TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २०६

ब्रह्मपुराणम् - अध्यायः २०६

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २०६
बाणयुद्धवर्णनम्
व्यास उवाच
बाणोऽपि प्रणिपत्याग्रे ततश्चाऽऽह त्रिलोचनम् ॥१॥

बाण उवाच
देव बाहुसहस्रेण निर्विण्णोऽहं विनाऽऽहवम् ।
कच्चिन्ममैषां बाहूनां साफल्यकरणो रणः ॥
भविष्यति विना युद्धं भाराय मम किं भुजैः ॥२॥

शंकर उवाच
मयूरध्वजभङ्गस्ते यदा बाण भविष्यति ।
पिशिताशिजनानन्दं प्राप्स्यसि त्वं तदा रणम् ॥३॥

ततः प्रणम्य मुदितः शंभुमभ्यागतो गृहात् ।
भग्नं ध्वजमथाऽऽलोक्य हृष्टो हर्षं परं ययौ ॥४॥

एतस्मिन्नेव काले तु योगविद्याबलेन तम् ।
अनिरुद्धमथाऽऽनित्ये चित्रलेखा वरा सखी ॥५॥

कन्यान्तःपुरमध्ये तं रममाणं सहोषया ।
विज्ञाय रक्षिणो गत्वा शशंसुर्दैत्यभूपतेः ॥६॥

व्यादिष्टं किंकराणां तु सैन्यं तेन महात्मना ।
जघान परिघं लौहमादाय परवीरहा ॥७॥

हतेषु तेषु बाणोऽपि रथस्थस्तद्वधोद्यतः ।
युध्यमानो यथाशक्ति यदा वीरेण निर्जितः ॥८॥

मायया युयुधे तेन स तदा मन्त्रचोदितः ।
ततश्च पन्नगास्त्रेण बबन्ध यदुनन्दनम् ॥९॥

द्वारवत्यां क्व यातोऽसावनिरुद्धेति जल्पताम् ।
यदूनामाच्चक्षे तं बद्धं बाणेन नारदः ॥१०॥

तं शोणितपुरे श्रुत्वा नीतं विद्याविदग्धया ।
योषिता प्रत्ययं जग्मुर्यादवा नाम वैरिति(णि) ॥११॥

ततो गरुडमारुह्य स्मृतमात्रा गतं हरिः ।
बलप्रद्युम्नसहितो बाणस्य प्रययौ पुरम् ॥१२॥

पुरीप्रवेशे प्रमथैर्युद्धमासीन्महाबलैः ।
ययौ बाणपुराभ्याशं नीत्वा तान्संक्षयं हरिः ॥१३॥

ततस्त्रिपादस्त्रिशिरा ज्वरो माहेश्वरो महान् ।
बाणरक्षार्थमत्यर्थं युयुधे शार्ङ्गधन्वना ॥१४॥

तद्‌भस्मस्पर्शसंभूततापं कृष्णाङ्गसंगमात् ।
अवाप बलदेवोऽपि समं संमीलितेक्षणः ॥१५॥

ततः संयुध्यमानस्तु सह देवेन शार्ङ्गिणा ।
वैष्णवेन ज्वरेणाऽऽशु कृष्णदेहान्निराकृतः ॥१६॥

नारायणभुजाघातपरिपीडनविह्वलम् ।
तं वीक्ष्य क्षम्यतामस्येत्याह देवः पितामहः ॥१७॥

ततश्च क्षान्तमेवेति प्रोच्य तं वैष्णवं ज्वरम् ।
आत्मन्येव लयं नित्ये भगवान्मधुसूदनः ॥१८॥

मम त्वया समं युद्धं ये स्मरिष्यन्ति मानवाः ।
विज्वरास्ते भविष्यन्तीत्युक्त्वा चैनं ययौ हरिः ॥१९॥

ततोऽग्नीन्भगवान्पञ्च जित्वा नीत्वा क्षयं तथा ।
दानवानां बलं विष्णुश्चूर्णयामास लीलया ॥२०॥

ततः समस्तसैन्यैन दैतेयानां बलेः सुतः ।
युयुधे शंकरश्चैव कार्तिकेश्च शौरिणा ॥२१॥

हरिशंकरयोर्युद्धमतीवाऽऽसीत्सुदारुणम् ।
चुक्षुभुः सकला लोकाः शस्त्रास्त्रैर्बहुधाऽर्दिताः ॥२२॥

प्रलयोऽयमशेषस्य जगतो नूनमागतः ।
मेनिरे त्रिदशा यत्र वर्तमाने महाहवे ॥२३॥

जृम्भणास्त्रेण गोविन्दो जृम्भयामास शंकरम् ।
ततः प्रणेएशुर्दैतेयाः प्रमथाश्च समन्ततः ॥२४॥

जृम्भाभिभूतश्च हरो रथोपस्तामुपाविशत् ।
न शशाक तदा योद्धुं कृष्णेनाक्लिष्टकर्मणा ॥२५॥

गरुडक्षतबाहुश्च प्रद्युम्नास्त्रेण पीडितः ।
कृष्णहुंकारनिर्धूतशक्तिश्चापययौ गुहः ॥२६॥

जृम्भिते शंकरे नष्टे दैत्यसैन्ये गुहे जिते ।
नीते प्रमथसैन्यै च संक्षयं शार्ङ्गधन्वना ॥२७॥

नन्दीशसंगृहीताश्वमधिरूढा महारथम् ।
बाणस्तत्राऽऽययौ योद्धुं कृष्णकार्ष्णिबलैः सह ॥२८॥

बलभद्रो महावीर्यो बामसैन्यमनेकधा ।
विव्याध बाणैः प्रद्युम्नो धर्मतश्चापलायतः ॥२९॥

आकृष्य लाङ्गलाग्रेण मुश्लेन च पोथितम् ।
बलं बालेन ददृशे बाणो बाणैश्च चक्रिणः ॥३०॥

ततः कृष्णस्य बाणेन युद्धमासीत्समासतः ।
परस्परं तु संदीप्तान्कायत्राणविभेदिनः ॥३१॥

कृष्णश्चिच्छेद बाणंस्तान्बाणेन प्रहिताञ्शरैः ।
बिभेद केशवं बाणो बाणं विव्याध चक्रधृक् ॥३२॥

मुमुचाते तथाऽस्त्राणि बाणकृष्णौ जिगीषया ।
परस्परक्षतिपरौ परिघांश्च ततो द्विजाः ॥३३॥

छिद्यमानेष्वशेषेषु शस्त्रेष्वस्त्रे च सीदति ।
प्राचुर्येण हरिर्बाणं हन्तुं चक्रे ततो मनः ॥३४॥

ततोऽर्कशतसंभूततेजसा सदृशद्युति ।
जग्राह दैत्यचक्रारिर्हरिश्चक्रं सुदर्शनम् ॥३५॥

मुञ्चतो बाणनाशाय तच्चक्रं मधुविद्विषः ।
जग्राह दैत्यचक्ररिर्हरिश्चक्रं सुदर्शनम् ॥३६॥

तामग्रतो हरिर्दृष्ट्वा मीलिताक्षः सुदर्शनम् ।
मुमोच बाणमुद्दिश्य छेत्तुं बाहुवनं रिपोः ॥३७॥

क्रमेणास्य तु बाहूनां बाणस्याच्युतचोदितम् ।
छेदं चक्रेऽसुरस्याऽऽशु शस्त्रास्त्रक्षेपणाद्‌द्रुतम् ॥३८॥

छिन्ने बाहुवने तत्तु करस्थं मधुसूदनः ।
मुमुक्षुर्बाणनाशाय विज्ञातस्त्रिपुरद्विषा ॥३९॥

स उत्पत्याऽऽह गोविन्दं सामपूर्वमुमापतिः ।
विलोक्य बाणं दोर्दण्डच्छेदासृक्स्राववर्षिणम् ॥४०॥

रुद्र उवाच
कृष्ण कृष्ण जगन्नाथ जाने त्वां पुरुषोत्तमम् ।
परेशं परमात्मानमनादिनिधनं परम् ॥४१॥

देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका ।
लीलेयं तव चेष्टा हि दैत्यानां वधलक्षणा ॥४२॥

तत्प्रसीदाभयं दत्तं बाणस्यास्य मया प्रभो ।
तत्त्वया नानृतं कार्यं यन्मया व्याहृतं वचः ॥४३॥

अस्मत्संश्रयवृद्धोऽयं नापराधस्तवाव्यय ।
मया दत्तवरो दैत्यस्ततस्त्वां क्षमयाम्यहम् ॥४४॥

व्यास उवाच
इत्युक्तः प्राह गोविन्दः शूलपाणिमुमापतिम् ।
प्रसन्नवदनो भूत्वा गतामर्षोऽसुरं प्रति ॥४५॥

श्रीभगवानुवाच
युष्मद्दत्तवरो बाणो जीवतादेष शंकर ।
त्वद्वाक्यगौरवादेतन्मया चक्रं निवर्तितम् ॥४६॥

त्वया यदभयं दत्तं तद्दत्तमभयं मया ।
मत्तोऽविभिन्नमात्मानं द्रष्टुमर्हसि शंकर ॥४७॥

योऽहं स त्वं जगच्चेदं सदेवासुरामानुषम् ।
अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः ॥४८॥

व्यास उवाच
इत्युक्त्वा प्रययौ कृष्णः प्राद्युम्निर्यत्र तिष्ठति ।
तद्‌बन्धफणिनो नेशुर्गरुडानिलशोषिताः ॥४९॥

गतोऽनिरुद्धमारोप्य सपत्नीकं गरुत्मति ।
आजग्मुर्द्वारकां रामकार्ष्णिदामोदराः पुरीम् ॥५०॥

इति श्रीमहापुराणे आदिब्राह्मे बाणयुद्धे षडधिकद्विशततमोऽध्यायः ॥२०६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:45.0830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

geochronologic sequence

  • भूकालिक अनुक्रम 
RANDOM WORD

Did you know?

अंत्येष्टी संस्कारात और्द्ध्वदेहिक विधि काय असतो ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.