो ये च लोके तांस्त्वं पासि महेश्वर ॥५०॥

तपसा नियमैर्मन्त्रैः पूजितास्त्रिदिवौकसः ।
त्वया दत्तं फलं तेभ्यो दास्यन्ति जगतां पते ॥५१॥

याचितारश्च दातारस्तेभ्यो यद्यन्मनीषतिम् ।
भवतीति न चित्रं स्यात्त्वं विपर्यकारकः ॥५२॥

येऽज्ञानिनो ये च पापा ये मग्ना नरकार्णवे ।
शिवेति वचनान्नाथ तान्पासि त्वं जगद्‌गुरो ॥५३॥

ब्रह्मोवाच
एवं तु स्तुवतस्तस्य पुरः प्राह त्रिलोचनः ॥५४॥

शिव उवाच
वरं ब्रहूह्यथ देवापे अलं दैन्येन बालक ॥५५॥

देवापिरुवाच
राजानं राजपत्नीं च पितरं च गुरुं मम ।
प्राप्तुमिच्छे जगन्नाथ निधनं च रिपोर्मम ॥५६॥

ब्रह्मोवाच
देवापिवचनं श्रुत्वा तथेत्याहाखिलेश्वरः ।
देवापेः सर्वमभवदाज्ञया शंकरस्य तत् ॥५७॥

पुनरप्याह तं(आहूय स्वगणं)शंभुर्देवापिकरुणाकरः ।
नन्दिनं प्रेषयामास शंभुः(ततः)शूलेन नारद ॥५८॥

रसातले मिथुं नन्दी हत्वा चासुरपुंगवान् ।
तत्पित्रादीन्समानीय तस्मै तान्स न्यवेदयत् ॥५९॥

हयमेधश्च तत्राऽऽसीदार्ष्टिषेणस्य धीमतः ।
अग्निश्च ऋत्विजो देवा वेदाश्च ऋषयोऽब्रुवन् ॥६०॥

अग्न्यादय ऊचुः
यत्र साक्षादभूच्छंभुर्देवापे भक्तवत्सलः ।
देवदेवो जगन्नाथो देवतीर्थमभूच्च तत् ॥६१॥

सर्वपापक्षयकरं सर्वसिद्धिप्रदं नृणाम् ।
पुण्यदं तीर्थमेतत्स्यात्तव कीर्तिश्च शाश्वती ॥६२॥

ब्रह्मोवाच
अश्वमेधे निवृत्ते तु सुरास्तेभ्यो वरान्ददुः ।
स्नात्वा कृतार्था गङ्गायं ततस्ते दिवमाक्रमन् ॥६३॥

ततः प्रभृति तत्राऽऽसंस्तीर्थानि दशा पञ्च च ।
सहस्त्राणि शतन्यष्टावुभयोरपि तीरयोः ॥
तेषु स्नानं च दानं च ह्यतीव फलदं विदुः ॥६४॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये आर्ष्टिषेणाद्यष्टोत्तरशताधिकपञ्चदशासहस्रतीर्थवर्णनं नाम सप्तविंशाधिकशततमोऽध्यायः ॥१२७॥

गौतमीमाहात्म्येऽष्टपञ्चाशत्तमोऽध्यायः ॥५८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:40.6130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अटरणे

  • क्रि. आक्रसणे , आखडणे , संकोच पावणे ; 
  • क्रि. फुगणे , रूसून बसणे ; 
  • क्रि. अंग काढून घेणे , आखडून बसणे , ताठणे , ताठरणे . 
RANDOM WORD

Did you know?

महावाक्य पंचीकरण हे पुस्तक कुठे मिळेल ?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.