संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ३९

ब्रह्मपुराणम् - अध्यायः ३९

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


दक्षयज्ञविध्वंसनम्
ऋषय ऊचुः
प्राचेतस्य दक्षस्य कथं वैवस्वतेऽन्तरे ।
विनाशमगमद् ब्रह्मन् हयमेधः प्रजापतेः ॥१॥

देव्या मन्युकृतं बुद्‌ध्वा क्रुद्धः सर्वात्मकः प्रभुः ।
कथं विनाशितो यज्ञो दक्षस्यामिततेजसः ।
महादेवेन रोषाद्धै तन्नः प्रब्रूहि विस्तरात् ॥२॥

वर्णयिष्यामि वो विप्रा महादेवेन वै यथा ।
क्रोधाद्विध्वंसितो यज्ञो देव्याः प्रियचिकीर्षया ॥३॥

पुरा मेरोर्द्विजश्रेष्ठाः श्रृङ्गं त्रैलोक्यपूजितम् ।
ज्योतिः स्थलं नाम चित्रं सर्वरत्नविभूषितम् ॥४॥

अप्रमेयमनाधृष्यं सर्वलोकनमस्कृतम् ।
तत्र देवो गिरितटे सर्वधातुविचित्रिते ॥५॥

पर्य्यङ्क इव विस्तीर्ण उपवुष्टो बभूव ह ।
शैलराजसुता चास्य नित्यं पार्श्वस्थिताऽभवत् ॥६॥

आदित्याश्च महात्मानो वसवश्च महौजसः ।
तथैव च महात्मानावश्विनौ भिषजां वरौ ॥७॥

नथा वैश्रवणो राजा गुह्यकैः परिवारितः ।
यक्षाणामीश्वरः श्रीमान् कैलासनिलयः प्रभुः ॥८॥

उपासते महात्मानमुशना च महामुनिः ।
सनत्कुमारप्रमुखास्तथैव परमर्षयः ॥९॥

अङ्गिरःप्रमुखाश्चैव तथा देवर्षयोऽपि च ।
विश्वावसुस्च गन्धर्वस्तथा नारदपर्वतौ ॥१०॥

अप्सरोगणसङ्घाश्च समाजग्मुरनेकशः ।
ववौ सुखाशवो वायुर्नानागन्धवहः शुचिः ॥११॥

सर्वर्त्तुकुसुमोपेतः पुष्पवन्तोऽभवन्द्रुमाः ।
तथा विद्याधराः साध्याः सिद्धाश्चैव तपोधनाः ॥१२॥

महादेवं पशुपतिं पर्य्युपासत तत्र वै ।
भूतानि च तथाऽन्यानि नानारूपधराण्यथ ॥१३॥

राक्षसास्व महारौद्राः पिशाचाश्च महाबलाः ।
बहुरूपधरा धृष्टा नानाप्रहरणायुधाः ॥१४॥

देवस्यानु चरास्तत्र तस्थुर्वैश्वानरोपमाः ।
नन्दीश्वरश्च भगवान् देवस्यानुमते स्थितः ॥१५॥

मगृह्य ज्वलितं दीप्यमानं स्वतेजसा ।
गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा ॥१६॥

पर्युपासत तं देवं रूपिणी द्विजसत्तमाः ।
एवं स भगवांस्तत्र पूज्यमानः सुरर्षिभिः ॥१७॥

देवैस्च सुमहाभागैर्महादेवो व्यतिष्ठत ।
कस्यचित्त्वय कालस्य दक्षो नाम प्रजापतिः ॥१८॥

पूर्व्वोक्तेन विधानेन यक्ष्यमाणोऽभ्यपद्यत ।
ततस्तस्य मखे देवाः सर्वै शक्रपुरागमाः ॥१९॥

स्वर्गस्थानादथाऽऽगम्य दक्षमापेदिरे सथा ।
ते विमानैर्महास्मानो ज्वलद्भिर्ज्वलनप्रभा ॥२०॥

देवस्यानुमतेऽगच्छन् गह्गाद्वारमिति श्रुतिः ।
गन्धर्वाप्सरसाकीर्ण नानाद्रुमलतावृतम् ॥२१॥

ऋषिसिद्धैः परिवृतं दक्षं धर्म्मभृतां वरम् ।
पुथिव्यामन्तरिक्षे च ये च स्वर्लोकवासिनः ॥२२॥

सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम् ।
आदित्या वसवो रुद्राः साध्याः सर्वेमरुद्‌गणाः ॥२३॥

विष्णुना सहिताः सर्व आगता यज्ञभागिनः ।
ऊष्मपा धूमपाश्चैव आज्यपाः सोमपास्तथा ॥२४॥

अश्विनौ मरुतश्चैव नानादेवगणैः सह ।
एते चान्ये च बहवो भूतग्रामास्तथैव च ॥२५॥

जरायुजाण्डजाश्चैव तथव स्वेदजोजिद्भदः ।
आगताः सत्रिमः सर्वेदेवाः स्त्रीभिः सहर्षिभिः ॥२६॥

विराजन्ते विमानस्था दीप्यमानाइवाग्नयः ।
तान् दृष्ट्वा मन्युनाऽऽविष्टो दधीचिर्वाक्यमब्रवीत् ॥२७॥

अपूज्यपूजने चैव पूज्यानां चाप्यपूजने ।
नरः पापमवाप्नोति महद्वै नात्र संशयः ॥२८॥

ब्रह्मोवाच
एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत ॥२९॥

दधीचिरुवाच
पुज्यञ्च पशुभर्त्तारं कस्मान्नार्च्चयसे प्रभुम् ॥३०॥

दक्ष उवाच
सन्ति मे बहवो रुद्राः शूलहस्ताः कपर्द्दिनः ।
एकादशस्थानगता नान्यं विद्‌मो महेश्वरम् ॥३१॥

दधीचिरुवाच
सर्वेषामन्त्रोऽयं ममेशो न निमन्त्रितः ।
यथाऽहं शङ्करादूर्ध्वं नान्यं पश्यामि दैवतम् ।
तथा दक्षस्य विपुलो यज्ञोऽयं न भविष्यति ॥३२॥

दक्ष उवाच
विष्णोश्च भागा विविधाः प्रदत्तास्तथा च रुद्रेभ्य उत प्रदत्ताः ।
अन्येऽपि देवानिजभागयुक्ता, ददामि भागं न तु शङ्कराय ॥३३॥

गतास्तु देवता ज्ञात्वा शेलराजसुता तदा ।
उवाच वचनं शर्वं देवं पशुपतिं पतिम् ॥३४॥

उमोवाच
भगवन् कुत्र यान्त्येते देवाः शक्रपुरोगमाः ।
ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम् ॥३५॥

महेश्वर उवाच
दक्षो नाम महाभागे प्रजानां पतिरुत्तमः ।
हयमेधेन यजते तत्र यान्ति दिवौकसः ॥३६॥

देव्युवाच
यज्ञमेतं महाभाग किमिर्थं नानुगच्छसि ।
केन वा प्रतिषेधेन गमनं ते न विद्यते ॥३७॥

महेश्वर उवाच
सुरैरेव महाभागे सर्वमेतदनुष्ठितम् ।
यज्ञेषु मम सर्वेषु न भाग उपकल्पितः ॥३८॥

पूर्वागतेन गन्तव्यं मार्गेण वरवर्णिनि ।
न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्म्मतः ॥३९॥

उमोवाच
भगवन् सर्वदेवेषु प्रभावाभ्यधिको गुणैः ।
अजेयश्चाप्यधृष्यश्च तेजसा यशसा श्रिया ॥४०॥

अनेन तु महाभाग प्रतिषेधेन भागतः ।
अतीव दुःखमापन्ना वेपथुश्च महानयम् ॥४१॥

किं नाम दानं नियमं तपो वा, कुर्यामहं येन पतिर्ममाद्य ।
लभेत भागं भगवानचिन्त्यो, यज्ञस्य चेन्द्राद्यमरैर्विचित्र(भक्त)म् ॥४२॥

ब्रह्मोवाच
एवं ब्रुवाणां भगवान् विचिन्त्य, पत्नीं प्रहृष्टः क्षुभितामुवाच ।
महेश्वर उवाच
न वेत्सि मां देवि कृशोदराङ्गि, किं नाम युक्तं वचनं तवेदम् ॥४३॥

अहं विजानामि विशालनेत्रे, ध्यानेन सर्वे च विदन्ति सन्तः ।
तवाद्य मोहेन सहेन्द्रदेवा, लोकत्रयं सर्वमतो विनष्टम् ॥४४॥

मामध्वरेशं नितरां स्तुवन्ति, रथन्तरं साम गायन्ति महय्म् ।
मां ब्राह्मणा ब्रह्ममन्त्रैर्यजन्ति, ममाध्वर्य्यवः कल्पयन्ते च भागम् ॥४५॥

देव्युवाच
विकत्थसे प्राकृतवत् सर्वस्त्रीजनसंसदि ।
स्तौषि गर्वायसे चापि स्वमात्मानं न संशयः ॥४६॥

भगवानुवाच
नाऽऽत्मानं स्तौमि देवेशि यथा त्वमनुगच्छसि ।
संस्रक्ष्यामि वरारोहे भागार्थे वरवर्णिनि ॥४७॥

ब्रह्मोवाच
इत्युक्त्वा भगत्वान् पत्नीमुमां प्राणैरपि प्रियाम् ।
सोऽसृजद्भगवान् वक्त्राद्‌भूतं क्रोधाग्निसम्भवम् ॥४८॥

तमुवाच मखं गच्छ दक्षस्य त्वं महेश्वर ।
नाशयाऽऽशु क्रतुं तस्य दक्षस्य मदनुज्ञया ॥४९॥

ब्रह्मोवाच
ततो रुद्रप्रयुक्तेन सिंहवेषेम लीलया ।
देव्या मन्युकृतं ज्ञात्वा हतो दक्षस्य स क्रतुः ॥५०॥

मन्युना च महाभीमा भद्रकाली महेश्वरी ।
आत्मनः कर्म्मसाक्षित्वे तेन सार्द्धं सहानुगा ॥५१॥

स एष भगवान् क्रोधः प्रेतावासकृतालयः ।
वीरभद्रेति विख्यातो देव्या मन्युप्रमार्जकः ॥५२॥

सोऽसृजद्रोमकूपेभ्य आत्मनैव गणेश्वरान् ।
रुद्रानुगान्‌गणान्‌रौद्रान्‌वीर्यपराक्रमान् ॥५३॥

रुद्रस्यानुचराः सर्वे सर्वे रुद्रपराक्रमाः ।
ते निपेतुस्ततस्तूर्णं शतशोऽथ सहस्त्रशः ॥५४॥

ततः किलकिलाशब्द आकाशं पूरयन्निव ।
समभूत् सुमहान् विप्राः सर्वरुद्रगणैः कृतः ॥५५॥

तेन शब्देन महता त्रस्ताः सर्वे दिवौकसः ।
पर्व्वताश्च व्यशीर्य्यन्त चकम्पे च वसुन्धरा । ३९.५६॥

मरुतश्च ववुः क्रूराश्चुक्षुभे वरुणालयः ।
अग्नयो वै न दीप्यन्ते न देवा न च दानवाः ॥५७॥

ग्रहा नैव प्रकाशन्ते नक्षत्राणि न तारकाः ।
ऋषयो न प्रभासन्ते न देवा न च दानवाः ॥५८॥

एवं चहि तिमिरीभूते निर्हन्ति गणेश्वराः ।
प्रभञ्जन्त्यपरे यूपान् घोरानुत्पाटयन्ति च ॥५९॥

प्रणदन्ति तथा चानये विकुर्वन्ति तथा परे ।
त्वरितं वै प्रधावन्ति वायुवेगा मनोजवाः ॥६०॥

चूर्ण्यन्ते यज्ञपात्राणि यज्ञस्यायतनानि ।
शीर्यमाणान्यदृस्यन्त तारा इव नभस्तलात् ॥६१॥

दिवय्यान्नपानभक्ष्याणां राशयः पर्व्वतोपमाः ।
क्षीरनद्यस्तथा चान्या घृतपायसकद्‌र्दमाः ॥६२॥

मधुमण्डोदका दिव्याः खण्डशर्करबालुकाः ।
षड्‌रसान्निवहन्त्यन्या गुडकुल्या मनोरमाः ॥६३॥

उच्चावचानि मांसानि भक्ष्यानि विविधानि च ।
यानि कानि च दिव्यानि लेह्यचोष्वाणि यानि च ॥६४॥

भुञ्जन्ति विविधैर्वक्त्रैर्विलुम्पन्ति क्षिपन्ति च ।
रुद्रकोपा महाकोपाः कालाग्निसदृशोपमाः ॥६५॥

भक्षयन्तोऽथ शैलाभा भीषयन्तश्च सर्वतः ।
क्रीडन्ति विविधकाराश्चिक्षिपुः सुरयोषितः ॥६६॥

एवं गणाश्च तैर्युक्तो वीरभद्रः प्रतापवान् ।
रुद्रकोपप्रयुक्तश्च सर्वदेवैः सुरक्षितम् ॥६७॥

तं यज्ञमदहच्छीघ्रं भद्रकाल्याः समीपतः ।
चक्रुरन्ये तथा नादान् सर्वबूतभयङ्करान् ॥६८॥

छित्त्वा शिरोऽन्ये यज्ञस्य व्यनदन्त भयङ्करम् ।
ततः शक्रादयो देवा दक्षश्चैव प्रजापतिः॥
ऊचुः प्राञ्जलयो भूत्वा कथ्यतां को भवानिति ॥६९॥

वीरभद्र उवाच
नाहं न दैत्यो वा न च भोक्तुमिहागतः ।
नैव द्रष्टुञ्च देवेन्द्रा न च कौतूहलान्वितः ॥७०॥

दक्षयज्ञविनाशार्थं सम्प्राप्तोऽहं सुरोत्तमाः ।
वीरभद्रेति विख्यातो रुद्रकोपाद्‌विनिःसुतः ॥७१॥

भद्रकाली च विख्याता देव्याः क्रोधाद्विनिर्गता ।
प्रेषिता देवदेवेन यज्ञान्तिकमुपागता ॥७२॥

शरणं गच्छ राजेन्द्र देवदेवमुमापतिम् ।
वरं क्रोधोऽपि देवस्य न वरः परिचारकैः ॥७३॥

ब्रह्मोवाच
निखातोत्पाटितैर्यूंपैरपविद्धैस्ततस्ततः ।
उत्पतद्भिः पतद्भिश्च गृध्रैरामिषगृध्नुभिः ॥७४॥

पक्षवातविनिर्धूतैः शिवारुतविनादितैः ।
स तस्य यज्ञो नृपतेबध्यिमानस्तदा गणैः ॥७५॥

आस्थाय मृगरूपं वै खमेवाभ्यपतत्तदा ।
तन्तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः ॥७६॥

धनुरादाय बाणञ्च तदर्थमगमत् प्रभुः ।
ततस्तस्य गणेशस्य क्रोधादमिततैजसः ॥७७॥

ललाटात्प्रसृतो घोरः स्वेदविन्दुर्बभूव ह ।
तस्मिन्पतितमात्रे च स्वेदविन्दौ तदा भुवि ॥७८॥

प्रादुर्भुंतो महानग्निर्ज्वलत्कालानलोपमः ।
तत्रोदपद्यत तदा पुरुषो द्विजसत्तमाः ॥७९॥

ह्रस्वोऽतिमात्रो रक्ताक्षो हरिच्छ्‌मश्रुर्विभीषणः ।
ऊर्ध्वकेशोऽतिरोमाङ्गः शोण्कर्णस्तथैव च ॥८०॥

करालकृष्णवर्णश्च रक्तवासास्तथैव च ।
तं यज्ञं स महासत्त्वोऽदहत्कक्षमिवानलः ॥८१॥

देवाश्च प्रद्रुताः सर्वे गता भीता दिशो दश ।
तेन तस्मिन्विचरता विक्रमेम तदा तु वै । ३९.८२॥

पृथिवी व्यचलत्सर्वा सप्तद्वीपा समन्ततः ।
महाभूते प्रवृत्ते तु देवलोकभयंकरे ॥८३॥

तदा चाहं महादेवमब्रवं प्रतिपूजयन् ।
भवतेऽपि सुराः सर्वे भागं दारवन्ति वै प्रभो ॥८४॥

क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया ।
इमाश्च देवताः सर्वा ऋषयश्च सहस्रशः ॥८५॥

तव क्रोधान्महादेव न शान्तिमुपलेभिरे ।
यश्चैष पुरुषो जातः स्वेदजस्ते सुरर्षभः ॥८६॥

ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति ।
एकीभूतस्य न ह्यस्य धारणे तेनसः प्रभोः ॥८७॥

समर्था सकला पृथ्वी बहुधा सृज्यतामयम् ।
इत्युक्तः स मया देवो भागे चापि प्रकल्पिते ॥८८॥

भगवान्मां तथेत्याह देवदेवः पिनाकधृक् ।
परां च प्रीतिमगमत्स स्वयं भागे चापि प्रकल्पिते ॥८९॥

दक्षिऽपि मनसा देवं भवं शरणमन्वगात् ।
प्राणापानौ समारुध्य चक्षुःस्थाने प्रयचत्नतः ॥९०॥

वाधार्य सर्वते दृष्टिं बहुदृष्टिरमत्रजित् ।
स्मितं कृत्वाऽब्रवीद्वाक्यं ब्रहिं किं करवाणि ते ॥९१॥

श्राविते च महाख्याने देवानां पितृभिः सह ।
तमुवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापति॥
भीतः शङ्किर्ताचत्तस्तु सबाष्पवदनेक्षणः ॥९२॥

दक्ष उवाच
यदि प्रसन्नो भगवान्यदि वाऽहं तव प्रियः ।
यदि चाहमनुग्राह्ये यदि देयो वरो मम ॥९३॥

यद्भक्ष्यं भक्षितं पीतं त्रासितं यच्च नाशितम् ।
चूर्णीतापविद्धं च यज्ञसंभारमीदृशम् ॥९४॥

दीर्घकालेन महताः प्रयत्नेन च संचितम् ।
न च मिथ्या भवेन्मह्यं त्वत्प्रसादान्महेश्वर ॥९५॥

तथाऽस्त्वित्याह भगवान्भगनेत्रहरो हरः ।
धर्माध्यक्षं महादेवं ञ्यम्बकं च प्रजापतिः ॥९६॥

जानुभ्यामवनीं गत्वा दक्षो लब्ध्वा भवाद्वरम् ।
नाम्नां चाष्टसहस्रेण स्तुतवान्वृषभध्वजम् ॥९७॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे दक्षयज्ञविध्वंसनं नामैकोनचत्वारिंशो शोऽध्यायः॥ ३९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP