TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ५१

ब्रह्मपुराणम् - अध्यायः ५१

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः ५१
भगवदिन्द्रद्युम्नसंवादकथनम्
श्रीभगवानुवाच
नाहं देवो न यक्षो वा न दैत्यो न च देवराट् ।
न ब्रह्मा न च रुद्रोऽहं विद्धि मां पुरुषोत्त्मम् ॥१॥

अर्तिहा सर्वलोकानामनन्लबलपौरुषः ।
आराधनीयो भूतानामन्तो यस्य न विद्यते ॥२॥

पठ्यते सर्वशास्त्रेषु वेदान्तेषु निगद्यते ।
यमाहुर्ज्ञानगम्येति वासुदेवेति योगिनः ॥३॥

अहमेव स्वयं ब्रह्म अहं विष्णुः शिवोऽप्यहम् ।
इन्द्रोऽहं देवराजश्च जगत्संयमनो यमः ॥४॥

पृथिव्यादीनि भूतानि त्रेताग्निर्हुतभुङ्नृप ।
वरुणोऽपां पतिश्चाहं धरित्री च महीधरः ॥५॥

यत्किञ्चिद्वाङ्मयं लोके जगत्स्थावरजङ्गमम् ।
चराचरं च यद्विश्वं मदन्यन्नास्ति किंचन ॥६॥

प्रीतोऽहं ते नृपश्रेष्ठ वरं वरय सुव्रत ।
यदिष्टं तत्प्रयच्छामि हृदि यत्ते व्यवस्थितम् ॥७॥

मद्‌दर्शनमपुण्यानां स्वप्नान्तेऽपि न जायते ।
त्वं पुनर्दृढभक्तित्वात्प्रत्यक्षं दृष्टवानसि ॥८॥

श्रुत्वैवं वासुदेवस्य वचनं तस्य भो द्विजाः ।
रोमाञ्चिततनुर्भूत्वा इदं स्तोत्रं जगौ नृपः ॥९॥

राजोवाच
श्रियः कान्त नमस्तेऽस्तु श्रीपते पीतवाससे ।
श्रीद श्रीश श्रीनिवास नमस्ते श्रीनिकेतन ॥१०॥

आद्यं पुरुषमीशानं सर्वेशं सर्वतोमुखम् ।
निष्कलं परमं देवं प्रणतोऽस्मि सनातनम् ॥११॥

शब्दातीतं गुणातीतं भावाभावविवर्जितम् ।
निर्लेपं निर्गुणं सूक्ष्मं सर्वज्ञं सर्वभावनम् ॥१२॥

प्रावृष्मेघप्रतीकाशं गोब्राह्मणहिते रतम् ।
सर्वेषामेव गोप्तारं व्यापिनं सर्वभाविनम् ॥१३॥

शङ्खचक्रधरं देवं गदामुशलधारिणम् ।
नमस्येऽहं हृषीकेशं सर्वपापहरं हिरिम् ॥१४॥

नागपर्यङ्कशयनं क्षीरोदार्णवशायिनम् ।
नमस्येऽहं हृषीकेशं सर्सपापहरं हरिम् ॥१५॥

पुनस्त्वां देवदेवेशं नमस्ये वरदं वरदं विभुम् ।
सर्वलोकेश्वरं विष्णुं मोक्षकारणमव्ययम् ॥१६॥

ब्रह्मोवाच
एवं स्तुत्वा तु तं देवं प्रणिपत्य कृताऽजलिः ।
उवाच प्रणतो भूत्वा निपत्य धरणीतले ॥१७॥

प्रीतोऽसि यदि मे नाथ वृणोमि वारमुत्तमम् ।
देवासुराः सगन्धर्वा यक्षरक्षोमहोरगाः ॥१८॥

सिद्धविद्याधराः साध्याः किंन्नरा गुह्यकास्तथा ।
ऋषयो ये महाभागा नानाशास्त्रविशारदाः ॥१९॥

परिव्राड्‌योगयुक्ताश्च वेदतत्त्वार्थचिन्तकाः ।
मोक्षमार्गविदो येऽन्ये ध्यायन्ति परमं पदम् ॥२०॥

निर्गुणं निर्मलं शान्तं यत्पश्यन्ति मनीषिणः ।
तत्पदं गन्तुमिच्छामि त्वत्प्रसादात्सुदुर्लभम् ॥२१॥

श्रीभगवानुवाच
सर्वं भवतु भद्रं ते यथेष्टं सरमाप्नुहि ।
भविष्यति यथाकामं मत्प्रसादान्न संशयः ॥२२॥

दश वर्षसहस्राणि तथा नव शतानि च ।
अविच्छिन्नं महाराज्यं कुरु त्वं नृपसत्तम ॥२३॥

प्रयास्यसि पदं दिव्यं दुर्लभं यत्सुरासुरैः ।
पूर्णमनोरथं शान्तं गुह्यमव्यक्तमव्ययम् ॥२४॥

परत्परतरं सुक्ष्मं निर्लेषं निष्कलं ध्रुवम् ।
चिन्ताशोकविनिर्मुक्तं क्रियाकारणवर्जितम् ॥२५॥

नदहं दर्शयिष्यामि ज्ञेयाख्यं परमं पदम् ।
यं प्राप्य परमानन्दं प्राप्स्यसि परमां गतिम् ॥२६॥

कीर्तिश्च तव राजेन्द्र भवत्यत्र महीतले ।
यावद्‌घना नभो यावद्यावच्चन्द्रार्कतारकम् ॥२७॥

यावत्समुद्राः सप्तैव यावन्मेर्वादिपर्वताः ।
तिष्ठन्ति दिवि देवाश्च तावत्सर्वत्र चाव्यया ॥२८॥

इन्द्रद्युद्मसरो नाम तीर्थं यज्ञाङ्गसंभवम् ।
यत्र स्नात्वा सकृल्लोकः शक्रलोकमवाप्नुयात् ॥२९॥

दापयिष्यति यः पिण्डांस्तटेऽस्मन्सरसः शुभे ।
कुलैकविंशमुद्धृत्य शक्रलोकं गमिष्यति ॥३०॥

पूज्यमानोऽप्सरोभिश्च गन्धर्वैर्गीतनिस्वनैः ।
विमानेन वसेत्तत्र याविदिन्द्राश्चतुर्दशा ॥३१॥

सरसो दक्षिणे भगे नैर्ऋत्यां तु समाश्रिते ।
न्यग्रोधस्तिष्ठते तत्र तत्समीपे तु मण्डपः ॥३२॥

केतकीवनसंछन्नो नानापादपसंकुलः ।
नारिकेलैरसंख्येयौश्चम्पकैर्बकुलावृतैः ॥३३॥

अशोकैः कर्णिकारैश्च पुंनागेर्नागकेसरैः ।
पाटलाम्रातसरलैश्चन्दनैर्देवदारुभिः ॥३४॥

न्यग्रोधास्वत्थखदिरैः पारिजातैः सहार्जुनैः ।
हिन्तालैश्चैव तालैश्च शिंशपैर्बदरैस्तथा ॥३५॥

करञ्जैर्लकुचैः प्लक्षैः परसैबर्ल्विधातुकैः ।
अनयैर्बहुविधैर्बृक्षैः शोभितः समलंकृतः ॥३६॥

आषाढस्य सिते पक्षे पञ्चचम्यां पितृदैवते ।
ऋक्षे नेष्यन्ति नस्तत्र नीत्वा सप्त दिनानि वै ॥३७॥

मण्डपे स्थापयिष्यनति सुवेश्याभिः सुशोभनैः ।
क्रीडाविशेषबहुलैर्नृत्यगीतमनोहरैः ॥३८॥

चामरैः स्वर्णदण्डैश्च व्यजनै रत्नभूषणैः ।
वीजयन्तस्तथाऽस्मभ्यं स्थापयिष्यन्ति मङ्गलाः ॥३९॥

ब्रह्मचारी यतिश्चैव स्नातकाश्च द्विजोत्तमाः ।
वानप्रस्ता गृहस्थाश्च सिद्धाश्चान्ये च ब्राह्मणाः ॥४०॥

नानावर्णपदैः स्तोत्रैर्ऋग्यजुःसार्मानस्वनैः ।
करिष्यन्ति स्तुतिं राजन्रामकेशवयोः पुनः ॥४१॥

ततः स्तुत्वा च दृष्ट्वा च संप्रणम्य च भक्तितः ।
नरो वर्षायुतं दिव्यं श्रीमद्धरिपुरे वसेत् ॥४२॥

पूज्यमानोऽप्सरोभिश्च गन्धर्वैर्गोतनिस्वनैः ।
हरेरनुचरस्तत्र क्रीडते केशवेन वै ॥४३॥

विमानेनार्कवर्णेन रत्नहारेण भ्राजता ।
सर्वकामैर्महाभोगैस्तिष्ठते भुवनोत्तमे ॥४४॥

तपःक्षयादिहाऽऽगत्य मनुष्यो ब्राह्मणो भवेत् ।
कोटीधनपतिः श्रीमांश्चतुर्वैदी भवेद्‌ध्रुवम् ॥४५॥

ब्रह्मोवाच
एवं तस्मै वरं दत्त्वा कृत्वा च समयं हरिः ।
जगामादर्शनं विप्राः साहितो विश्वकर्मणा ॥४६॥

स तु राजा तदा हृष्टो रोमाञ्चिततनूरुहः ।
कृतकृत्यमिवाऽऽत्मानं मेने संदर्शनाद्धरेः ॥४७॥

ततः कृष्णं च रामं सुभद्रां च वरप्रदाम् ।
रथैर्विमानसंकाशैर्मणिकाञ्चनचित्रितैः ॥४८॥

संवाह्य तास्तदा राजा महामङ्गलनिःस्वनैः ।
आनयामास मतिमान्सामात्यः सपुरोहितः ॥४९॥

नानावादित्रनिर्घोषैर्नानावेदस्वनैः सुभैः ।
संस्थाप्य च शुभे देशे पवित्रे सुमनोहरे ॥५०॥

ततः शुभतिथौ काले नक्षत्रे शुभलक्षणे ।
प्रतिष्ठां कारयामास सुमुहूर्ते द्विजैः सह ॥५१॥

यथोक्तेन विधानेन विधिदृष्टेन कर्मणा ।
आचार्यानुमतेनैव सर्वं कृत्वा महीपतिः ॥५२॥

आचार्याय तदा दत्त्वा दक्षिणां विधिवत्प्रभुः ।
ऋत्विग्भ्यश्च विधानेन तथाऽन्येभ्यो धनं ददौ ॥५३॥

कृत्वा प्रतिष्ठां विधिवत्प्रासादै भवनोत्तमे ।
स्थापयामास तान्सर्वान्विधिदृष्टेन कर्मणा ॥५४॥

ततः संपूज्य विधिना नानापुष्पैः सुगन्धिभिः ।
सुवर्ममणिमुक्ताद्यैर्नानावस्त्रैः सुशोभनैः ॥५५॥

रत्नैश्च विविधैर्दिव्यैरासनैर्ग्रामपत्तनैः ।
ददौ चान्यान्स विषयान्पुराणि नगराणि च ॥५६॥

एवं बहुविधं दत्त्वा राज्यं कृत्वा यथोचितम् ।
इष्ट्‌वा च विविधैर्यज्ञैर्यज्ञैर्दत्तवा दानान्यनेकशः ॥५७॥

कृतकृत्यस्ततो राजा त्यक्तसर्वपरिग्रहः ।
जगाम परमं स्थानं तद्विष्णोः परमं पदम् ॥५८॥

एवं मया मुनिश्रेष्ठाः कथितो वो नृपोत्तमः ।
क्षेत्रस्य चैव महात्म्यं किमन्यच्छ्रोतिमिच्छथ ॥५९॥

विष्णुरुवाच
श्रुत्वैवं वचनं तस्य ब्रह्मणोऽव्यक्तजन्मनः ।
आश्चर्यं मेनिरै विप्राः पप्रच्छुश्च पुनर्मुदा ॥६०॥

मुनय ऊचुः
कस्मिन्काले सुरश्रेष्ठ गन्तव्यं पुरुषोत्तमम् ।
विधिना केन कर्तव्यं पञ्चतीर्थमिति प्रभो ॥६१॥

एकैकस्य च तीर्थस्य स्नानदानस्य यत्फलम् ।
देवताप्रेक्षणे चैव ब्रूहि सर्वं पृथक्पृथक् ॥६२॥

ब्रह्मोवाच
निराहारः कुरुक्षेत्र पादेनैकेन यस्तपेत् ।
जितेन्द्रियो जितक्रोधः सप्तसंवत्सरायुतम् ॥६३॥

दृष्ट्वा सदा ज्येठशुक्लद्वादधश्यां पुरुषोत्तमम् ।
कृतोपवासः प्राप्नोति ततोऽधिकतरं फलम् ॥६४॥

तस्माज्जयेष्ठे मुनिश्रेष्ठाः प्रतयत्नेन सुसंयतैः ।
स्वर्गलोकेप्सुविप्राद्यैर्द्रष्टव्यः पुरुषोत्तमः ॥६५॥

सुदूरस्थोऽपि यो भक्त्वा कीर्तत्पुरुषोत्तमम् ।
अहन्यहनि शुद्धात्मा सोऽपि विष्णुपुरं व्रजेत् ॥६६॥

यात्रां करोति कृष्णस्य श्रद्धया यः समाहितः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन्नरः ॥६७॥

चक्रं दृष्ट्वा हरेर्दूरात्प्रासादोपरि संस्थितम् ।
सहसा मुच्यते पापान्नरो भक्त्या प्रणम्य तत् ॥६८॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे पुरुषोत्तमवर्णनं नामैकपञ्चाशत्तमोऽध्यायः॥ ५१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:36.1630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

differentiation of ovum

  • डिंब विभेदन 
RANDOM WORD

Did you know?

gharat javalchi vyakti vaarlya nanter, lok ek varsha san saajre ka karat nahit?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site