TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २३८

ब्रह्मपुराणम् - अध्यायः २३८

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २३८
गुणसर्जनकथनम्
व्यास उवाच
सृजते तु गुणान्सत्त्वे क्षेत्रज्ञस्त्वधितिष्ठति ।
गुणान्विक्रियतः सर्वानुदासीनवदीश्वरः ॥१॥

स्वभावयुक्तं तत्सर्वं यदिमान्सृजते गुणान् ।
ऊर्णनाभिर्यथा सूत्रं सृजते तद्‌गुणांस्तथा ॥२॥

प्रवृत्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते ।
एवमेक व्यवस्यन्ति निवृत्तिमिति चापरे ॥३॥

उभयं संप्रधार्यैतदध्यवस्येद्यथामति ।
अनेनैव विधानेन भवेद्वै संशयो महान् ॥४॥

अनादिनिधनो ह्यात्मा तं बुद्‌ध्वा विहरेन्नरः ।
अक्रुध्यन्नप्रहृष्यंश्च नित्यं विगतमत्सरः ॥५॥

इत्येवं हृदये सर्वो बुद्धिचिन्तामयं दृढम् ।
अनित्यं सुखमासीनमशोच्यं छिन्नसंशयः ॥६॥

तरयेत्प्रच्युतां पृथ्वीं यथा पूर्णां नदीं नराः ।
अवगाह्य च विद्वांसो विप्रा लोलमिमं तथा ॥७॥

न तु तप्यति वै विद्वान्स्थले चरति तत्त्ववित् ।
एवं विचिन्त्य चाऽऽत्मानं केवलं ज्ञानमात्मनः ॥८॥

तां(तं)तु बुद्‌ध्वा नरः सर्गं भूतानामागतिं गतिम् ।
समचेष्टश्च वै सम्यग्लभते शममुत्तमम् ॥९॥

एतद्‌द्विजन्मसामग्य्रं ब्राह्मणस्य विशेषतः ।
आत्मज्ञानसमस्नेहपर्याप्तं तत्परायणम् ॥१०॥

त्वं बुद्‌ध्वा भवेद्‌बुद्धः किमन्यद्‌बुद्धलक्षणम् ।
विज्ञायैतद्विमुच्यन्ते कृतकृत्या मनीषिणः ॥११॥

न भवति विदुषां महद्भयं, यदविदुषां सुमहद्भयं परत्र ।
न हि गतिरधिकाऽस्ति कस्यचिद्भवति हि या विदुषः सनातनी ॥१२॥

लोके मातरमसूयते नरस्तत्र देवमनिरीक्ष्य शोचते ।
तत्र चेत्कुशलो न शोचते, ये विदुस्तदुभयं कृताकृतम् ॥१३॥

यत्करोत्यनभिसंधिपूर्वकं, तच्च निन्दयति यत्पुरा कृतम् ।
यत्प्रियं तदुभयं न वाऽप्रियं, तस्य तज्जनयतीह कुर्वतः ॥१४॥

मुनय ऊचुः
यस्माद्वर्मात्परो धर्मो विद्यते नेह कश्चन ।
यो विशिष्टश्च भूतेभ्यस्तद्भवान्प्रब्रवीतु नः ॥१५॥

व्यास उवाच
धर्मं च संप्रवक्ष्यामि पुराणमृषिभिः स्तुतम् ।
विशिष्टं सर्वधर्मेभ्यः श्रृणुध्वं मुनिसत्तमाः ॥१६॥

इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य तत्त्वतः ।
सर्वतः प्रसृतानीह पिता बालानिवाऽऽत्मजान् ॥१७॥

मनसश्चेन्द्रियाणां चाप्यैकाग्रयं परमं तपः ।
विज्ञेयः सर्वधर्मेभ्यः स धर्मः पर उच्यते ॥१८॥

तानि सर्वाणि संधाय मनः षष्ठानि मेधया ।
आत्मतृप्तः स एवाऽऽसीद्‌बहुचिन्त्यमचिन्तयन् ॥१९॥

गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि ।
तदा चैवाऽऽत्मनाऽऽत्मानं परं द्रक्ष्यथ शाश्वतम् ॥२०॥

सर्वात्मानं महात्मानं विधूममिव पावकम् ।
प्रपश्यन्ति महात्मानं ब्राह्मणा ये मनीषिणः ॥२१॥

यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः ।
आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम् ॥२२॥

एवमात्मा न जानीते क्व गमिष्ये कुतोऽन्वहम् ।
अन्यो ह्यस्यान्तरात्माऽस्ति यः सर्वमनुपश्यति ॥२३॥

ज्ञानदीपेन दीप्तेमन पश्यत्यात्मानमात्मना ।
दृष्ट्वाऽऽत्मानं तथा यूयं विरागा भवत द्विजाः ॥२४॥

विमुक्ताः सर्वपापेभ्यो मुक्तत्वच इवोरगाः ।
परां बुद्धिमवाप्येहाप्यचिन्ता विगतज्वराः ॥२५॥

सर्वतः स्रोतसं घोरां नदीं लोकप्रवाहिणीम् ।
पञ्चेन्द्रियग्राहवतीं मनःसंकल्परोधसम् ॥२६॥

लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम् ।
सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम् ॥२७॥

अव्यक्तप्रभवां शीघ्रां कामक्रोधसमाकुलाम् ।
प्रतरध्वं नदीं बुद्ध्या दुस्तरामकृतात्मभिः ॥२८॥

संसारसागरगमां योनिपातालदुस्तराम् ।
आत्मजन्मोद्‌भवां तां तु जिह्‌वावर्तदुरासदाम् ॥२९॥

यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः ।
तां तीर्णः सर्वतो मुक्तो विधूतात्माऽऽत्मवाञ्शुचिः ॥३०॥

उत्तमां बुद्धिमास्थाय ब्रह्मभूयाय कल्पते ।
उत्तीर्णः सर्वसंक्लेशान्प्रसन्नात्मा विक्लमषः ॥३१॥

भूयिष्ठानीव भूतानि सर्वस्थानान्निरीक्ष्य च ।
अक्रुध्यन्नप्रसीदंश्च ननृशंसमतिस्तथा ॥३२॥

ततो द्रक्ष्यथ सर्वेषां भूतानां प्रभवाप्ययात् ।
एतद्वि सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः ॥३३॥

धर्मं धर्मभृतां श्रेष्ठा मनुयः सत्यदर्शिनः ।
आत्मानो व्यापिनो विप्रा इति पुत्रानुशासनम् ॥३४॥

प्रयताय प्रवक्तव्यं हितायानुगताय च ।
आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत् ॥३५॥

अब्रवं यदहं विप्रा आत्मसाक्षिकमञ्जसा ।
नैव स्त्री न पुमानेवं न चैवेदं नपुंसकम् ॥३६॥

अदुः खमसुखं ब्रह्म भूतभव्यभवात्मकम् ।
यथा मतानि सर्वाणि तथैतानि यथा तथा ।
कथितानि मया विप्रा भवन्ति न भवन्ति च ॥३७॥

यथा मतानि सर्वाणि तथैतानि यथा तथा ।
कथितानि मया विप्रा भवन्ति न भवन्ति च ॥३८॥

तत्प्रीतियुक्तेन गुणान्वितेन, पुत्रेण सत्पुत्रदयान्वितेन ।
दृष्ट्वा हितं प्रीतमना यदर्थं, ब्रूयात्सुतस्येह यदुक्तमेतत् ॥३९॥

मुनय ऊचुः
मोक्षः पितामहेनोक्त उपायान्नानुपायतः ।
तमुपायं यथान्यायं श्रोतुमिच्छामहे मुने ॥४०॥

व्यास उवाच
अस्मासु तन्महाप्राज्ञा युक्तं निपुणदर्शनम् ।
यदुपायेन सर्वार्थान्मृगयध्वं सदाऽनघाः ॥४१॥

घटोपकरणे बुद्धिर्घटोत्पत्तौ न सा मता ।
एवं धर्माद्युपायार्थ नान्यधर्मेषु कारणम् ॥४२॥

पूर्वे समुद्रेयः पन्था न स गच्छति पश्चिमम् ।
एकः पन्था हि मोक्षस्य तच्छृणुध्वं ममानघाः ॥४३॥

क्षमया क्रोधमुच्छिन्द्यात्कामं संकल्पवर्जनात् ।
सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति ॥४४॥

अप्रमादाद्भयं रक्षेद्रक्षेत्क्षेत्रं च संविदम् ।
इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत् ॥४५॥

निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् ।
उपद्रवांस्तथा योगी हितजीर्णमिताशनात् ॥४६॥

लोभं मोहं च संतोषाद्विषयांस्तत्त्वदर्शनात् ।
अनुक्रोशादधर्मं च जयेद्धर्ममुपेक्षया ॥४७॥

आयत्या च जयेदाशां सामर्थ्यं सङ्गवर्जनात् ।
अनित्यत्वेन च स्नेहं क्षुधां योगेन पण्डितः ॥४८॥

कारुण्येनाऽऽत्मनाऽऽत्मानं तृष्णां च परितोषतः ।
उत्थानेन जयेत्तन्द्रां वितर्कं निश्चयाज्जयेत् ॥४९॥

मौनेन बहुभाषां च शौर्येण च भयं जयेत् ।
यच्छेद्वाङ्मनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा ॥५०॥

ज्ञानमात्मा महान्यच्छेत्तं यच्छेच्छान्तिरात्मनः ।
तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा ॥५१॥

योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः ।
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ॥५२॥

परित्यज्य निषेवेत यथावद्योगसाधनात् ।
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ॥५३॥

शौचमाचारतः शुद्धिरिन्द्रियाणां च संयमः ।
एतैर्विवर्धते तेजः पाप्मानमुपहन्ति च ॥५४॥

सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते ।
धूतपातः स तेजस्वी लघ्वाहारो जितेन्द्रियः ॥५५॥

कामक्रोधौ वशे कृत्वा निर्विशेद्‌ब्रह्मणः पदम् ।
अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम् ॥५६॥

अदैन्यमनुदीर्णत्वमनुद्वेगो ह्यवस्थितिः ।
एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः ॥
तथा वाक्कायमनसां नियमाः कामतोऽव्ययाः ॥५७॥

इति श्रीमहापुराणे आदिब्राह्मे सांख्ययोगनिरूपणं नाम अष्टात्रिंशदधिकद्विशततमोऽध्यायः ॥२३८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:46.7870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

stephanokontan

  • Bot. किरीट कशाभिक 
RANDOM WORD

Did you know?

हल्ली महिला पौरोहित्य करतात हे धर्मसंमत आहे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site