TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २१४

ब्रह्मपुराणम् - अध्यायः २१४

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २१४
नरकवर्णनम्
मुनय ऊचुः
न तृप्तिमधिगच्छामः पुण्यधर्मामृतस्य च ।
मुने त्वन्मुखगीतस्य तथा कौतूहलं हि नः ॥१॥

उत्पत्तिं प्रलयं चैव भूतानां कर्मणो गतिम् ।
वेत्सि सर्वं मुने तेन पृच्छामस्त्वां महामतिम् ॥२॥

श्रूयते यमलोकस्य मार्गः परमदुर्गमः ।
दुःखक्लेशकरः शश्वत्सर्वभूतभयावहः ॥३॥

कथं तेन नरा यान्ति मार्गेण यमसादनम् ।
प्रमाणं चैव मार्गस्य ब्रूहि नो वदनां वर ॥४॥

मुने पृच्छाम सर्वज्ञ ब्रूहि सर्वमशेषतः ।
कथं नरकदुःखानि नाऽऽप्नुवन्ति नरान्मुने ॥५॥

केनोपायेन दानेन धर्मेण नियमेन च ।
मानुषस्य च याम्यस्य लोकस्य कियदन्तरम् ॥६॥

कथं च स्वर्गतिं यान्ति नरकं केन कर्मणा ।
स्वर्गस्थानानि कियन्ति कियन्ति नरकाणि च ॥७॥

कथं सुकृतिनो यान्ति कथं दुष्कृतकारिणः ।
किं रूपं किं प्रमाणं वा को वर्णस्तूभयोरपि ॥
जीवस्य नीयमानस्य यमलोकं ब्रवीहि नः ॥८॥

व्यास उवाच
शृणुध्वं मुनिशार्दूला वदतो मम सुव्रताः ।
संसारचक्रमजरं स्थितिर्यस्य न विद्यते ॥९॥

सोऽहं वदामि वः सर्वं यममार्गस्य निर्णयम् ।
उत्क्रान्तिकालादारभ्य यथा नान्यो वदिष्यति ॥१०॥

स्वरूपं चैव मार्गस्य यन्मां पृच्छथ सत्तमाः ।
यमलोकस्य चाध्वानमन्तरं मानुषस्य च ॥११॥

योजनानां सहस्राणि षडशीतिस्तदन्तरम् ।
तप्तताम्रमिवाऽऽतप्तं तदध्वानमुदाहृतम् ॥१२॥

तदवश्यं हि गन्तव्यं प्रामिभिर्जीवसंज्ञकैः ।
पुण्यान्पुण्यकृतो यान्ति पापान्पापकृतोऽधमाः ॥१३॥

द्वाविंशतिश्च नरका यमस्य विषये स्थिताः ।
येषु दुष्कृतकर्माणो विपच्यन्ते पृथक्पृथक् ॥१४॥

नरको रौरवो रौद्रः शूकरस्ताल एव च ।
कुम्भीपाको महाघोरः शाल्मलोऽथ विमाहनः ॥१५॥

कीटादः कृमिभक्षश्च ना(ला)लाभक्षो भ्रमस्तथा ।
नद्यः पूयवहाश्चान्या रुधिराम्भस्तथैव च ॥१६॥

अग्निज्वाला महाघोरः संदंशः शुनभोजनः ।
घोरा वैतरणी चैव असिपत्रवनं तथा ॥१७॥

न तत्र वृक्षच्छाया वा न तडागाः सरांसि च ।
न वाप्यो दीर्घिका वाऽपि न कूपो न प्रपा सभा ॥१८॥

न मण्डपो नाऽऽयतनं न नद्यो न च पर्वताः ।
न किंचिदाश्रमस्थानं विद्यते तत्र वर्त्मनि ॥१९॥

यत्र विश्रमते श्रान्तः पुरुषोऽतीवकर्षितः ।
अवश्यमेव गन्तव्यः स सर्वैस्तु महापथः ॥२०॥

प्राप्ते काले तु संत्यज्य सुहृद्‌बन्धुधनादिकम् ।
जरायुजाण्डजाश्चैव स्वेदजाश्चोद्‌भिजास्तथा ॥२१॥

जङ्गमाजङ्गमाश्चैव गमिष्यन्ति महापथम् ।
देवासुरमनुष्यैश्च वैवस्वतवशानुगैः ॥२२॥
स्त्रीपुंनपुंसकैश्चैव पृथिव्यां जीवसंज्ञितैः ।
पूर्वाह्‌णे चापराह्‌णे वा मध्याह्ने वा तथा पुनः ॥२३॥

संध्याकालेऽर्धरात्रे वा प्रत्यूषे वाऽप्युपस्तिते ।
वृद्धैर्वा मध्यमैर्वाऽपि यौवनस्थैस्तथैव च ॥२४॥

गर्भवासेऽथ बाल्ये वा गन्तव्यः स महापथः ।
प्रवासस्थैगृर्हस्थैर्वा पर्वतस्थैः स्थलेऽपि वा ॥२५॥

क्षेत्रस्तैर्वा जलस्थैर्वा गृहमध्यगतैस्तथा ।
आसीनैश्चास्थितैर्वापि शयनीयगतैस्तथा ॥२६॥

जाग्रद्‌भिर्वा प्रसुप्तैर्वा गन्तव्यः स महापथः ।
इहानुभूय निर्दिष्टमायुर्जन्तुः स्वयं तदा ॥२७॥

तस्यान्ते च स्वयं प्राणैरनिच्छन्नपि मुच्यते ।
जलमग्निर्विषं शस्त्रं क्षुद्‌व्याधिः पतनं गिरेः ॥२८॥

निमित्तं किंचिदासाद्य देही प्राणैर्विमुच्यते ।
विहाय सुमहत्कृत्स्नं शरीरं पाञ्चभौतिकम् ॥२९॥

अन्यच्छरीरमादत्ते यातनीयं स्वकर्मजम् ।
दृढं शरीरमाप्नोति सुखदुःखोपभुक्तये ॥३०॥

तेन भुङ्क्ते स कृच्छ्राणि पापकर्ता नरो भृशम् ।
सुखानि धार्मिको हृष्ट इह नीतो यमक्षये ॥३१॥

ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।
भीनत्ति मर्मस्थानानि दीप्यमानो निरन्धनः ॥३२॥

उदानो नाम पवनस्ततश्चोर्ध्वं प्रवर्तते ।
भुज्यता(क्ताना)मम्बुभक्ष्याणामधोगतिनिरोधकृत् ॥३३॥

ततो येनाम्बुदानानि कृतान्यन्नरसास्तथा ।
दत्ताः स तस्यामाह्लादमापदि प्रतिपद्यते ॥३४॥

अन्नानि येन दत्तानि श्रद्धापूतेन चेतसा ।
सोऽपि तृप्तिमवाप्नोति विनाऽप्यन्नेन वै तदा ॥३५॥

येनानृतानि नोक्तानि प्रीतिभेदः कृतो न च ।
आस्तिकः श्रद्दधानश्च सुखमृत्युं स गच्छति ॥३६॥

देवब्राह्मणपूजायां निरताश्चानसूयकाः ।
शुक्ला वदान्या ह्रीमन्तस्ते नराः सुखमृत्यवः ॥३७॥

यः कामान्नापि संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ।
यथोक्तकारी सौम्यश्च स सुखं मृत्युमृच्छति ॥३८॥

वारिदास्तृषितानां ये क्षुधितान्नप्रदायिनः ।
प्राप्नुवन्ति नराः काले मृत्युं सुखसमन्वितम् ॥३९॥

शीतं जयन्ति धनदास्तापं चन्दनदायिनः ।
प्राणघ्नीं वेदनां कष्टां ये चान्योद्वेगधारिणः ॥४०॥

मोहं ज्ञानप्रदातारस्तथा दीपप्रदास्तमः ।
कूटसाक्षी मृषावादी यो गुरुर्नानुशास्ति वै ॥४१॥

ते मोहमृत्यवः सर्वे तथा ये वेदनिन्दकाः ।
विभिषीणाः पूतिगन्धाः कूटमुद्‌गरपाणयः ॥४२॥

आगच्छन्ति दुरात्मानो यमस्य पुरुषास्तथा ।
प्राप्तेषु दृक्पथं तेषु जायते तस्य वेपथुः ॥४३॥

क्रन्दत्यविरतः सोऽथ भ्रातृमातपितॄस्तथा ।
सा तु वागस्फुटा विप्रा एकवर्णा विभाव्यते ॥४४॥

दृष्टिर्विभ्राम्यते त्रासात्कासावृष्ट्यत्य(विष्टम)थाऽऽननम् ।
ततः स वेदनाविष्टं तच्छरीरं विमुञ्चति ॥४५॥

वाय्वग्रसारी तद्रूपदेहमन्यत्प्रपद्यते ।
तत्कर्मयानतार्थे च न मातृपितृसंभवम् ॥४६॥

तत्प्रमाणवयोवस्थासंस्थानैः प्राप्यते व्यथा ।
ततो दूतो यमस्याथ पाशैर्बध्नाति दारुणैः ॥४७॥

जन्तोः संप्राप्तकालस्य वेदनार्तस्य वै भृशम् ।
भूतैः संत्यक्तदेहस्य कण्ठप्राप्तानिलस्य च ॥४८॥

शरीराच्चयावितो जीवो रोरवीति तथोल्बणम् ।
निर्गतो वायुभूतस्तु षाट्कौशिककलेवरे ॥४९॥

मातृभिः पितृभिश्चैव भ्रातृभिर्मातुलैस्तथा ।
दारैः पुत्रर्वयस्यैश्च गुरुभिस्त्यज्यते भुवि ॥५०॥

दृश्यमानश्च तैर्दीनैरश्रुपूर्णेक्षणैर्भृशम् ।
स्वशरीतं समुत्सृज्य वायुभूतस्तु गच्छति ॥५१॥

अन्धकारमपारं च महाघोरं तमोवृतम् ।
सुखदुःप्रदातारं दुर्गमं पापकर्मणाम् ॥५२॥

दुःसहं च दुरन्तं च दुर्निरीक्षं दुरासदम् ।
दुरापमतिदुर्गं च पापिष्ठानां सदाऽहितम् ॥५३॥

कृष्यमाणाश्च तैर्भूतैर्याम्यैः पाशैस्तु संयताः ।
मुद्‌गरैस्ताड्यमानाश्च नीयन्ते तं महापथम् ॥५४॥

क्षीणायुषं समालोक्य प्राणिनं चाऽऽयुषक्षये ।
निनीषवः समायान्ति यमदूता भयङ्कराः ॥५५॥

आरुढा यानकाले तु ऋक्षव्याघ्रखरेषु च ।
उष्ट्रेषु वानरेष्वन्ये वृश्चिकेषु वृकेषु च ॥५६॥

उलूकसर्पमार्जारं तथाऽन्ये गृध्रवाहनाः ।
श्येनशृगालमारूढाः सरघाकङ्कवाहनाः ॥५७॥

वराहपशुवेतालमहिषास्यास्तथा परे ।
नानारूपधरा घोराः सर्पप्राणिभयंकराः ॥५८॥

दीर्घमुष्काः करालास्या वक्रनासास्त्रिलोचनाः ।
महाहनुकपोलास्याः प्रलम्बदशनच्छदाः ॥५९॥

निर्गतैर्विकृताकारैर्दशनैरङ्कुरोपमैः ।
मांसशोणितदिग्धाङ्गा दंष्ट्राभिर्भृशमुलबणैः ॥६०॥

मुखैः पातालसदृशैर्ज्वलज्जिह्‌वैर्भयंकरैः ।
नेत्रैः सुविकृताकारैर्ज्वलत्पिङ्गलचञ्चलैः ॥६१॥

मार्जारोलूकखद्योतशक्रगोपवदुद्धतैः ।
केकरैः संकुलैस्तब्धैर्लोचनैः पावकोपमैः ॥६२॥

भृशमाभरणैर्भीमैराबद्धैर्भुजगोपमैः ।
शोणासरलगात्रैश्च मुण्डमालाविभूषितैः ॥६३॥

कण्ठस्थकृष्णसपैश्च फूत्काररवभीषणैः ।
वह्निज्वालोपमैः केशैस्तब्धरूक्षैर्भयंकरैः ॥६४॥

बभ्रुपिङ्गललोलैश्च कद्रुश्मश्रुभिरावृताः ।
भुजदण्डैर्महाघोरैः प्रलम्बैः परिघोपमैः ॥६५॥

केचिद् द्विबाहवस्तत्र तथाऽन्ये च चतुर्भुजाः ।
द्विरष्टबाहवश्चान्ये दशविंशभुजास्तथा ॥६६॥

असंख्यातभुजाश्चानये केचिद्‌बाहुमसहस्रिणः ।
आयुधैर्विकृताकारैः प्रज्वलद्‌भिर्भयानकैः ॥६७॥

शक्तितोमरचक्राद्यैः सुदीप्तैर्विविधायुधैः ।
पाशश्रृंखलदण्डैश्च भीषयन्तो महाबलाः ॥६८॥

आगच्छन्ति महारौद्रा मर्त्यानामायुषः क्षये ।
ग्रहीतुं प्राणिनः सर्वं यमस्याऽऽज्ञाकरास्तथा ॥६९॥

यत्तच्छरीरमादत्ते यातनीयं स्वकर्मजम् ।
तदस्य नीयते जन्तोर्यमस्य सदनं प्रति ॥७०॥

बद्‌ध्वा तत्कालपाशैश्च निगडैर्वज्रश्रृङ्खलैः ।
ताडयित्वा भृशं क्रुद्धैर्नीयते यमकिंकरैः ॥७१॥

प्रस्खलन्तं रुदन्तं च आक्रोशन्तं मुहुर्मुहुः ।
हा तात पुत्रेति वदन्तं कर्मदूषितम् ॥७२॥

आहत्य निशितैः शूलैर्मुद्‌गरैर्निशितैर्घनैः ।
खड्गाशक्तिप्रहारैश्च वज्रदण्डैः सुदारुणैः ॥७३॥

भर्त्स्यमानो महारावैर्वज्रशक्तिसमन्वितैः ।
एकैकशो भृशं क्रुद्धैस्ताडयद्‌भिः समन्ततः ॥७४॥

स मुह्यमानो दुःखार्तः प्रतपंश्च इतस्ततः ।
आकृष्य नीयते जन्तुरध्वानं सुभयंकरैः ॥७५॥

कुशकण्टकवल्मीकशङ्कुपाषाणशर्करे ।
तथा प्रदीप्तज्वलने क्षारवज्रशतोऽकटे ॥७६॥

प्रदीप्तादित्यतप्तेन दह्यमानस्तदंशुभिः ।
कृष्यते यमदूतैश्च शिवासंनादभीषणैः ॥७७॥

विकृष्यमाणस्तैर्घोरैर्भक्ष्यमाणः शिवशतैः ।
प्रयाति दारुणे मार्गे पापकर्मा यमालयम् ॥७८॥

क्वचिद्भीतैः क्वचित्त्रस्तैः प्रस्खलद्‌भिः क्वचित्क्वचित् ।
दुःखेनाऽक्रनाऽक्रन्दमानैश्च गन्तव्यः स महापथः ॥७९॥

निर्भर्त्स्यमानैरुद्विग्नैर्विद्रुतैर्भयविह्‌वलैः ।
कम्पमानशरीरैस्तु गन्तव्यं जीवसंज्ञकैः ॥८०॥

कष्टकाकीर्णमार्गेण संतप्तसिकतेन च ।
दह्यमानैस्तु गन्तव्यं जीवसंज्ञकैः ॥८१॥

मेदःशोणितदुर्गन्धैर्बस्तगात्रैश्च पुगशः ।
दग्धस्फुटत्वचाऽऽकीर्णैर्गन्तव्यं जीवघातकैः ॥८२॥

कूजद्‌भिः क्रन्दमानैश्च विक्रोशद्‌भिश्च विस्वरम् ।
वेदनार्तैश्च सद्‌भिश्च गन्तव्यं जीवघातकैः ॥८३॥

शक्तिभिर्भिन्दिपालैश्च खड्गतोमरसायकैः ।
भिद्यद्भिस्तीक्ष्णशूलाग्रैर्गन्तव्यं जीवघातकैः ॥८४॥

श्वानैर्व्याघ्रैर्वृकैः कङ्कैर्भक्ष्यमाणैश्च पापिभिः ॥८५॥

कृन्तद्‌भिः क्रकचाघतैर्गन्तव्यं मांसखादिभिः ।
महिषर्षभशृङ्गाग्रैर्भिद्यमानैः समन्ततः ॥८६॥

उल्लिखद्भिः शूकरैश्च गन्तव्यं मांसखादकैः ।
सूचीभ्रमरकाकोलमक्षिकाभिश्च संघशः ॥८७॥

भुज्यमानैस्च गन्तव्यं पापिष्ठैर्मधुघातकैः ।
विश्वस्तं स्वामिनं मित्रं स्त्रियं वा यस्तु घातयेत् ॥८८॥

शस्त्रैर्निकृत्यमानैश्च गन्तव्यं चातुरैर्नरैः ।
घातयन्ति च ये जन्तूंस्ताडयन्ति निरागसः ॥८९॥

राक्षसैर्भक्ष्यमाणास्ते यान्ति याम्यपथं नराः ।
ये हरन्ति परस्त्रीणां वरप्रावरणानि च ॥९०॥

ते यान्ति विद्रुता नग्नाः प्रेतीभूता यमालयम् ।
वासो धान्यं हिरण्यं वा गृहक्षेत्रमथापि वा ॥९१॥

ये हरन्ति दुरात्मानः पापिष्ठाः पापकर्मिणः ।
पाषाणैर्लगुडैर्दण्डैस्ताड्यमानैस्तु जर्जरैः ॥९२॥

हद्भिः शोणिनं भूरि गन्तव्यं तु यमालयम् ।
ब्रह्मास्वं ये हरन्तीह नरा नरकनिर्भयाः ॥९३॥

ताडान्ति तथा विप्रानाक्रोशन्ति नराधमाः ।
शुष्ककाष्ठनिबद्धास्ते धिन्नकर्णाक्षिनासिकाः ॥९४॥

पूयशोणितदिग्धास्ते कालगृधैश्च जम्बुकैः ।
किंकरैर्भीषणैश्चण्डैस्ताड्यमानाश्च दारुणैः ॥९५॥

विक्रोशमाना गच्छन्ति पापिनस्ते यमालयम् ।
एवं परमदुर्धर्षमध्वानं ज्वलनप्रभम् ॥९६॥

रौरवं दुर्गविषमं निर्दिष्टं मानुषस्य च ।
प्रतप्तताम्रवर्णाभं वह्निज्वालास्फुलिङ्गवत् ॥९७॥

कुरण्टकण्टकाकीर्णं पृथुविकटताडनैः ।
शक्तिवज्रैश्च संकीर्णमुज्ज्वलं तीव्रकण्टकम् ॥९८॥

अङ्गारवालुकामिश्रं वहिनकीटकदुर्गमम् ।
ज्वालामालाकुलं रौद्रं सूर्यरश्मिप्रतापितम् ॥९९॥

अध्वानं नीयते देही कृष्यमाणः सुनिष्ठुरैः
यदैव क्रन्दते जन्तुर्दुःखार्तः पतितः क्वचित् ॥१००॥

तदैवाऽऽहन्यते सर्वैरायुधैर्यमकिंकरैः ।
एवं संताड्यमानश्च लुब्धः पापेषु योऽनयः ॥१०१॥

अवशो नीयते जन्तुर्दुर्धरैर्यमकिंकरैः ।
सवैरेव हि गन्तव्यमध्वानं तत्सुदुर्गमम् ॥१०२॥

नीयते विविधैर्घोरैर्यमदूतैरवज्ञया ।
नीत्वा सुदारुणं मार्गं प्राणिनं यमकिंकरैः ॥१०३॥

प्रवेश्यते पुरीं घोरं ताम्रायसमयीं द्विजाः ।
सा पुरी विपुलाकारा लक्षयोजनमायता ॥१०४॥

चतुर्स्रा विनिर्दिष्टा चतुर्द्वारवती शुभा ।
प्राकाराः काञ्चनास्तस्या योजनायुतमुच्छ्रिताः ॥१०५॥

इन्द्रनीलमहानीलपद्‌मरागोपशोभिता ।
सा पुरी विविधैः संघैर्घोरा घोरैः समाकुला ॥१०६॥

देवदानगन्धर्वैर्यक्षराक्षसपन्नगैः ।
पूर्वर्द्वारं शुभं तस्याः पताकाशतशोभितम् ॥१०७॥

वज्रेन्द्रनीलवैदूर्यमुक्ताफलविभूषितम् ।
गीतनृत्यैः समाकीर्णं गन्धर्वाप्सरसां गणैः ॥१०८॥

प्रवेशस्तेन देवानामृषीणां योगिनां तथा ।
गन्धर्वसिद्धयक्षाणां विद्याधरविसर्पिणाम् ॥१०९॥

उत्तरं नगरद्वारं घण्टाचामरभूषितम् ।
छत्रचामरविन्यासं नानारत्नैरलंकृतम् ॥११०॥

वीणारेणुरवै रम्यैर्गीतमङ्गलनादितैः ।
ऋग्जुःसामनिर्घोषैर्मुनिवृन्दसमाकुलम् ॥१११॥

विशन्ति येन धर्मज्ञाः सत्यव्रतपरायणाः ।
ग्रीष्मे वारिप्रदा ये च शीते चाग्निप्रदा नराः ॥११२॥

श्रान्तसंवाहका ये च प्रियवादरताश्च ये ।
ये च दानरताः शूरा मातापितृपराश्च ये ॥११३॥

द्विजशुश्रूषणे युक्ता नित्यं येऽतिथिपूजकाः ।
पश्चिमं तु महाद्वारं पुर्या रत्नैर्विभूषितम् ॥११४॥

विचित्रमणिसोपानं तोमरैः समलंकृतम् ।
भेरीमृदङ्गसमनादैः शङ्खकाहलनादितम् ॥११५॥

सिद्धवृन्दैः सदा हृष्टैर्मङ्गलैः प्रणिनादितम् ।
प्रवेशस्तेन हृष्टानां शिवभक्तिमतांनृणाम् ॥११६॥

सर्वतीर्थप्लुता ये च पञ्चाग्नेर्ये च सेवकाः ।
प्रस्थाने ये मृता वीरा मृताः कालंजरे गिरौ ॥११७॥

अग्नौ विपन्ना ये वीराः साधितं वैरनाशकम् ।
ये स्वामिमित्रलोकार्थे गोग्रहे संकुले हता ॥११८॥

ते विशन्ति नराः शूराः पश्चिमेन तपोधनाः ।
पूर्यां तस्या महाघोरं सर्वमत्त्वभयंकरम् ॥११९॥

हाहाकारसमाक्रुष्टं दक्षिणं द्वारमीदृशम् ।
अन्धकारसमायुक्तं तीक्ष्णश्ङ्गैः समन्वितम् ॥१२०॥

कण्टकैर्वृश्चिकैः सर्पैर्वज्रकीटैः सुदुर्गमैः ।
विलुम्पद्भिर्वृकैर्व्याध्रैर्ऋर्क्षैः सिंहैः सजम्बुकैः ॥१२१ ॥
श्वानमार्जारगृध्रैश्च सज्वालकवलैर्मुखैः ।
प्रवेशस्तेन वै नित्यं सर्वेषामपकारिणाम् ॥१२२॥

ये घातयन्ति विप्रान्गा बालं वृद्धं तथाऽऽतुरम् ।
शरणागतं विश्वस्तं स्त्रियं मित्रं निरायुधम् ॥१२२॥

येऽगम्यागामिनो मूढाः परद्रव्यापहारिणः ।
निक्षेपस्यापहर्तारो विषवहिनप्रदाश्च ये ॥१२३॥

परभूमिं गृहं शय्यां वस्त्रालंकारहारिणः ।
पररन्ध्रेषु ये क्रूरा ये सदाऽनृतवादिनः ॥१२४॥

ग्रामराष्ट्रपुरस्थाने महादुःखप्रदा हि ये ।
कूटसाक्षिप्रदादातारः कन्याविक्रयमकारकाः ॥१२६॥

अभक्ष्यभक्षणरता ये गच्छन्ति सुतां स्नुषाम् ।
मातरं पितरं चैवये वदन्ति च पौरुषम् ॥१२७॥

अन्ये ये चैव निर्दिष्टा महापातककारिणः ।
दक्षिणेन तु ते सर्वे द्वारेण प्रविशन्ति वै ॥१२८॥

इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे यमलोकस्य मार्गस्वरूपाख्याननिरूपणं नाम चतुर्दशाधिकद्विशततमोऽध्यायः ॥२१४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:45.5070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

anonaceine

  • ऍनोनॅसीन (न.) (एक प्रकारचे अल्कलॉइड) 
RANDOM WORD

Did you know?

Why the marriages are prohibited within same Gotra?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.