TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २१२

ब्रह्मपुराणम् - अध्यायः २१२

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २१२
रुक्मिण्यादीनां परलोकगमनम् ।
व्यास उवाच
अर्जुनोऽपि तदाऽन्विष्य कृष्णरामकलेवरे ।
संस्कारं लम्भयामास तथाऽन्येषामनुक्रमात् ॥१॥

अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास्तु या ।
उपगृह्य हरेर्देहं विविशुस्ता हुताशनम् ॥२॥

रेवती चैव रामस्य देहमाश्लिष्य सत्तमाः ।
विवेश ज्वलितं वह्निं ततस्ङ्गाह्लादशीतलम् ॥३॥

उग्रसेनस्तु तच्छ्रुत्वा तथैवाऽऽनकदुन्दुभिः ।
देवकी रोहिणी चैव विविशुर्जातवेदसम् ॥४॥

ततोऽर्जुनः प्रेतकार्यं कृत्वा तेषां यथाविधि ।
निश्चक्राम जनं सर्वं गृहीत्वा वज्रमेव च ॥५॥

द्वारवत्या विनिष्क्रान्ताः कृष्णपत्न्यः सहस्रशः ।
वज्रं जनं च कौन्तेयः पालयञ्शनकैर्ययौ ॥६॥

सभा सुधर्मा कृष्णेन मर्त्यलोके समाहृता ।
स्वर्गं जगाम भो विप्राः पारिजातश्च पादपः ॥७॥

यस्मिन्दिने हरिर्यातो दिवं संत्यज्य मेदिनींम् ।
तस्मिन्दिनेऽवतीर्णोऽयं कालकायः कलिः किल ॥८॥

प्लावयामास तां शून्यां द्वारकां च महोदधिः ॥
यदुश्रेष्ठगृहं त्वेकं नाऽऽप्लावयत सागरः ॥९॥

नातिक्रामति भो विप्रास्तदद्यापि महोदधिः ।
नित्यं संनिहितस्तत्र भगवान्केशवो यतः ॥१०॥

तदतीव महापुण्यं सर्वपातकनाशनम् ।
विष्णुक्रीडान्वितं स्थानं दृष्ट्वा पापात्प्रमुच्यते ॥११॥

पार्थः पञ्चनदे देशे बहुधान्यधनान्विते ।
चकार वासं सर्वस्य जनस्य मुनिसत्तमाः ॥१२॥

ततो लोभः समभवत्पार्थेनैकेन धन्विना ।
दृष्ट्वा स्त्रियो नीयमाना दस्यूनां निहतेश्वराः ॥१३॥

ततस्ते पापकर्माणो लोभोपहतचेतसः ।
आभीरा मन्त्रयामासुः समेत्यात्यन्तदुर्मदाः ॥१४॥

आभीरा ऊचुः
अयमेकोऽर्जुनो धन्वी स्त्रीजनं निहतेश्वरम् ।
नयत्यस्मानतिक्रम्य धिगेतत्क्रियतां बलम् ॥१५॥

हत्वा गर्वसमारूढो भीष्मद्रोणजयद्रथान् ।
कर्णादींश्च न जानाति बलं ग्रामनिवासिनाम् ॥१६॥

बलज्येष्ठान्नरानन्यान्ग्राम्यांश्चैव विशेषतः ।
सर्वानेवावजानाति किं वो बहुभिरुत्तरैः ॥१७॥

व्यास उवाच
ततो यष्टिप्रहरणा दस्यवो लोष्टहारिणः ।
सहस्रशोऽभ्यधावन्त तं जनं निहतेश्वरम् ॥
ततो नवृत्तः कौन्तेयः प्राहाऽऽभीरान्हसन्निव ॥१८॥

अर्जुन उवाच
निवर्तध्वमधर्मज्ञा यदीतो न मुमूर्षवः ॥१९॥

व्यास उवाच
अवज्ञाय वचस्तस्य जगृहुस्ते तदा धनम् ।
स्त्रीजनं चापि कौन्तेयाद्विष्वक्सेनपरिग्रहम् ॥२०॥

ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं युधि ।
आरोपयितुमारेभे न शशाक स वीर्यवान् ॥२१॥

चकार सज्जं कृच्छ्रात्तु तदभूच्छिथिलं पुनः ।
न सस्मार तथाऽस्त्राणि चिन्तयन्नपि पाण्डवः ॥२२॥

शरान्मुमोच चैतेषु पार्थः शेषान्स हर्षितः ।
न भेदं ते परं चक्रुरस्ता गाण्डीवधन्वना ॥२३॥

वह्निना चाक्षया दत्ताः शरास्तेऽपि क्षयं ययुः ।
युध्यतः सह गोपालैरर्जुनस्याभवत्क्षः ॥२४॥

अचिन्तयत्तु कौन्तेय कृष्णस्यैव हि तद्‌बलम् ।
यन्मया शरसंघातैः सबला भूभृतो जिताः ॥२५॥

मिषतः पाण्डुपुत्रस्य ततस्ताः प्रमदोत्तमाः ।
अपाकृष्यन्त चाऽऽभीरैः कामाच्चान्याः प्रवव्रजुः ॥२६॥

ततः शरेषु क्षीणेषु धनुष्कोट्या धनंजयः ।
जघान दस्यूंस्ते चास्य प्रहाराञ्जहसुर्द्विजाः ॥२७॥

पश्यतस्त्वेव पार्थस्य वृष्णयन्धकवरस्त्रियः ।
जग्मुरादाय ते म्लेच्छाः समन्तान्मुनिसत्तमाः ॥२८॥

ततः स दुःखितो जिष्णुः कष्टं कष्टमिति ब्रुवन् ।
अहो भगवता तेन मुक्तोऽस्मीति रुरोदवै ॥२९॥

अर्जुन उवाच
तद्धनुस्तानि चास्त्राणि स रथस्ते च वाजिनः ।
सर्वमोकपदे नष्टं दानमश्रोत्रिये यथा ॥३०॥

अहो चाति बलं दैवं विना तेन महात्मना ।
यदसामर्थ्ययुक्तोऽहं नीचैर्नीतः पराभवम् ॥३१॥

तौ बाहु स मे मुष्टिः स्थानं तत्सोऽस्मि चार्जुनः ।
पुण्येनेव विना तेन गतं सर्वमसारताम् ॥३२॥

ममार्जुनत्वं भीमस्य भीमत्वं तत्कृतं ध्रुवम् ।
विना तेन यदाभीरैर्जितोऽहं कथमन्यथा ॥३३॥

इत्थं वदन्ययौ जिष्णुरिन्द्रप्रस्थं पुरोत्तमम् ।
चकार तत्र राजानं वज्रं यादवनन्दनम् ॥३४॥

स ददर्श ततो व्यासं फाल्गुनः काननाश्रयम् ।
तमुपेत्य महाभागं विनयेनाभ्यवादयत् ॥३५॥

तं वन्दमानं चरणाववलोक्य सुनिश्चितम् ।
उवाच पार्थं विच्छायः कथमत्यन्तमीदृशः ॥३६॥

अजारजोऽनुगमनं ब्रह्महत्याऽथवा कृता ।
जयाशाभङ्गदुःखी वा भ्रष्टच्छायोऽसि सांप्रतम् ॥३७॥

सान्तानिकादयो वा ते याचमाना निराकृताः ।
अगम्यस्त्रीरतिर्वाऽपि तेनासि विगतप्रभः ॥३८॥

भुङ्क्ते प्रदाय विप्रेभ्यो मिष्टमेकमथो भवान् ।
किं वा कृपणवित्तानि हृतानि भवताऽर्जुन ॥३९॥

कच्छिन्न सूर्यवातस्य गोचरत्वं गतोऽर्जुन ।
दुष्टचक्षुर्हतो वाऽपि निःश्रीकः कथमन्यथा ॥४०॥

स्पृष्टो नखाम्भसा वाऽपि घटाम्‌भःप्रोक्षितोऽपि वा ।
तेनातीवासि विच्छायो न्यूनैर्वायुधि निर्जितः ॥४१॥

व्यास उवाच
ततः पार्थो विनिःश्वस्य श्रूयतां भगवन्निति ।
प्रोक्तो यथावदाचष्ट विप्रा आत्मपराभवम् ॥४२॥

अर्जुन उवाच
यद्बलं यच्च नस्तेजो यद्वीर्यं यत्पराक्रमः ।
या श्रीश्छाया च नः सोऽस्मान्परित्यज्य हरिर्गतः ॥४३॥

इतरेणेव महता स्मितपूर्वाभिभाषिणा ।
हीना वयं मुने तेन जातास्तृणमया इव ॥४४॥

अस्त्राणां सायकानां च गाण्डीवस्य तथा मम ।
सारता याऽभवन्मूर्ता स गतः पुरुषोत्तमः ॥४५॥

यस्यावलोकनादस्माञ्श्रीर्जयः संपदुन्नतिः ।
न तत्याज स गोविन्दस्त्यक्त्वाऽस्मान्भगवान्गतः ॥४६॥

भीषमद्रोणाङ्गराजाद्यास्तथा दुर्योधनादयः ।
यत्प्रभावेण निर्दग्धाः स कृष्णस्त्यक्तवान्भुवम् ॥४७॥

निर्यौवना हतश्रीका भ्रष्टच्छायेव मे मही ।
विभाति तात नैकोऽहं विरहे तस्य चक्रिणः ॥४८॥

यस्यानुभावाद्भीष्माद्यैर्मय्यग्नौ शलभायितम् ।
विना तेनाद्य कृष्णेन गोपालैरस्मि निर्जितः ॥४९॥

गणाडीवं त्रिषु लोकेषु ख्यातं यदनुभावतः ।
मम तेन विनाऽऽभीरैर्लगुडैस्तु तिरस्कृतम् ॥५०॥

स्त्रीसहस्राण्यनेकानि ह्यनाथानि महामुने ।
यततो मम नीतानि दस्युभिर्लगुडायुधैः ॥५१॥

आनीयमानमाभीरैः सर्वं कृष्णवरोधनम् ।
हृतं यष्टिप्रहरणैः परिभूय बलं मम ॥५२॥

निःश्रीकता न मे चित्रं यज्जीवामि तदद्भुतम् ।
नीचावमानपङ्काङ्की निर्लज्जोऽस्मि पितामह ॥५३॥

व्यास उवाच
श्रुत्वाऽहं तस्य तद्वाक्यमब्रवं द्विजसत्तमाः ।
दुःखितस्य च दीनस्य पाण्डवस्य महात्मनः ॥५४॥

अलं ते व्रीडया पार्थ न त्वं शोचितुमर्हसि ।
अवेहि सर्वभूतेषु कालस्य गतिरीदृशी ॥५५॥

कालो भवाय भूतानामभवाय च पाण्डव ।
कालमूलमिदं ज्ञात्वा कुरु स्थर्यमतोऽर्जुन ॥५६॥

नद्यः समुद्रा गिरयः सकला च वसुंधरा ।
देवा मनुष्याः पशवस्तरवश्च सरीसृपाः ॥५७॥

सृष्टाः कालेन कालेन पुनर्यास्यन्ति संक्षयम् ।
कालात्मकमिदं सर्वं ज्ञात्वाशममवाप्नुहि ॥५८॥

यथाऽऽत्य कृष्णमाहात्म्यं तत्तथैव धनंजय ।
भारावतारकार्यार्थमवतीर्णः स मेदिनीम् ॥५९॥

भाराक्रान्ता धरा याता देवानां संनिधौ पुरा ।
तदर्थमवतीर्णोऽसौ कामरूपी जनार्दनः ॥६०॥

तच्च निष्पादितं कार्यमशेषा भूभृतो हताः ।
वृष्ण्यन्धककुलं सर्वं तथा पार्थोपसंहृतम् ॥६१॥

न किंचिदन्यत्कर्तव्यमस्य भूमितलेऽर्जुन ।
ततो गतः स भगवान्कृतकृत्यो यथेच्छया ॥६२॥

सृष्टिं सर्गे करोत्येष देवदेवः स्थितिं स्थितौ ।
अन्ते ताप(लयं)समर्थोऽयं सांप्रतं वै यथा कृतम् ॥६३॥

तस्मात्पार्थ न संतापस्त्वया कार्यः पराभवात् ।
भवन्ति भवकालेषु पुरुषाणां पराक्रमाः ॥६४॥

यतस्त्वयैकेन हता भीष्मद्रोणादयो नृपाः ।
तेषामर्जुन कालोत्थः किं न्यूनाभिभिवो न सः ॥६५॥

विष्णोस्तस्यानुभावेन यथा तेषां पराभवः ।
त्वत्तस्तथैव भवतो दस्युभ्योऽन्ते तदुद्भवः ॥६६॥

स देवोऽन्यशरीराणि समाविश्य जगत्स्थितिम् ।
करोति सर्वभूतानां नाशं चान्ते जगत्पतिः ॥६७॥

भवोद्भवे च कौन्तेय सहायस्ते जनार्दनः ।
भवान्ते त्वद्विपक्षास्ते केशवेनावलोकिताः ॥६८॥

कः श्रद्दध्यात्सगाङ्गेयन्हन्यास्त्वं सर्वकौरवान् ।
आभीरेभ्यश्च भवतः कः श्रद्दध्यात्पराभवम् ॥६९॥

पार्थेतत्सर्वभूतेषु हरेर्लीलाविचेष्टितम् ।
त्वया यत्कौरवा ध्वस्ता यदाभीरैर्भवाञ्जितः ॥७०॥

गृहीता दस्युभिर्यच्च रक्षिता भवता स्त्रियः ।
तदप्यहं यथावृत्तं कथयामि तवार्जुन ॥७१॥

अष्टावक्रः पुरा विप्र उदवासरतोऽभवत् ।
बहून्वर्षगणान्पार्थं गृणन्ब्रह्म सनातनम् ॥७२॥

जितेष्वसुरसंघेषु मेरुपृष्ठे महोत्सवः ।
बभूव तत्र गच्छन्त्यो ददृशुस्तं सुरस्त्रियः ॥७३॥

रम्भा तिलोत्तमाद्याश्च शतशोऽथ सहस्रशः ।
तुष्टुवुस्तं महात्मानं प्रशशंसुश्च पाण्डव ॥७४॥

आकण्ठमग्नं सलिले जटाभारधरं मुनिम् ।
विनयावनताश्चैव प्रणेमुः स्तोत्रतत्पराः ॥७५॥

यथा यथा प्रसन्नोऽभूत्तुष्टुवुस्तं तथा तथा ।
सर्वास्ताः कौरवश्रेष्ठ वरिष्ठं तं द्विजन्मनाम् ॥७६॥

अष्टावक्र उवाच
प्रसन्नोऽहं महाभागा भवतीनां यदिष्यते ।
मत्तस्तद्‌व्रियतां सर्वं प्रदास्याम्यपि दुर्लभम् ॥७७॥

व्यास उवाच
रम्भा तिलोत्तमाद्याश्च दिव्याश्चाप्सरसोऽब्रुवन् ॥७८॥

अपसरस ऊचुः
प्रसन्ने त्वय्यसंप्राप्तं किमस्माकमिति द्विजाः ॥७९॥

इतरास्त्वब्रुवन्विप्र प्रसन्नो भगवन्यदि ।
तदिच्छामः पतिं प्राप्तुं विप्रेन्द्र पुरुषोत्तमम् ॥८०॥

व्यास उवाच
एवं भविष्यतीत्युक्त्वा उत्ततार जलान्मुनिः ।
तमुत्तीर्णं च ददुशुर्विरूपं वक्रमष्टधा ॥८१॥

तं दुष्ट्वा गूहमानानां यासां हासः स्फुटोऽभवत् ।
ताः शशाप मुनिः कोपमवाप्य कुरुनन्दनः ॥८२॥

अष्टावक्र उवाच
यस्माद्विरूपरूपं मां मत्वा हासावमानना ।
भवतीभिः कृता तस्मादेष शापं ददामि वः ॥८३॥

मत्प्रसादेन भर्तारं लब्ध्वा तु पुरुषोत्तमम् ।
मच्छापोपहाताः सर्वा दस्युहस्तं गमिष्यथ ॥८४॥

व्यास उवाच
इत्युदीरितमाकर्ण्य मुनिस्ताभिः प्रसादितः ।
पुनः सुरेन्द्रलोकं वै प्राह भूयो गमिष्यथ ॥८५॥

एवं तस्य मुनेः शापादष्टावक्रस्य केशवम् ।
भर्तारं प्राप्य ताः प्राप्ता दस्युहस्तं वराङ्गनाः ॥८६॥

तत्त्वया नात्र कर्तव्यः शोकोऽल्पोऽपि हि पाण्डव ।
तेनैवाखिलनातेन सर्वं तदुपसंहृतम् ॥८७॥

भवतां चोपसंहारमासन्नं तेन कुर्वता ।
बलं तेजस्तता वीर्यं माहात्म्यं चोपसंहृतम् ॥८८॥

जातस्य नियतो मृत्युः पतनं च तथोन्नतेः ।
विप्रयोगावसानं तु संयोगः संचयः क्ष(यात्क्ष)यः ॥८९॥

विज्ञाय न बुधाः शोकं न हर्षमुपयान्ति ये ।
तेषामेवेतरे चेष्टां शिक्षन्तः सन्ति तादृशाः ॥९०॥

तस्मात्त्वया नरश्रेष्ठ ज्ञात्वैतद्‌भातृभिः सह ।
परित्यज्याखिलं राज्यं गन्तव्यं तपसे वनम् ॥९१॥

तद्‌गच्छ धर्मराजाय निवेद्यैतद्वचो मम ।
परश्वो भ्रातृभिः सार्धं वीर यथा कुरु ॥९२॥

इत्युक्तो धर्मराजं तु समभ्येत्य तथोक्तवान् ।
दृष्टं चैवानुभूतं वा कथितं तदशेषतः ॥९३॥

व्यासवाक्यं च ते सर्वे श्रुत्वाऽर्जुनसमीरितम् ।
राज्ये परीक्षितं कृत्वा ययुः पाण्डुसुता वनम् ॥९४॥

इत्येवं वो मुनिश्रेष्ठा विस्तरेण मयोदितम् ।
जातस्य च यदोर्वंशे वासुदेवस्य चेष्टितम् ॥९५॥

इति श्रीमहापुराणे आदिब्राह्मे श्रीकृष्णचरितसमाप्तिकथनं नाम द्वादशाधिकद्विशततमोऽध्यायः ॥२१२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:45.3970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

झिंद

  • पु. मेलेल्या मुसलमानाचें पिशाच्च ; जिंद पहा . तुमच्या घरांत झिंद गेलें . - धर्माजी ८३ . [ जिंद ] 
RANDOM WORD

Did you know?

गणेशोत्सवाच्या काळात सत्यनारायण पूजा करावी काय? मग कोणती पूजा करावी?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site