TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २३६

ब्रह्मपुराणम् - अध्यायः २३६

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २३६
सांख्ययोगनिरूपणम्
मुनय ऊचुः
तव वक्त्राब्धिसंभूतममृतं वाङ्‌मयं मुने ।
पिबतां नो द्विजश्रेष्ठ न नृप्तिरिह दृश्यते ॥१॥

तस्माद्योगं मुने ब्रूहि विस्तरेण विमुक्तिदम् ।
सांख्यं च द्विपदां श्रेष्ठ श्रोतुमिच्छामहे वयम् ॥२॥

प्रज्ञावाञ्श्रोत्रियो यज्वा ख्यातः प्राज्ञोऽनसूयकः ।
सत्यधर्ममतिर्ब्रह्मन्कथं ब्रह्माधिगच्छति ॥३॥

तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया ।
सांख्ये वा यदि वा योग एतत्पृष्टो वदस्व नः ॥४॥

मनसश्चेन्द्रियाणां च यथैकागय्रमवाप्यते ।
येनोपायेन पुरुषस्तत्त्वं व्याख्यातुमर्हसि ॥५॥

व्यास उवाच
नान्यत्र ज्ञानतपसोर्नान्यत्रेन्द्रियनिग्रहात् ।
नान्यत्र सर्वसंत्यागात्सिद्धिं विन्दति कश्चन ॥६॥

महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयंभुवः ।
भूयिष्ठं प्राणभृद्‌ग्रामे निविष्टानि शरीरिषु ॥७॥

भूमेर्देहो जलात्स्नेहो ज्योतिषश्चक्षुषी स्मृते ।
प्राणापानाश्रयो वायुःकोष्ठाकाशं शरीरिणाम् ॥८॥

क्रान्तौ विष्णुर्बले शक्रः कोष्ठेऽग्निर्भोक्तुमिच्छति ।
कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक्सरस्वती ॥९॥

कर्णौ त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
दश तानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये ॥१०॥

शब्दस्पर्शौ तथा रूपं रसं गन्धं च पञ्चमम् ।
इन्द्रियार्थान्पृथग्विद्यादिन्द्रियेभ्यस्तु नित्यदा ॥११॥

इन्द्रियाणि मनो युङ्‌क्ते अवश्या(शा)निव राजिनः(लः) ।
मनश्चापि सदा युङ्‌क्ते भूतात्मा हृदयाश्रितः ॥१२॥

इन्द्रियाणां तथैवैषां सर्वेषामीश्वरं मनः ।
नियमे च विसर्गे च भूतात्मा मनसस्तथा ॥१३॥

इन्द्रियाणीन्द्रियार्थश्च स्वभावश्चेतना मनः ।
प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम् ॥१४॥

आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतनाः ।
सत्त्वं हि तेजः सृजति न गुणान्वै कथंचन ॥१५॥

एवं सप्तदशं देहं वृतं षोडशभिर्गुणैः ।
मनीषी मनसा विप्राः पश्यत्यात्मानमात्मनि ॥१६॥

न ह्यं चक्षुषा दुश्यो न च सर्वैरपीन्द्रियैः ।
मनसा तु प्रदीप्तेन महानात्मा प्रकशते ॥१७॥

अशब्दस्पर्शरूपं तच्च(च्चा)रसागन्धमव्ययम् ।
अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम् ॥१८॥

अव्यक्तं सर्वदेहेषु मर्त्येषु परमार्चितम् ।
योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयतः ॥१९॥

विद्याविनयसंपन्नब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥२०॥

स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च ।
वसत्येको महानात्मा येन सर्वमिदं ततम् ॥२१॥

सर्वभूतेषु चाऽऽत्मानं सर्वभूतानि चाऽऽत्मनि ।
यदा पश्यति भूतात्मा ब्रह्म संपद्यते तदा ॥२२॥

यावानात्मनि वेदाऽऽत्मा तावानात्मा परात्मनि ।
य एवं सततं वेद सोऽमृतत्वाय कल्पते ॥२३॥

सर्वभूतात्मभूतस्य सर्वभूतहितस्य च ।
देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥२४॥

शकुन्तानामिवाऽऽकाशे मत्स्यानामिव चोदके ।
यथा गतिर्न दृश्येन तथा ज्ञानविदां गतिः ॥२५॥

कालः पचति भूतानि सर्वाण्येवाऽऽत्मनाऽऽत्मनि ।
यस्मिस्तु पच्यते कालस्तन्न वेदेह कश्चन ॥२६॥

न तदुर्ध्वं न तिर्यक्च नाधो न च पुनः पुनः ।
न मध्ये प्रतिगृह्‌णीते नैव किंचिन्न कश्चन ॥२७॥

सर्वे तत्स्था इमे लोका बाह्यमेषां न किंचन ।
यद्यप्यग्रे समागच्छेद्यता बाणो गुणच्युतः ॥२८॥

नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः ।
तस्मात्सूक्ष्मतरं नास्ति नास्ति स्थूलतरं तथा ॥२९॥

सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥३०॥

तदेवाणोरणुतरं तन्महद्‌भ्यो महत्तरम् ।
तदन्तः सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते ॥३१॥

अक्षरं च क्षरं चैव द्वेधा भावोऽयमात्मनः ।
क्षकः सर्वेषु भूतेषु दिव्यं त्वमृतमक्षरम् ॥३२॥

नवद्वारं पुरं कृत्वा हंसो हि नियतो वशी ।
ईदृशः सर्वभूतस्य स्थावरस्य चरस्य च ॥३३॥

हानेनाभिविकल्पानां नराणां संचयेन च ।
शरीराणामजस्याऽऽहुर्हंसत्वं पारदर्शिनः ॥३४॥

हंसोक्तं च क्षरं चैव कूटस्थं यत्तदक्षरम् ।
तद्विद्वानक्षरं प्राप्य जहाति प्राणजन्मनी ॥३५॥

व्यास उवाच
भवतां पृच्छतां विप्रा यथावदिह तत्त्वतः ।
सांख्यं ज्ञानेन संयुक्तं तदेतत्कीर्तितं मया ॥३६॥

योगकृत्यं तु भो विप्राः कीर्तयिष्याम्यतः परम् ।
एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ॥३७॥

आत्मनो व्यापिनो ज्ञानं ज्ञानमेतदत्तुमम् ।
तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना ॥३८॥

आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा ।
योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः ॥३९॥

कामं क्रोदं च लोभं च भयं स्वप्नं पञ्चमम् ।
क्रोधं शमेन जयति कामं संकल्पवर्जनात् ॥४०॥

सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति ।
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ॥४१॥

चक्षुः श्रोत्रं च मनसा मनो वाचं च कर्मणा ।
अप्रमादाद्भयं जह्यद्दम्भं प्राज्ञोपसेवनात् ॥४२॥

एवमेतान्योगदोषाञ्जयेन्नित्यमतन्द्रितः ।
अग्नींश्च ब्राह्मणांश्चाथ देवताः प्रणमेत्सदा ॥४३॥

वर्जयेदुद्धतां वाचं हिंसायुक्तां मनोनुगाम् ।
ब्रह्मतेजोमयं शुक्रं यस्य सर्वमिदं जगत् ॥४४॥

एतस्य भूतभूतस्य दृष्टं स्थावरजङ्गमम् ।
ध्यायनमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ॥४५॥

शौचं चैवाऽऽत्मनः शुद्धिरिन्द्रयाणां च निग्रहः ।
एतैर्विवर्घते तेजः पाप्मानं चापकर्षति ॥४६॥

समः सर्वेषु भूतेषु लभ्यालभ्येन वर्तयन्
धूतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः ॥४७॥

तामत्रधौ वशे कृत्वा निषेवेद्‌ब्रह्मणः पदम् ।
मनसश्चेन्द्रियाणां च कृत्वैकाग्रयं समाहितः ॥४८॥

पूर्वरात्रे परार्धे च धारयेन्मन आत्मनः ।
जन्तोः पञ्चेन्द्रियस्यास्य यद्येकं क्लिन्नमिन्द्रियम् ॥४९॥

ततोऽस्य स्रवति प्रज्ञा गिरेः पादादिवोदकम् ।
मनसः पूर्वमादद्यात्कूर्माणामिव मत्स्यहा ॥५०॥

ततः श्रोत्रं ततश्चक्षुर्जिह्‌वा घ्राणं च योगवित् ।
तत एतानि संयम्य मनसि स्थापयेद्यदि ॥५१॥

तथैवापोह्य संकल्पान्मनो ह्यात्मनि धारयेत् ।
पञ्चेन्द्रियाणि मनसि हृदि संस्थापयेद्यदि ॥५२॥

यदैतान्यवतिष्ठन्ते मनः षष्ठानि चाऽऽत्मनि ।
प्रसीदन्ति च संस्थायां तदा ब्रह्म प्रकाशते ॥५३॥

विधूम इव दीप्तार्चिरागत्य इव दीप्तिमान् ।
वैद्युतोऽग्निरिवाऽऽकाशे पश्यन्त्यात्मानमात्मनि ॥५४॥

सर्व तत्र तु सर्वत्र व्यापकत्वाच्च दृश्यते ।
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः ॥५५॥

धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः ।
एवं परिमितं कालमाचरन्संशितव्रतः ॥५६॥

आसीनो हि रहस्येको गच्छेदक्षरसाम्यताम् ।
प्रमोहो भ्रम आवर्तो घ्राणं श्रवणदर्शने ॥५७॥

अद्‌भुतानि रसः स्पर्शः शीतोष्णमारुताकृतिः ।
प्रतिभानुपसर्गाश्च प्रतिसंगृह्य योगतः ॥५८॥

तांस्तत्त्वविदनादृत्य साम्येनैव निवर्तयेत् ।
कुर्यात्परिचयं योगे त्रैलोक्ये नियतो मुनिः ॥५९॥

गिरिश्रृङ्गे तथा चैत्ये वृक्षमूलेषु योजयेत् ।
संनियम्येन्द्रियग्रामं कोष्ठे भाण्डमना इव ॥६०॥

एकाग्रं चिन्तयेन्नित्यं योगान्नोद्विजते मनः ।
येनोपयेन शक्येत नियन्तुं चञ्चलं मनः ॥६१॥

तत्र युक्तो निषेवेत न चैव विचलेत्ततः ।
शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत् ॥६२॥

नातिव्रजेत्परं वाचा कर्मणा मनसाऽपि वा ।
उपेक्षको यथाहारो लब्धालब्धसमो भवेत् ॥६३॥

यश्चैनमभिनन्देत यश्चैनमभिवादयेत् ।
समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम् ॥६४॥

न प्रहृष्येन लाभेषु नालाभेषु च चिन्तयेत् ।
समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः ॥६५॥

एवं स्वस्थात्मनः साधोः सर्वत्र समदर्शिनः ।
षण्मासान्नित्ययुक्तस्य शब्दब्रह्मभिवर्तते ॥६६॥

वेदनार्तान्परान्दृष्ट्वा समलष्टाश्मकाञ्चनः ।
एवं तु निरतो मार्गं विरमेन्न विमीहितः ॥६७॥

अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्‌क्षिणी ।
तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ॥६८॥

अजं पुराणमजरं सनातनं, यमिन्द्रियातिगमगोचरं द्विजाः ।
अवेक्ष्य चेमां परमेष्ठिसाम्यतां, प्रयान्त्यनावृत्तिगतिं मनीषिणः ॥६९॥

इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे सांख्ययोगनिरूपणं नाम पञ्चत्रिंशदधिकद्विशततमोध्यायः ॥२३६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:46.6770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

diapendesis

  • न. Zool. (pl. diapedeses) (in Vertebrata, the passage of blood-leucocytes through the walls of blood-vessels into the surrounding tissues) रक्तस्यंदन 
RANDOM WORD

Did you know?

हिंदू धर्मात ३३ कोटी देवता आहेत काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site