TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १७९

ब्रह्मपुराणम् - अध्यायः १७९

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १७९
बादरायणं प्रति श्रीकृष्णावतारविषयको मुनीनां प्रश्नः
लोमहर्षण उवाच
व्यासस्य वचनं श्रुत्वा मुनयः संयतेन्द्रियाः ।
प्रीति बभूवः संहृष्टा विस्मिताश्च पुनः पुनः ॥१॥

मुनय ऊचुः
अहो भारतवर्षस्य त्वया संकीर्तिता गुणाः ।
तद्वच्छ्रीपुरुषाख्यस्य क्षेत्रस्य पुरुषोत्तम ॥२॥

विस्मयो हि न चैकस्य श्रुत्वा माहात्म्यमुत्तमम् ।
पुरुषाख्यस्य क्षेत्रस्य प्रीतिश्च वदतां वर ॥३॥

चिरात्प्रभृति चास्माकं संशयो हृदि वर्तते ।
त्वदृते संशयस्यास्य छेत्ता नान्योऽस्ति भूतले ॥४॥

उत्पत्तिं बलदेवस्य कृष्णस्य च महीतले ।
भद्रायाश्चैव कार्त्स्न्येन पृच्छामस्त्वां महामुने ॥५॥

किमर्थं तौ समुत्पन्नौ कृष्णसंकर्षणावुभौ ।
वसुदेवसुतौ वीरौ स्थितौ नन्दगृहे मुने ॥६॥

निःसारे मृत्युलोकेऽस्मिन् दुःखप्रायेऽतिचञ्चले ।
जलबुद्‌बुदसंकाशे भैरवे लोमहर्षणे ॥७॥

विण्मूत्रपिच्छलं कष्टं संकटं दुःखदायकम् ।
कथं घोरतरं तेषां गर्भवासमरोचत ॥८॥

यानि कर्माणि चक्रुस्ते समुत्पन्ना महीतले ।
विस्तरेण मुने तानि ब्रूहि नो वदतां वर ॥९॥

समग्रं चरितं तेषामद्‌भुतं चातिमानुषम् ।
कथं स भगवान्देवः सुरेशः सुरसत्तमः ॥१०॥

वसुदेवकुले धीमान्वासुदेवत्वमागतः ।
अमरैश्चाऽऽवृतं पुण्यं पुण्यकृदिभरलंकृतम् ॥११॥

देवलोकं किमुत्सृज्य मर्त्यलोक इहाऽऽगतः ।
देवमानुषयोर्नेता द्योर्भुवः प्रभवोऽव्ययः ॥१२॥

किमर्थं दिव्यमात्मानं मानुषेषु न्ययोजयत् ।
यश्चक्रं वर्तयत्येको मानुषाणामनामयम् ॥१३॥

स मानुष्ये कथं बुद्धिं चक्रे चक्रगदाधरः ।
गोपायनं यः कुरुते जगतः सार्वभौतिकम् ॥१४॥

स कथं गां गतो विष्णुर्गोपत्वमकरोत्प्रभुः ।
महाभूतानि भूतात्मा यो दधार चकार च ॥१५॥

श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया धृतः ।
येन लोकान्क्रमैर्जित्वा त्रिभिर्वै त्रिदशेप्सया ॥१६॥

स्थापिता जगतो मार्गास्त्रिवर्गाश्चाभवंस्त्रयः ।
योऽन्तकाले जगत्पीत्वा कृत्वा तोयमयं वपुः ॥१७॥

लोकमेकार्णवं चक्रे दृश्यादृश्येन चाऽऽमना ।
यः पुराणः पुराणात्मा वाराहं रूपमास्थितः ॥१८॥

विषाणाग्रेण वसुधामुज्जहारारिसूदनः ।
यः पुरा पुरुहूतार्थे त्रैलोक्यमिदमव्ययम् ॥१९॥

ददौ जित्वा वसुमतीं सुराणां सुरसत्तमः ।
येन सैंहवपुः कृत्वा द्विधा कृत्वा च तत्पुनः ॥२०॥

पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर्हतः ।
यः पुरा ह्यनलो भूत्वा और्वः संवर्तको विभुः ॥२१॥

पातालस्थोऽर्णवरसं पपौ तोयमयं हरिः ।
सहस्रचरणं ब्रह्म सस्रांशुसहस्रदम् ॥२२॥

सहस्रशिरसं देवं यमाहुर्वै युगे युगे ।
नाभ्यां पद्मं सुमुद्भूतं यस्य पैतामहं गृहम् ॥२३॥

एकार्णवे नागलोके सद्धिरण्मयपङ्कजम् ।
येन ते निहता दैत्याः संग्रामे तारकामये ॥२४॥

येन देवमयं कृत्वा सर्वायुधधरं वपुः ।
गुहासंस्थेन चोत्सिक्तः कालनेमिर्निपातितः ॥२५॥

उत्तरान्ते समुद्रस्य क्षीरोदस्यामृतोदधौ ।
यः शेते शाश्वतं योगमास्थाय तिमिरं महत् ॥२६॥

सुरारणी गर्भमत्त दिव्यं तपः प्रकर्षाददितिः पुराणम् ।
शक्रं च यो दैत्यगणावरुद्धं, गर्भावधानेन कृतं चकार ॥२७॥

पदानि यो योगमयानि कृत्वा, चकार दैत्यान्सलिलेशयस्थान् ।
कृत्वा स देवांस्त्रिदशेश्वरांस्तु, चक्रे सुरेशं पुरुहूतमेव ॥२८॥

गार्हपत्येन विधिना अन्वाहार्येण कर्मणा ।
अग्निमावहनीयं च वेदं दीक्षां समिद्‌धुवम् ॥२९॥

प्रक्षणीयं स्रुवं चैव आवभृथ्यं तथैव च ।
अवाक्पाणस्तु यश्चक्रे हव्यभागभुजस्तथा ॥३०॥

हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितृनथ ।
भोगार्थे यज्ञविधिनाऽयोजयद्यज्ञकर्मणि ॥३१॥

पात्राणि दक्षिणां दीक्षां चरूंश्चोलूखलानि च ।
यूपं समित्स्रुवं सोमं पवित्रान्परिधीनपि ॥३२॥

यज्ञियानि च द्रव्याणि चमसांश्च तथाऽपरान् ।
सदस्यान्यजमानांश्च मेधादींश्च क्रतूत्तमान् ॥३३॥

विबभाज पुरा यस्तु पारमेष्ठ्येन कर्मणा ।
युगानुरूपं यः कृत्वा लोकाननुपराक्रमात् ॥३४॥

क्षणा निमेषाः काष्ठाश्च कलास्त्रैकाल्यमेव च ।
मुहूर्तास्थिथयो मासा दिनं संवत्सरस्तथा ॥३५॥

ऋतवः कालयोगाश्च प्रमाणं त्रिविधं त्रिषु ।
आयुःश्रेत्राण्युपचयो लक्षणं रूपसौष्ठवम् ॥३६॥

त्रयो लोकास्त्रयो देवास्त्रैविद्यं पावकास्त्रयः ।
त्रैकाल्यं त्रीणि कर्माणि त्रयो वर्णास्त्रयोगुणाः ॥३७॥

सृष्टा लोकाः पुरा सर्वे येनानन्तेन कर्मणा ।
सर्वभूतगतः स्रष्टा सर्वभूतगुणात्मकः ॥३८॥

नृणामिन्द्रियपूर्वेण योगेन रमते च यः ।
गतागताभ्यां योगेन य एव विधिरीश्वरः ॥३९॥

या गतिर्धर्मयुक्तानामगतिः पापकर्मणाम् ।
चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता ॥४०॥

चातुर्विद्यस्य यो वेता चातुराश्रम्यसंश्रयः ।
दिगन्तरं नमो भूमिर्वायुर्वाऽपि विभावसुः ॥४१॥

चन्द्रसूर्यमयं ज्योतिर्युगेशः क्षणदाचरः ।
यः परं श्रूयते ज्योतिर्यः परं श्रूयते तपः ॥४२॥

यं परं प्राहुरपरं यः परः परमत्मवान् ।
आदित्यानां तु यो देवो यश्च दैत्यान्तको विभुः ॥४३॥

युगान्तेष्वन्तको यश्च यश्च लोकान्तकान्तकः ।
सेतुर्यो लोकसेतूनां मेध्यो यो मेध्यकर्मणाम् ॥४४॥

वेद्यो यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम् ।
सोमभूतश्च सौम्यानामग्निभूतोऽग्निवर्चसाम् ॥४५॥

यः शक्राणामीशभूतस्तपोभूतस्तपस्विनाम् ।
विनयो नयवृत्तीनां तेजस्तेजस्विनामपि ॥४६॥

विग्रहो विग्रहार्हाणां गतिर्गतिमतामपि ।
आकाशप्रभवो वायुर्वायोः प्राणाद्‌धुताशनः ॥४७॥

दिवो हुताशनः प्राणः प्राणोऽग्निर्मधुसूदनः ।
रसाच्छोणितसंभूतिः शोणितान्मांसमुच्यते ॥४८॥

मांसात्तु मेदसो जन्म मेदसोऽस्थि निरुच्यते ।
अस्थ्नो मज्जा समभवान्मज्जातः शुक्रसम्भवः ॥४९॥

शुक्रद्‌गर्भः समभवद्रसमूलेन कर्मणा ।
तत्रापां प्रथमो भागः स सौम्यो राशिरुच्यते ॥५०॥

गर्भोष्मसंभवो ज्ञेयो द्वितीयो राशिरुच्यते ।
शुक्रं सोमात्मकं विद्यादार्तवं पावकात्मकम् ॥५१॥

भावा रसानुगाश्चैषां बीजे च शशिपावकौ ।
कफवर्गे भवेच्छुक्रं पित्तवर्गे च शोणितम् ॥५२॥

कफस्य हृदयं स्थनं नाभ्यां पित्तं प्रतिष्ठितम् ।
देहस्य मध्ये हृदयं स्थानं तन्मनसः स्मृतम् ॥५३॥

नाभिकोष्ठान्तरं यत्तु तत्र देवो हुताशनः ।
मनः प्रोजापिर्त्ज्ञेयः कफः सोमो विभाव्यते ॥५४॥

पित्तमग्निः स्मृतं त्वेवमग्निसोमात्मकं जगत् ।
एवं प्रवर्तिते गर्भे वर्धितेऽर्बुदसंनिभे ॥५५॥

वायुः प्रवेशं संचक्रे संगतः परमात्मनः ।
स पञ्चधा शरीरस्थो भिद्यते वर्तते पुनः ॥५६॥

प्राणापानौ समानश्च उदानो व्यान एव च ।
प्राणोऽस्य परमात्मानं वर्धयन्परिवर्तते ॥५७॥

अपानः पश्चिमं कायमुदानोऽर्धं शरीरिणः ।
व्यानस्तु व्याप्यते येन समानः संनिवर्तते ॥५८॥

भूतावाप्तिस्ततस्तस्य जायेतेन्द्रियगोचरा ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥५९॥

तस्येन्द्रियनिविष्टानि स्वं स्वं भागं प्रचक्रिरे ।
पार्थिवं देहमाहुस्तु प्राणात्मानं च मारुतम् ॥६०॥

छिद्राण्याकाशयोनीनि जलात्स्रावः प्रवर्तते ।
ज्योतिश्चक्षूंषि तेजश्च आत्मा तेषां मनः स्मृतम् ॥६१॥

ग्रामाश्च विषयाश्चैव यस्य वीर्यात्प्रवर्तिताः ।
इत्येतान्पूरुषः सर्वान्सृजँल्लोकान्सनातनः ॥६२॥

नैदनेऽस्मिन्कथं लोके नरत्वं विष्णुरागतः ।
एष नः संशयो व्रह्मन्नेष नो विस्मयो महान् ॥६३॥

कथं गतिर्गतिमतामापन्नो मानुषीं तनुम् ।
आश्चर्यं परमं विष्णुर्देवैर्दैत्यैश्च कथ्यते ॥६४॥

विष्णोरुत्पत्तिमाश्चर्यं कथयस्व महामुने ।
प्रख्यातबलवीर्यस्य विष्णोरमिततेजसः ॥६५॥

कर्मणाऽऽश्चर्यभूतस्य विष्णोस्तत्त्वमिहोच्यताम् ।
कथं स देवो देवानामार्तिहा पुरुषोत्तमः ॥६६॥

सर्वव्यापी जगन्नाथः सर्वलोकमहेश्वरः ।
सर्गस्थित्यन्तकृद्देवः सर्वलोकसुखावहः ॥६७॥

अक्षयः शाश्वतोऽनन्तः क्षयवृद्धिविवर्जितः ।
निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरञ्जनः ॥६८॥

सर्वोपाधिविनिर्मुक्तः सत्तामात्रव्यवस्थितः ।
अविकारी विभुर्नित्यः परमात्मा सनातनः ॥६९॥

अचलो निर्मलो व्यापी नित्यतृप्तो निराश्रयः ।
विशुद्धं श्रूयते यस्य हरित्वं च कृते युगे ॥७०
वैकुण्ठत्वं च देवेषु कृष्णत्वं मानुषेषु च ।
ईश्वरस्य हि तस्येमां गहनां कर्मणो गतिम् ॥७१॥

समतीतां भविष्यं च श्रोतुमिच्छा प्रवर्तते ।
अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान्प्रभुः ॥७२॥

नारायणो ह्यनन्तात्मा प्रभवोऽव्यय एव च ।
एष नारायणो भूत्वा हरीरासीत्समनातनः ॥७३॥

ब्रह्मा शक्रश्च रुद्रश्च धर्मः शुक्रो बृहस्पतिः ।
प्रधानात्मा पुरा ह्येष ब्रह्माणमसृजत्प्रभुः ॥७४॥

सोऽसृजत्पूर्वपुरुषः पुरा कल्पे प्रजापतीन् ।
एवं स भगवान्विष्णुः सर्वलोकमहेश्वरः ॥
किमर्थ मर्त्यलोकेऽस्मिन्यातो यदुकुले हरिः ॥७५॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे ऋषिप्रश्ननिरूपणं नामोनाशीत्यधिकशततमोऽध्यायः ॥१७९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:43.6770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

धट

  • पु. १ तराजूची दांडी ; रोवलेला मोठा तराजू , कांटा . ऐसे हे अनुभवाचेनि धटे । साचे जया । - ज्ञा ६ . ५३ . धट रोंवूनि रमानायक । पारड्यामध्ये घातला । - भवि ३१ . ५६ . मेकॉले साहेबानी ... कलकत्ता मुक्कामी एक भला मोठा धट लावून एके पारड्यांत आरबी , फारसी व संस्कृत ग्रंथ यांचे गठेठे ... घालून ... - नि ९४१ . २ गाडीत , खटार्‍यांत बारदान भरतांना गाडीचा मागे तोल जाऊं नये म्हणून मागील बाजूस जमीनीपासून साटीच्या बावखंडास टेंकून पुढच्या शिपायाप्रमाणे उभे करावयाचे दुबेळक्याचे लांकूड , टेंकू . ३ ( मुलकी खात्यातील ) मोजणीपत्रीकांतील तपशील , त्याचे पत्रक . ४ निश्चय . - मनको . - हंको . [ सं . बं . धट ] 
  • वि. धीट ; दांडगा ; धटिंगण ; धट्ट पहा . धटु झोंबोनि हरी शेत । दैवहत तो झाला । - एभा २३ . १३२ . टौणपा लौंद धट उद्धट । - दा २ . ३ . ३२ . धटासी आणावा धट । - दा १९ . ९ . ३० . [ सं . धृष्ट ] म्ह ० ( व . ) धटा खाई मिठाई आणि गरीब खाई गचांड्या . 
  • क्रि.वि. अगदी नीट ; सरळ ; तडक ; थेट ( जाणारा रस्ता , मनुष्य ). 
  • ०घेणे घेऊन बसणे धरणे धरुन बसणे ; सक्त तगादा लावणे . 
More meanings
RANDOM WORD

Did you know?

घराच्या दाराबाहेर शुभ-लाभ कां लिहीतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site