TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १९२

ब्रह्मपुराणम् - अध्यायः १९२

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १९२
अक्रूरप्रत्यागमनवर्णनम्
व्यास उवाच
चिन्तयन्निति गोविन्दमुपगम्य स यादवः ।
अक्रूरोऽस्मीति चरणौ ननाम शिरसा हरेः ॥१॥

सोऽप्येनं ध्वजवज्राब्जकृतचिह्नेन पाणिना ।
संस्पृश्याऽऽकृष्य च प्रीत्या सुगाढं परिषस्वजे ॥२॥

कृतसंवदनौ तेन यथावद्‌बलकेशवौ ।
ततः प्रविष्टौ सहसा तमादायाऽऽत्ममन्दिरम् ॥३॥

सह ताभ्यां तदाऽक्रूरः कृतसंवन्दनादिकः ।
भुक्तभोज्यो यथान्यायामाचचक्षे ततस्तयोः ॥४॥

यथानिर्भत्सतस्तेन कंसेनाऽऽनकदुन्दुभिः ।
यथा च देवकी देवी दानवेन दुरात्मना ॥५॥

उग्रसेने यथा कंसः स दुरात्मा च वर्तते ।
यं चैवार्यं समुद्दिश्य कंसेन स विसर्जितः ॥६॥

तत्सर्वं विस्तराच्छ्रुत्वा भगवन्केशिसूदनः ।
उवाचाखिलमेतत्तु ज्ञातं दानपते मया ॥७॥

करिष्ये च महाभाग यदत्रौपायिकं मतम् ।
विचिन्त्यं नान्यथैतत्ते विद्धि कंसं हतं मया ॥८॥

अहं रामश्च मथुरां श्वे यास्यावः समं त्वया ।
गोपवृद्धाश्च यास्यन्ति आदायोपायनं बहु ॥९॥

निशेयं नीयतां वीर न चिन्तां कर्तुमर्हसि ।
त्रिरात्राभ्यन्तरे कंसं हनिष्यामि सहानुगम् ॥१०॥

समादिश्य ततो गोपानक्रुरोऽपि सकेशवः ।
सुष्वाप बलभद्रश्च नन्दगोपगृहे गतः ॥११॥

ततः प्रभाते विमले रामकृष्णौ महाबलौ ।
अक्रूरेण समं गन्तुमुद्यतौ मथुरां पुरीम् ॥१२॥

दृष्ट्वा गोपीजनः सास्रः कथं श्लथद्वलयबाहुकः ।
निश्वसंश्चातिदुःखार्तः प्राह चेदं परस्परम् ॥१३॥

मथुरां प्राप्य गोविन्दः कथं गोकुलमेष्यति ।
नागरस्त्रीकलालापमधु श्रोत्रेण पास्यति ॥१४॥

विलासिवाक्यजातेषु नागरीणां कृतास्पदम् ।
चित्तमस्य कथं ग्राम्यगोपगोपीषु यास्यति ॥१५॥

सारं समस्तगोष्ठस्य विधिना हरता हरिम् ।
प्रहृतं गोपयोषित्सु निघृणेन दुरात्मना ॥१६॥

भावगर्भस्मितं वाक्यं विलासललिता गतिः ।
नागरीणामतीवैतत्काटाक्षेक्षितमेव तु ॥१७॥

गाम्यो हरिरयं तासां विलासनिगडैर्यतः ।
भवतीनां पुनः पार्श्वं कया युक्त्या समेष्यति ॥१८॥

एषो हि रथमाहुह्‌य मथुरां याति केशवः ।
अक्रूरक्रूरकेणापि हताशेन प्रतारितः ॥१९॥

किं न वेत्ति नशंसोऽयमनुरागपरं जनम् ।
येनेममक्षराह्लादं नयत्यन्यत्र नो हरिम् ॥२०॥

एष रामेण सहितः प्रयात्यत्यन्तनिर्घृणः ।
रथमारुहय गोविन्दस्त्वर्यतामस्य वारणे ॥२१॥

गुरूणामग्रतो वक्तुं किं ब्रवीषि न नः क्षमम् ।
गुरवः किं करिष्यन्ति दग्धानां विरहाग्निना ॥२२॥

नन्दपोपमुखा गोपा गन्तुमेते समुद्यताः ।
नोद्यमं कुरुते कश्चिद्‌गोविन्दविनिवर्तने ॥२३॥

सुप्रभाताऽद्य रजनी मथुरावासियोषिताम् ।
यासामच्युतवक्त्राब्जे याति नेत्रालिभोग्यताम् ॥२४॥

धन्यास्ते पथि ये कृष्णमितो यान्तमवारिताः ।
उद्वहिष्यन्ति पश्यन्तः स्वदेहं पुलकाञ्चितम् ॥२५॥

मथुरानगरीपौरनयनानां महोत्सवः ।
गोविन्दवदनालोकादतीवाद्य भविष्यति ॥२६॥

को नु स्वप्नः सभाग्याभिर्दुष्टस्ताभिरधोक्षजम् ।
विस्तारिकान्तनयना या द्रक्ष्यन्त्यनिवारितम् ॥२७॥

अहो गोपीजनस्यास्य दर्शयित्वा महानिधिम् ।
उद्धृतान्यद्य नेत्राणि विधात्राऽकरुणात्मना ॥२८॥

अनुरागेण शैथिल्यमस्मासु व्रजतो हरेः ।
शैथिल्यमुपयान्त्याशु करेषु वलयान्यपि ॥२९॥

अक्रूरः क्रूरहृदयः शीघ्रं प्रेरयते हयान् ।
एवमार्तासु योषित्सु घृणा कस्य न जायते ॥३०॥

हे हे कृष्ण रथस्योच्चैश्चक्ररेणुर्निरीक्ष्यताम् ।
दूरीकृतो हरिर्येन सोऽपि रेणुर्न लक्ष्यते ॥३१॥

इत्येवमतिहार्देन गोपीजननिरीक्षितः ।
तत्याज व्रजभूभागं सह रामेण केशवः ॥३२॥

गच्छन्तो जवनाश्वेन रथेन यमुनातटम् ।
प्राप्ता मध्याह्नसमये रामाक्रूरजनार्दनाः ॥३३॥

अथाऽऽह कृष्णमक्रूरो भवद्‌भ्यां तावदास्यताम् ।
यावत्करोमि कालिन्द्यामाह्निकार्हणमम्भसि ॥३४॥

तथत्युक्ते ततः स्नातः स्वाचान्तः स महामतिः ।
दध्यौ ब्रह्म परं विप्राः प्रविश्य यमुनाजले ॥३५॥

फणासहस्रमालाढ्यं बलभद्रं ददर्श सः ।
कुन्दामलाङ्गमुन्निद्रपद्मपत्रायतेक्षणम् ॥३६॥

वृतं वासुकिडिम्भौघैर्महद्‌भिः पवनाशिभिः ।
संस्तूयमानसद्‌गन्धिवनमालाविभूषितम् ॥३७॥

दधानमसिते वस्त्रे चारुरूपावतंसकम् ।
चारुकुण्डलिनं मत्तमन्तर्जलतले स्थितम् ॥३८॥

तस्योत्सङ्गे घनश्याममाताम्रायतलोचनम् ।
चतुर्बाहुमुदाराङ्गं चक्राद्यायुधभूषणम् ॥३९॥

पीते वसानं वसने चित्रमाल्यविभूषितम् ।
चक्रचापतडिन्मालाविचित्रमिव तोयदम् ॥४०॥

श्रीवत्सवक्षसं चारुकेयूरमुकुटोज्ज्वलम् ।
ददर्श कुष्णमक्लिष्टं पुण्डरीकावतंसकम् ॥४१॥

सनन्दनाद्यैर्मुनिभिः सिद्धयोगैरकल्मषैः ।
संचिन्त्यमानं मनसा नासाग्रन्यस्तलोचनैः ॥४२॥

बलकृष्णौ तदाऽक्रूरः प्रत्यभिज्ञाय विस्मितः ।
अचिन्तयदथो शीघ्रं कथमत्रागताविति ॥४३॥

विवक्षोः स्तम्भयामास वाचं तस्य जनार्दनः ।
ततो निष्क्रम्य सलिलाद्रथमभ्यागतः पुनः ॥४४॥

ददर्श तत्र चैवोभौ रथस्योपरि संस्थितौ ।
रामकृष्णौ यथा पूर्वं मनुष्यवपुषाऽऽन्वितौ ॥४५॥

निमग्नश्च पुनस्तोये ददृशे स तथैव तौ ।
संस्तूयमानौ गन्धर्वैर्मुनिसिद्धमहोरगौः ॥४६॥

ततो विज्ञातसद्भावः स तु दानपतिस्तदा ।
तुष्टाव सर्वविज्ञानमयमच्युतमीश्वरम् ॥४७॥

अक्रूर उवाच
तन्मात्ररूपिणेऽचिनत्यमहिम्ने परमात्मने ।
व्यापिने नैकरूपैकस्वरूपाय नमो नमः ॥४८॥

शब्दरूपाय तेऽचिन्त्यहविर्भूताय ते नमः ।
नमो विज्ञानरूपाय पराय प्रकृतेः प्रभो ॥४९॥

भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् ।
आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः ॥५०॥

प्रसीद सर्वधर्मात्मन्क्षराक्षर महेश्वर ।
ब्रह्मविष्णुशिवाद्याभिः कल्पनाभिरुदीरितः ॥५१॥

अनाख्येयस्वरूपात्मन्ननाख्येयप्रयोजन ।
अनाख्येयाभिधान त्वां नतोऽस्मि परमेश्वरम् ॥५२॥

न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः ।
तद्‌ब्रह्म परमं नित्यमविकारि भवानजः ॥५३॥

न कल्पनामृतेऽर्थस्य सर्वस्याधिगमो यतः ।
ततः कृष्णच्युतानन्त विष्णुसंज्ञाभिरीड्यसे ॥५४॥

सर्वात्मंस्त्वमज विकल्पनाभिरेतैर्देवास्त्वं जगदखिलं त्वमेव विश्वम् ।
विश्वात्मंस्त्वमतिविकारभेदहीनः,सर्वस्मिन्न हि भवतोऽस्ति किंचिदन्यत् ॥५५॥

त्वं ब्रह्मा पशुपतिरर्यमा विधाता, त्वं धाता त्रिदशपतिः समीरणोऽग्निः ।
तोयेशो धनपतिरन्तकस्त्वमेको, भिन्नात्मा जगदपि पासि शक्तिभेदैः ॥५६॥

विश्वं भवान्सृजति हन्ति गभस्तिरूपो, विश्वं च ते गुणमयोऽयमज प्रपञ्चः ।
रूपं परं सदितिवाचकमक्षरं यज्ज्ञानात्मने सदसते प्रणतोऽस्मि तस्मै ॥५७॥

ओं नमो वासुदेवाय नमःसंकर्षणाय च ।
प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥५८॥

व्यास उवाच
एवमन्तर्जले कृष्णमभिष्टुय स यादवः ।
अर्घयामास सर्वेशं धूपपुष्पैर्मनोमयैः ॥५९॥

परित्यज्यान्यविषयं मनस्तत्र निवेश्य सः ।
ब्रह्मभूते चिरं स्थित्वा विरराम समाधितः ॥६०॥

कृतकृत्यमिवाऽऽत्मानं मन्यमानो द्विजोत्तमाः ।
आजगाम रथं भूयो निर्गम्य यमुनाम्भसः ॥६१॥

रामकृष्णौ ददर्शाथ यथापूर्वमवस्थितौ ।
विस्मिताक्षं तदाऽक्रूरं तं च कृष्णोऽभ्यभाषता ॥६२॥

श्रीकृष्ण उवाच
किं त्वया दृष्टमाश्चर्यमक्रूर यमुनाजले ।
विस्मयोत्फुल्लनयनो भवान्संलक्ष्यते यतः ॥६३॥

अक्रूर उवाच
अन्तर्जले यदाश्चर्यं दृष्टं तत्र मयाऽच्युत ।
तदत्रैव हि पश्यामि मूर्तिमत्पूरतः स्थितम् ॥६४॥

जगदेतन्महाश्चर्यरूपं यस्य महात्मनः ।
तेनाऽऽश्चर्यपरेणाहं भवता कृष्ण संगतः ॥६५॥

तत्किमेतेन मथुरां प्रयामो मधुसूदन ।
बिभेमि कंसाद्धिग्जन्म परपिण्डोपजीविनः ॥६६॥

व्यास उवाच
इत्युक्त्वा चोदयामास तान्हयान्वातरंहसः ।
संप्राप्तश्चापि सायाह्ने सोऽक्रूरो मथुरां पुरीम् ।
विलोक्य मथुरां कृष्णं रामं चाऽऽह स यादवः ॥६७॥

अक्रूर उवाच
पद्भ्यां यातं महावीर्यौ रथेनैको विशाम्यहम् ।
गन्तव्यं वसुदेवस्य नो भवद्भ्यां तथा गृहे ॥
युवयोर्हि कृते वृद्धः कंसेन स निरस्यते ॥६८॥

व्यास उवाच
इत्युक्त्वा प्रविवेशासावक्रूरो मथुरां पुरीम् ।
प्रविष्टौ रामकृष्णौ च राजमार्गमुपागतौ ॥६९॥

स्त्रीभिर्नरैश्च सानन्दलोचनैरभिवीक्षितौ ।
जग्मतुर्लीलया वीरौ प्राप्यौ बालगजाविव ॥७०॥

भ्रममाणौ तु तौ दृष्ट्वा रजकं रङ्गकारकम् ।
अयाचेतां स्वरूपाणि वासांसि रुचिराणि तौ ॥७१॥

कंसस्य रजकः सोऽथ प्रसादारूढविस्मयः ।
बहून्याक्षेपवाक्यानि प्राहोच्चै रामकेशवौ ॥७२॥

ततस्तलप्रहारेण कृष्णस्तस्य दुरात्मनः ।
पातयामास कोपेन रजकस्य शिरो भुवि ॥७३॥

हत्वाऽऽदाय च वस्त्राणि पीतनीलाम्बरौ ततः ।
कृष्णरामौ मुदायुक्तौ मालाकारगृहं गतौ ॥७४॥

विकासिनेत्रयुगलो मालाकारोऽतिविस्मितः ।
एतौ कस्य कुतो यातौ मनसाऽचिन्तयत्ततः ॥७५॥

पीतनीलाम्बरधरौ दृष्ट्वाऽतिसुमनोहरौ ।
स तर्कयमास तदा भुवं देवावुपागतौ ॥७६॥

विकाशिमुखपद्‌माभ्यां ताभ्यां पुष्पाणि याचितः ।
भुवं विष्टम्य हस्ताभ्यां पस्पर्श शिरसा महीम् ॥७७॥

प्रसादसुमुखौ नाथौ मम गेहमुपागतौ ।
धन्योऽहमर्चयिष्यामीत्याह तौ माल्यजीविकः ॥७८॥

ततः प्रहृवष्टदनस्तयोः पुष्पाणि कामतः ।
चारूण्येतानि चैतानि प्रददौ स विलोभयन् ॥७९॥

पुनः पुनः प्रणम्यासौ मालाकारोत्तमो ददौ ।
पुष्पाणि ताभ्यां चारूणि गन्धवन्त्यमलानि च ॥८०॥

मालाकाराय कृष्णोऽपि प्रसन्नः प्रददौ वरम् ।
श्रीस्त्वांमत्संश्रया भद्र न कदाचित्त्यजिष्यति ॥८१॥

बलहानिर्न ते सौम्य धनहानिरथापि वा ।
यावद्धरणिसूर्यौ च संततिः पुत्रपौत्रिकी ॥८२॥

भुक्त्वा च विपुलान्भोगांस्त्वमन्ते मत्प्रसादतः ।
ममानुस्मरणं प्राप्य दिव्यलोकमवाप्स्यसि ॥८३॥

धर्मे मनश्च ते भद्र सर्वकालं भविष्यति ।
युष्मत्संततिजातानां दीर्घमायुर्भविष्यति ॥८४॥

नोपसर्गादिकं दोषं युष्मत्संततिसंभवः ।
अवाप्स्यति महाभाग यावत्सूर्यो भविष्यति ॥८५॥

व्यास उवाच
इत्युक्त्वा तद्‌गृहात्कृष्णो बलदेवसहायवान् ।
निर्जगाम मुनिश्रेष्ठा मालाकारेण पूजितः ॥८६॥

इति श्रीमहापुराणे आदिब्राह्मेऽक्रूरप्रत्यागमनं नाम द्विनवत्यधिकशततमोऽध्यायः ॥१९२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:44.3500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

धाळ

  • पु. ( गो . ) भेग ; फट . [ सं . धार = खोल जागा ? ] 
RANDOM WORD

Did you know?

Request for Anagha Ashtami Puja vrat Sagrasangit Puja
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site