TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २२६

ब्रह्मपुराणम् - अध्यायः २२६

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २२६
मुनिमहेश्वरसंवादे वासुदेवमहिमवर्णनम्
व्यास उवाच
श्रुत्वैवं सा जगन्माता भर्तुर्वचनमादितः ।
हृष्टा बभूव सुप्रीता विस्मिता च तदा द्विजः ॥१॥

ये तत्राऽसन्मुनिवरास्त्रिपुरारेः समीपतः ।
तीर्थयात्राप्रसङ्गेन गतास्तस्मिन्गिरौ द्विजाः ॥२॥

तेऽपि संपूज्य तं देवं शूलपाणिं प्रणम्य च ।
पप्रच्छुः संशयं चैव लोकानां हितकाम्यया ॥३॥

मुनय ऊचुः
त्रिलोचन नमस्तेऽस्तु दक्षक्रतुविनाशन ।
पृच्छामस्त्वां जगन्नाथ संशयं हृदि संस्थितम् ॥४॥

संसारेऽस्मिन्महाघोरे भैरवे लोमहर्षणे ।
भ्रमन्ति सुचिरं कालं पुरुषाश्चाल्पमेधसः ॥५॥

येनोपायेन मुच्यन्ते जन्मसंसारबन्धनात् ।
ब्रूहि तच्छ्रोतुमिच्छामः परं कौतूहलं हि नः ॥६॥

महेश्वर उवाच
कर्मपाशनिबद्धानां नराणां दुःखभागिनाम् ।
नान्योपायं प्रपश्यामि वासुदेवात्परं द्विजाः ॥७॥

वै पूजयन्ति तं देवं शङ्खचक्रगदाधरम् ।
वाङ्मनःकर्मभिः सम्यक्ते यान्ति परमां गतिम् ॥८॥

किं तेषां जीवितेनेह पशुवच्छेष्टितेन च ।
येषां न प्रवणं चित्तं वासुदेवे जगन्मये ॥९॥

पिनाकिन्भगनेत्रघ्न सर्वलोनमस्कृत ।
माहात्म्यं वासुदेवस्य श्रोतुमिच्छामि शंकर ॥१०॥
महेश्वर उवाच
पितामहादपि वरः शाश्वतः पुरुषो हरिः ।
कृष्णो जाम्बूनदाभासो व्यभ्रे सूर्य इवोदितः ॥११॥

दशबाहुर्महातेजा देवातारिनिषूदनः ।
श्रीवत्साङ्को हृषीकेशः सर्वदैवतयूथपः ॥१२॥

ब्रह्मा तस्योदरभवस्तस्याहं च शिरोभवः ।
शिरोरुहेभ्यो ज्योतींषि रोमभ्यश्च सुरासुराः ॥१३॥

ऋषयो देहसंभूतास्तस्य लोकाश्च शाश्वताः ।
पितामहगृहं साक्षात्सर्वदेवगृहं च सः ॥१४॥

सोऽस्याः पृथिव्याः कृत्स्नायाः स्रष्टा त्रिभुवनेश्वरः ।
संहर्ता चैव भूतानां स्थावरस्य चरस्य च ॥१५॥

स हि देवदेवः साक्षा द्देवनाथः परंतपः ।
सर्वज्ञः सर्वसंस्रष्टा सर्वगः सर्वतोमुखः ॥१६॥

न तस्मात्परमं भूतं त्रिषु लोकेषु किंचन ।
सनातनो महाभागो गोविन्द इव विश्रुतः ॥१७॥

स सर्वान्पार्थिवान्संख्ये घातयिष्यति मानदः ।
सुरकार्यार्थमुत्पन्नो मानुष्यं वपुरास्थितः ॥१८॥

न हि देवगणाः शक्तास्त्रिविक्रमविनाकृताः ।
भुवने देवकार्याणि कर्तुं नायकवर्जितः ॥१९॥

नायकः सर्वभूतानां सर्वभूतनमस्कृतः ।
एतस्य देवनाथस्य कार्यस्य च परस्य च ॥२०॥

ब्रह्मभूतस्य सततं ब्रह्मर्षिशरणस्य च ।
ब्रह्मा वसति नाभिस्थः शरीरेऽहं च संस्थितः ॥२१॥

सर्वा सुखं संस्थिताश्च शरीरे तस्य देवताः ।
स देवः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः ॥२२॥

शार्ङ्गचक्रायुधः खड्गी सर्वनागरिपुध्वजः ।
उत्तमेन सुशीलेन शौचेन च दमेन च ॥२३॥

पराक्रमेण वीर्येण वपुषा दर्शनेन च ।
आरोहणप्रमाणेन वीर्येणार्जवसंपदा ॥२४॥

आनृशंस्येन रूपेण बलेन च समन्वितः ।
अस्त्रैः च समुदितः सर्वैर्दिव्यैरद्भुतदर्शनैः ॥२५॥

योगमायासहस्राक्षो विरूपाक्षो महामनाः ।
वाचा मित्रजनश्लाघी ज्ञातिबन्धुजनप्रियः ॥२६॥

क्षमावांश्चानहंवादी स देवो ब्रह्मदायकः ।
भयहर्ता भयार्तानां मित्रानन्दविवर्धनः ॥२७॥

शरण्यः सर्वभूतानां दीनानां पालने रतः ।
श्रुतवानथ संपन्नः सर्वभूतनमस्कृतः ॥२८॥

समाश्रितानामुपकृच्छत्रूणां भयकृत्तथा ।
नीतिज्ञो नीतिसंपन्नो ब्रह्मवादी जितेन्द्रियः ॥२९॥

भवार्थमेव देवानां बुद्‌ध्या परमया युतः ।
प्राजापत्ये शुभे मार्गे मानवे धर्मसंस्कृते ॥३०॥

समुत्पत्स्यति गोविन्दो मनोर्वंशे महात्मनः ।
अंशो नाम मनोः पुत्रो ह्मन्तर्धामा ततः परम् ॥३१॥

अन्तर्धाम्नो हविर्धामा प्रजापतिरनिन्दितः ।
प्राचीनबर्हिर्भविता हविर्धाम्नः सुतो द्विजा ॥३२॥

तस्य प्रचेतः प्रमुखा भविष्यन्ति दशाऽऽत्मजाः ।
प्राचेतसस्तथा दक्षो भवितेह प्रजापतिः ॥३३॥

दाक्षायण्यस्तथाऽऽदित्यो मनुरादित्यतस्ततः ।
मनोश्च वंशज इला सुद्युम्नश्च भविष्यति ॥३४॥

बुधात्पुरूरवाश्चापि तस्मादायुर्भविष्यति ।
नहुषो भविता तस्माद्ययातिस्तस्य चाऽऽत्मजः ॥३५॥

यदुस्तस्मान्महासत्त्वः क्रोष्टा तस्माद्‌भविष्यति ।
क्रोष्टुश्चैव महान्पुत्रो वृजीनीवान्भविष्यति ॥३६॥

वृजिनीवतश्च भविता उषङ्गरपराजितः ।
उषङ्गोर्भविता पुत्रः शूरश्चित्ररथस्तथा ॥३७॥

तस्य त्ववरजः पुत्रः शुरो नाम भविष्यति ।
तेषां विख्यातवीर्याणां चारित्रगुणशालिनाम् ॥३८॥

यज्विनां च विशुद्धानां वंशे ब्राह्मणसत्तमाः ।
स शूरः क्षत्रियश्रेष्ठो महावीर्यो महायशाः ॥३९॥

स्ववंशविस्तारकरं जनयिष्यति मानदम् ।
वसुदेवमिति ख्यातं पुत्रमानकदुन्दुभिम् ॥४०॥

तस्य पुत्रश्चतुर्बाहुर्वासुदेवो भविष्यति ।
दाता ब्राह्मणसत्कर्ता ब्रह्मभूतो द्विजप्रियः ॥४१॥

राज्ञो बद्धान्स सर्वान्वै मोक्षयिष्यति यादवः ।
जरासंधं तु राजानं निर्जित्य गिरिगह्वरे ॥४२॥

सर्वपार्थिवरत्नाढ्यो भविष्यति स वीर्यवान् ।
पृथिव्यामप्रतिहतो वीर्येणापि भविष्यति ॥४३॥

विक्रमेण च संपन्नः सर्वपार्थिवपार्थिवः ।
शूरः संहननो भूतो द्वारकायां वसन्प्रभुः ॥४४॥

पालियिष्यति गां देवीं विनिर्जित्य दुराशयान् ।
तं भवन्तः समासाद्य ब्राह्मणैर्हणैर्वरैः ॥४५॥

अर्चयन्तु यथान्यायं ब्रह्माणमिव शाश्वतम् ।
यो हि मां द्रष्टुमिच्छेत ब्रह्माणं च पितामहम् ॥४६॥

द्रष्टव्यस्तेन भगवान्वासुदेवः प्रतापवान् ।
दृष्टे तस्मिन्नहं दृष्टो न मेऽत्रास्ति विचारणा ॥४७॥

पितामहो वासुदेव इति वित्त तपोधनाः ।
स यस्य पुण्डरीकाक्षः प्रीतियुक्तो भविष्यति ॥४८॥

तस्य देवगणः प्रीतो ब्रह्मपूर्वो भविष्यति ।
यस्तु तं मानवो लोके संश्रयिष्यति केशवम् ॥४९॥

तस्य कीर्तिर्यशश्चैव स्वर्गश्चैव भविष्यति ।
धर्माणां देशिकः साक्षाद्‌भविष्यति स धर्मवान् ॥५०॥

धर्मविद्भिः स देवेशो नमस्कार्यः सदाऽच्युतः ।
धर्म एव सदा हि स्यादस्मिन्नभ्यर्चिते विभौ ॥५१॥

स हि देवो महातेजाः प्रजाहितचिकीर्षया ।
धर्मार्थं पुरुषध्याघ्र ऋषिकोटीः ससर्ज च ॥५२॥

ताः सृष्टास्तेन विधिना पर्वते गन्धमादने ।
सन्त्कुमारप्रमुखास्तिष्ठन्ति तपसाऽन्विताः ॥५३॥

तस्मात्स वाग्ग्मी धर्मज्ञो नमस्यो द्विजपुंगवाः ।
वन्दितो हि स वन्देत मानितो मानयीत च ॥५४॥

दृष्टः पश्येदहरहः संश्रितः प्रतिसंश्रयेत् ।
अर्चितश्चार्तयेन्नित्यं स देवो द्विजसत्तमाः ॥५५॥

एवं तस्यानवद्यस्य विष्णोर्वै परमं तपः ।
आदिदेवस्य महतः सज्जनाचरितं सदा ॥५६॥

भुवनेऽभ्यर्चितो नित्यं देवैरपि सनातनः ।
अभयेनानुरूपेण प्रपद्य तमनुव्रताः ॥५७॥

कर्मणा मनसा वाचा स नमस्यो द्विजैः सदा ।
यत्नवद्‌भिरुपस्थाय द्रष्टव्यो देवकीसुतः ॥५८॥

एष वै विहितो मार्गो मया वै मुनिसत्तमाः ।
तं दृष्ट्वा सर्वदेवेशं दृष्टाः स्युः सुरसत्तमाः ॥५९॥

महावराहं तं देवं सर्वलोकपितामहम् ।
अहं चैव नमस्यामि नित्यमेव जगत्पतिम् ॥६०॥

तत्र च त्रितयं दृष्टं भविष्यति न संशयः ।
समस्ता हि वयं देवास्तस्य देहे वसामहे ॥६१॥

तस्यैव चाग्रजो भ्राता सिताद्रिनिचयप्रभः ।
हली बल इति ख्यातो भविष्यति धराधरः ॥६२॥

त्रिशिरास्तस्य देवस्य दृष्टोऽनन्त इति प्रभोः ।
सुपर्णो यस्य वीर्येण कश्यपस्याऽऽत्मजो बली ॥६३॥

अन्तं नैवाशकद्‌द्रष्टुं देवस्य परमात्मनः ।
स च शेषो विचरते परया वै मुदा युतः ॥६४॥

अन्तर्वस्ति भोगेन परिरभ्य वसुंधराम् ।
य एष विष्णुः सोऽनन्तो भगवान्वसुधाधरः ॥६५॥

यो रामः स हृषीकेशोऽयुतः सर्वधराधरः ।
तावुभौ पुरुषव्याघ्रौ दिव्यौ दिव्यपराक्रमौ ॥६६॥

द्रष्टव्यौ माननीयौ च चक्रलाङ्गलधारिणौ ।
एष वोऽनुग्रहः प्रोक्तो मया पुण्यस्तपोधनाः ॥
तद्भवन्तो यदुश्रेष्ठं पूजयेयुः प्रयत्नतः ॥६७॥

इति श्रीमहापुराणे आदिब्राह्मे ऋषिमहेश्वरसंवादे षड़विंशत्यधिकद्विशततमोऽध्यायः ॥२२६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:46.1300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

slip face

  • सरक पृष्ठ 
RANDOM WORD

Did you know?

नाग आणि नागपंचमी यांचा परस्परसंबंध काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.