संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २७

ब्रह्मपुराणम् - अध्यायः २७

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


तत्रादौ भारतवर्षवर्णनम्
ब्रह्मोवाच
श्रृणुध्वं मुनयः सर्व्वे यद्वो वक्ष्यामि साम्प्रतम् ।
पुराणं वेदसम्बद्धं भुक्तितमुक्तिप्रदं शुभम् ॥१॥

पृथिव्यां भारतं वर्ष कर्म्मभूमिरुदाहृता ।
कर्म्मणः फलभूमिश्च स्वर्गञ्च नरकं तथा ॥२॥

तस्मिन् वर्षे नरः पापं कृत्वा धर्म्मञ्च भो द्विजाः ।
अवश्यं फलमाप्नोति अशुभस्य शुभस्य च ॥३॥

ब्राह्मणाद्याः स्वकं कर्म्म कृत्वा सम्यक्‌सुसंयताः ।
प्राप्नुवन्ति परां सिद्धिं तस्मिन्‌वर्षे न संशयः ॥४॥

धर्म्मञ्चार्थञ्च काम्ञ्च मोक्षञ्टच द्विजसत्तमाः ।
प्राप्नोति पुरुषः सर्व्वं तस्मिन् वर्षे सुसंयतः ॥५॥

इन्द्राद्याश्च सुराः सर्व्वे तस्मिन् वर्षे द्विजोत्तमाः ।
कृत्वा सुशोभनं कर्म्म देवत्वं प्रतिपेदिरे ॥६॥

अन्येऽपि लेभिरे मोक्षं पुरुषाः संयतेन्द्रियाः ।
तस्मिन् वर्षे बुधाः शान्ता वीतरागा विमत्सराः ॥७॥

ये चापि स्वर्गे तिष्ठन्ति विमानेन गतज्वराः ।
तेऽपि कृत्वा शुभं कर्म्म तस्मिन् वर्षे दिवं गताः ॥८॥

निवासं भारते वर्षे आकाङक्षन्ति सदा सुराः ।
स्वर्गपवर्गफलदे तत्पश्यामः कदा वयम् ॥९॥

मुनय ऊचुः
यदेतद्‌भवता प्रोक्तं कर्म्म नान्यत्र पुण्यदम् ।
पापाय वा सुरश्रेष्ठ वर्ज्जयित्वा च भारतम् ॥१०॥

ततः स्वर्गश्च मोक्षश्च मध्यमं तच्च गम्यते ।
न खल्वन्यत्र मर्त्त्यानां भूमौ कर्म्म विधीयते ॥११॥

तस्माद्विस्तरतो ब्रह्मन्नस्माकं भारतं वद ।
यदि तेऽस्ति दयास्मासु यथावस्थितिरेव च ॥१२॥

तस्माद्वर्षमिदं नाथ ये वास्मिन् वर्षपर्व्वताः ।
भेदाश्च तस्य वर्षस्य ब्रूहि सर्व्वानशेषतः ॥१३॥

श्रृणुध्वं भारतं वर्ष नवभेदेन भो द्विजाः ।
समुद्रान्तरिता ज्ञेयास्ते समाश्च परस्परम्‌ ॥१४॥

इन्द्रद्वीपः कशेएरुस्च ताम्रपर्णों सागरसंवृतः ।
नागद्वीपस्तथा सौम्यो गान्धर्व्वो वारुणस्तथा ॥१५॥

अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः ।
योजनानां सहस्रं वै द्वीपोऽयं दक्षिणोत्तरः ॥१६॥

पूर्व्वे किराता यस्यासन् पश्चिमे यवनास्तथा ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ते स्थिता द्विजाः ॥१७॥

इज्यायुद्धवणिज्याद्यैः कर्म्मभिः कृतपावनाः ।
तेषां संव्यवहारश्च एभिः कर्म्मभिरिष्‌यते ॥१८॥

स्वर्गापवर्गहेतुश्च पुण्यं पापञ्च वै तथा ।
महेन्द्रो मलयः सह्यः शुवितमानृक्षपर्व्वतः ॥१९॥

विन्ध्यश्च पारियात्रस्च सप्तैवात्र कुलाचलाः ।
तेषां सहस्रशश्चान्ये भूधरा ये समोपगाः ॥२०॥

विस्तारोच्छ्रयिणो र्या विपुलाश्चित्रसानवः ।
कोलाहलः स वैश्राजो मन्दरो दद्‌र्दुराचलः ॥२१॥

बालन्धयो वैद्युतश्च मैनाकः सुरसस्तथा ।
तुङ्गप्रस्थो नागगिरिर्गोधनः पाण्डराचलः ॥२२॥

पुष्पगिरिर्वैजयन्तो रैवतोऽर्ब्बुद एव च ।
ऋष्यमूकः स गोमन्थः कुतशैलः कृताचलः ॥२३॥

श्रीपार्व्वतस्चकोरश्च शतशोऽन्ये च पर्व्वताः ।
तैर्विमिश्रा जनपदा म्लेच्छाद्याश्चैव भागशः ॥२४॥

तैः पीयन्ते सरिच्छ्रेष्ठास्ता बुध्यध्वं द्विजोत्तमाः ।
गङ्गा सरस्वती सिन्धुश्चन्द्रभागा तथापरा ॥२५॥

यमुना शतद्रुर्विपाशा वितस्तैरावती कूहुः ।
गोमती धूतपापा च बाहुदा च दृषद्वती ॥२६॥

विपाशा देविका चक्षुर्निष्ठीवा गण्डकी तथा ।
कौशिकी चापगा चैव हिमवत्पादनिःसृताः ॥२७॥

देवस्मृतिर्देववती वातघ्नी सिन्धुरेव च ।
वेण्या तु चन्दना चैव सदानीरा मही तथा ॥२८॥

चर्म्मण्वती वृषी वैव विदिशा वेदवत्यपि ।
सिप्रा हवन्ती च तथा पारियात्रानुगाः स्मृताः ॥२९॥

शोणा महानदी चैव नर्म्मदा सुरथा क्रिया ।
मन्दाकिनी दशार्णा च चित्रकूटा तथापरा ॥३०॥

चित्रोत्पला वेत्रवती करमोदा पिशाचिका ।
तथान्यातिलघुश्रोणी विपाप्मा शैवला नदी ॥३१॥

सधेरुजा शक्तिमती शकुनी त्रदिवा क्तमुः ।
ऋक्षपादप्रसूता वै तथान्या वेगवाहिनी ॥३२॥

सिप्रा पयोष्णी निर्व्विन्ध्या तापी चैव सरिद्वरा ।
वैणा वैतरणी चैव सिनीवाली कुमुर्द्वतीः ॥३३॥

तोया चैव महागौरी दुर्गा चान्तःशिला तथा ।
विन्ध्यपादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः ॥३४॥

गोदावरी भीमरथी कृष्णवेणा तथापगा ।
तुङ्गभद्रा सुप्रयोगा तथान्या पापनाशिनी ॥३५॥

सह्यपादविनिष्क्रान्ता इत्येताः सरितां वराः ।
कृतमाला ताम्रपर्णो पुष्यजा प्रत्यलावति ॥३६॥

मलयाद्रिसमुद्‌भूताः पूण्याः शीतजलास्त्विमाः ।
पितृसोमर्षिकुल्या च व़ञ्जुला त्रिदिवा च या ॥३७॥

लाङ्गलिनो वंशकरा महेन्द्रप्रभवाः स्मृताः ।
सुविकाला कुमारी च मनूगा मन्दगामिनो ॥३८॥

क्षयापलासिनी चैव शुक्तिमत्प्रभवाः स्मृता ।
सर्व्वाः पुण्याः सरस्वत्यः सर्व्वा गङ्गाः समुद्रगाः ॥३९॥

विश्वस्य मातरः सर्व्वाः सर्व्वाः पापहराः स्मृताः ।
अन्याः सहस्रशः प्रोक्ताः क्षुद्रनद्यो द्विजोत्तमाः ॥४०॥

प्रवृट्‌कालवहाः सन्ति सदाकालवहाश्च याः ।
मत्स्या मुकुटकुल्याश्च कुन्तलाः काशिकोशलाः ॥४१॥

अन्ध्रकाश्च कलिङ्गाश्च शमकाश्च वृकैः सह ।
मध्यदेशा जनपदाः प्रायशोऽमी प्रकीर्त्तिताः ॥४२॥

सह्यस्य चोत्तरे यस्तु त्र गोदावरी नदी ।
पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥४३॥

गोवर्द्धनपुरं रम्यं भार्गवस्य महात्मनः ।
वाहीका वाटधानाश्च सुतीराः कोलतोयदाः ॥४४॥

अपरान्ताश्च शूद्रश्च वाह्लिकाश्च सकेरलाः ।
गानधारा यवनाश्चैव सिन्धुसौवोरमद्रकाः ॥४५॥

शतद्रुहाः कलिङ्गाश्च पारदा हारभूषिकाः ।
माठराश्चैव कनकाः कैकेया दम्भमालिकाः ॥४६॥

क्षत्रियोपमदेश्च वैस्यशूद्रकुलानि च ।
काम्बोजाश्चैव विप्रेन्द्रा बर्व्बराश्च सलौकिकाः ॥४७॥

वीराश्चैव तुषाराश्च पह्लवाधायता नराः ।
आत्रेयाश्च भरद्वाजाः पुष्कलाश्च दशेरकाः ॥४८॥

लम्पकाः शुनःशोकाश्च कुलिका जाङ्गलैः सह ।
औषध्यश्चन्द्रा च किरातानाञ्व दशेरकाः ॥४९॥

तोमरा हंसमार्गाश्च काश्मीराः करुणास्तथा ।
शूलिकाः कुहकाश्चैव मागधाश्च तथैव च ॥५०॥

एते देशा उदीच्यास्तु प्राच्यान् देशान्निबोधत ।
अन्धा वामङकुराकाश्च वल्लकाश्च मखान्तकाः ॥५१॥

तथापरेऽङ्गा वङ्गाश्च मलदा मालवर्त्तिकाः ।
भद्रतुङ्गाः प्रतिजया भार्य्याङ्गाश्चापमद्‌र्दकाः ॥५२॥

प्राग्ज्योतिषाश्च मद्राश्च विदेहास्ताम्रलिप्तकाः ।
मल्ला मगधका नन्दाः प्राच्या जनपदास्तथा ॥५३॥

तथापरे जनपदा दक्षिणापथवासिनः ।
पूर्णाश्च केवलाश्चैव गोलाङगूलास्तथैव च ॥५४॥

ऋषिका मुषि काश्चैव कुमारा रामठाः शकाः ।
महाराष्ट्रा माहिषका कलिङ्गाश्चैव सर्व्वशः ॥५५॥

आभीराः सह वैशिक्या अटव्याः रवाश्च ये ।
पुलिन्दाश्चैव मौलेया वैदर्भा दण्डकैः सह ॥५६॥

पौलिका मौलिकाश्चैव अश्मका भोजवर्द्धनाः ।
कौलिकाः कुन्तलाश्चैव दम्भका नीलकालकाः ॥५७॥

दिक्षिणात्यास्त्वमी देशा अपरान्तान्निबोधत ।
शूपरिकाः कालिधना लोलास्तालकटैः सह ॥५८॥

इत्येते ह्यपरान्ताश्चज श्रृणुध्वं विन्ध्यवासिनः ।
मलजाः कर्कशाश्चैव मेलकाश्चोलकैः सह ॥५९॥

उत्तमार्णा दशार्णाश्च भोजाःच किष्किन्ध्यकैः सह ।
तोषलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा ॥६०॥

तुम्बुरास्तु चराश्चैव यवनाः पवनैः सह ।
अभया रुणिडिकेराश्च चर्च्चरा होत्रधर्त्तयः ॥६१॥

एते जनपदाः सर्व्वे तत्र विन्ध्यनिवासिनः ।
अतो देशान् प्रवक्ष्यामि पर्व्वताश्रयिणश्च ये ॥६२॥

नीहारास्तुषमार्गाश्च कुरवस्तङ्गणाः खसाः ।
कर्णप्रावरणाश्चैव ऊर्णा दर्घाः सकुन्तकाः ॥६३॥

चित्रमार्गा मालवाश्च किरातास्तोमरैः सह ।
कृतत्रेतादिकश्चात्र चतुर्युगकृतो विधिः ॥६४॥

एवं तु भारतं वर्ष नवसंस्थानसंस्थितम् ।
दक्षिणे परतो यस्य पूर्व्वे चैव सहोदधिः ॥६५॥

हिमवानुत्तरेणास्य कार्मुकस्य यथा गुणः ।
तदेतद्‌भारतं वर्षं सर्व्ववीजं द्विजोत्तमाः ॥६६॥

ब्रह्मत्वममरेशत्वं देवत्वं मरुतां तथा ।
मृगयक्षाप्सरोयोनिं तद्वत् सर्पसरीसृपाः ॥६७॥

स्थावराणाञ्च सर्व्वेषामितो विप्राः शुभाशुभैः ।
प्रयान्ति कर्म्मभूर्विप्रा नान्या लोकेषु वुद्यते ॥६८॥

देवानामपि भो विप्राः सदैवैष मनोरथः ।
अपि मानुष्यमाप्स्यामो देवत्वात् प्रत्युताः क्षितौ ॥६९॥

मनुष्यः कुर्ते यत्तु तन्न शक्यं सुरासुरैः ।
तत्‌कर्म्मनिगडुग्रस्तैस्तत्‌कर्म्मक्षपणोन्मुखैः ॥७०॥

न भारतसमं वर्षं पृथिव्यामस्ति भो द्विजाः ।
यत्र विप्रादयो वर्णाः प्राप्नुवन्त्यभिवाञ्छितम् ॥७१॥

धन्यास्ते भारते वर्षे जायन्ते ये नरोत्तमाः ।
धर्म्मार्थकाममोक्षाणां प्राप्नुवन्ति महाफलम् ॥७२॥

प्राप्यते यत्र तपसः फलं परमदुर्लभम् ।
सर्व्वदानफलञ्चैव सर्व्वयज्ञफलं तथा ॥७३॥

तीर्थयात्राफल़ञचैव गुरुसेवाफलं तथा ।
देवताराधनफलं स्वाध्यायस्य फलं द्विजाः ॥७४॥

यत्र देवाः सदा हृष्टाः जन्म वाञ्छन्ति शोभनम् ।
नानाव्रतफलञ्चैव नानाशास्त्रफलं तथा ॥७५॥

अहिंसादिफलं सम्यक्‌फलं सर्व्वाभिवाञ्छितम् ।
ब्रह्मचर्य्यफलंञ्चैव गार्हस्थ्येन च यत्‌फलम् ॥७६॥

यत् फलं वनवासेन सन्न्यासेन च यत्‌फलम् ।
हष्टापूर्त्तफलञ्चैव तथान्यच्छुभकर्म्मणाम् ॥७७॥

प्राप्यते भारते वर्षे न चान्यत्र द्विजोत्तमाः ।
कः शक्तनोति गुणान् वक्तुं भारतस्याखिलान्द्विजाः ॥७८॥

एवं सम्यङमया प्रोक्तं भारतं वर्षमुत्तमम् ।
सर्व्वपापहरं पुण्यं धन्यं बुद्धिविवर्द्धनम् ॥७९॥

य इदं श्रृणुयान्नित्यं पठेद्वा नियतेन्द्रियः ।
सर्व्वपापैनिर्मुक्तो विष्णुलोकं स गच्छति ॥८०॥

इति श्रीब्राह्मे महापुराणे भारतवर्षानुकीर्त्तनं नाम सप्तविंशोऽध्यायः॥ २७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP