संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ४

ब्रह्मपुराणम् - अध्यायः ४

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


पृथुमारभ्य सर्व्वदेवदानवादीनां राज्याभिषेक-वर्णनम्
लोमहर्षण उवाच
अभिषिच्याधिराजेन्द्रं पुथुं वैन्यं पितामहः ।
ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥१॥

द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा ।
यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत् ॥२॥

अपां तु वरुणं राज्ये राज्ञां वैश्रवणं पतिम् ।
आदित्यानां तथा विष्णुं वसूनामथ पावकम् ॥३॥

प्रजापतीनां दक्षं तु मरुतामथ वासवम् ।
दैत्यानां दानवानां वै प्रह्लादमितौजसम् ॥४॥

वैवस्वतं पितॄणाञ्च यमं राज्येऽभ्यषेचयत् ।
यक्षाणां राक्षसानाञ्च पार्थिवानां तथैव च  ॥५॥

सर्व्वभूतपिशाचानां गिरीशं शूलपाणिनम् ।
शैलानां हिमवन्तञ्च नदीनामथ सागरम् ॥६॥

गंधर्व्वभूतपिधिपतिं चक्रे चित्ररथं प्रभुम् ।
नागानां वासुकिं चक्रे सर्पाणामथ तक्षकम् ॥७  ।

वारणानां तु राजानमैरावतमथादिशत् ।
उच्चैः श्रवसमश्वानां गरुडञ्चैव पक्षिणाम् ॥८॥

मृगाणामथ शाद्र्दूलं गोवृषन्तु गवां पतिम् ।
वनस्पतीनां राजानं प्लक्षमेवाभ्यषेचयत् ॥९॥

एवं विभज्य राज्यानि क्रमेणैव पितामहः ।
दिशां पालानथ ततः स्थापयामास स प्रभुः ॥१०॥

पूर्व्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः ।
दिशः पालं सुधन्वानं राजानं सोऽभ्यषेचयत् ॥११॥

दक्षिणस्यां दिशि तथा कद्र्दमस्य प्रजापतेः ।
पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत्  ॥१२॥

पश्चिमस्यां दिशि तथा रजसः पुत्रच्युतम् ।
केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् ॥१३॥

तथा हिरण्यरोमाणं पर्ज्जन्यस्य प्रजापतेः ।
उदीच्यां दिशि दुर्द्धर्षराजानं सोऽभ्यषेचयत् ॥१४॥

तैरियं पृथिवी सर्व्वा सप्तद्वीपा सपत्तना ।
यथाप्रदेशमद्यापि धर्म्मेण प्रतिपाल्यते  ॥१५॥

राजसूयाभिषिक्तस्तु पृथुरेतैर्नराधिपैः ।
वैददृष्टेन विधिना राजा राज्ये नराधिपः ॥१६॥

ततो मन्वन्तरेऽतीते चाक्षुषेऽमिततेजसि ।
वैवस्वताय मनवे पृथिव्यां राज्यमादिशत् ॥१७॥

तस्य विस्तरमाख्यास्ते मनोर्वैवस्वतस्य ह ।
भवतां चातुकूल्याय यदि श्रोतुमिहेच्छथ ॥१८॥

महदेतदधिष्ठानं पुराणे तदधिष्ठितम् ।
मुनय ऊचुः
विस्तरेण पृथोर्जन्म लोमहर्षण कीर्त्तय ।
यथा महात्मना तेन दुग्धा वेयं वसुन्धरा ॥१९॥

यथा वापि नृभिर्दुग्धा यथा देवैर्महर्षिभिः ।
यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः ॥२०॥

यथा शैलैः पिशाचैश्च वक्तुमर्हसि सुब्रत ।
वत्सक्षीरविशेषांश्च दोग्धारं चानुपूर्व्वशः ॥२१॥

तेषां पात्रविशेषांश्च वक्तुमर्हसि सुब्रत ।
वत्सक्षीरविशेषांश्च दोग्धारं चानुपूर्व्वशः ॥२२॥

यस्माच्च कारणात् पाणिर्व्वेणस्य मथितः पुरा ।
क्रुर्द्धर्महर्षिभिस्तात कारणं तच्च कीर्त्तय ॥२३॥

लोमहर्षण उवाच
श्रृणुध्वं कीर्त्तयिष्यामि पृथोर्वैण्यस्य विस्तरम् ।
एकाग्राः प्रयताश्चैवपुण्यार्थ वै द्विजर्षभाः ॥२४॥

नाशुचेः क्षुद्रमानसो नाशिष्यस्याव्रतस्य च ।
कीर्त्तयेयमिदं विप्राः कृतघ्नायाहिताय च ॥२५॥

स्वर्ग्य यशस्यमायुष्यं धन्यं वेदैश्च सम्मितम् ।
रहस्यमृषिभिः प्रोक्तं श्रृणुध्वं वै यथातथम् ॥२६॥

यश्चेमं कीर्त्तयेन्नित्यं पृथोर्वैण्यस्य विस्तरम् ।
ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत्कृताकृतम् ॥२७॥

आसीद्धर्म्मस्य संगोप्ता पूर्व्वमत्रिसमः प्रभुः ।
अत्रिवंशे समुत्पन्नस्त्वङ्गो नाम प्रजापतिः ॥२८॥

तस्य पुत्रोऽभवद्वेणो नात्यर्थं धर्म्मकोविदः ।
जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः ॥२९॥

स मातामहदोषेण तेन कालात्मजात्मजः ।
स्वधर्म्म पृष्ठतः कृत्वा कामलोभेष्ववर्त्तत ॥३०॥

मर्य्यादां भेदयामास धर्म्मोपेतां स पार्थिवः ।
वेदधर्म्मानतिक्रम्य सोऽधर्म्मनिरतोऽभवत् ॥३१॥

निःस्वाध्यायवषट्काराः प्रजास्तस्मिन् प्रजापतौ ।
प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः ॥३२॥

न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः ।
आसीत् प्रतिज्ञा क्रूरेयं विनाशं प्रत्युपस्थिते ॥३३॥

अहमिज्यश्च यष्टा च यज्ञश्चेति भृगूद्वह ।
मयि यज्ञो विधातव्यो मयि होतव्यमित्यपि ॥३४॥

तमतिक्रान्तमर्य्यादमाददानमसाम्प्रतम् ।
ऊचुर्महर्षयः सर्व्वे मरीचिप्रमुखास्तदा  ॥३५॥

वयं दीक्षां प्रवेक्ष्यामः संवत्सरगणान् बहून् ।
अधर्म्मं कुरु मा वेण एष धर्म्मः सनातनः ॥३६॥

निधनेऽत्रेः प्रसूतस्त्वं प्रजापतिरसंशयम् ।
प्रजाश्च पालयिष्येऽहमितीह समयः कृतः ॥३७॥

तांस्तथा ब्रुवतः सर्वामहर्षिनब्रवीत्तदा ।
वेणः प्रहस्य दुर्ब्बुद्धिरिममर्थमनर्थवित् ॥३८॥

वेण उवाच
स्रष्टा धर्म्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया ।
श्रुतवीर्य्यतपः सत्यैर्मया वा कः समो भुवि ॥३९॥

प्रभवं सर्व्वभूतानां धर्म्माणां च विशेषतः ।
सम्मूढा न विदुर्नूनं भवन्तो मां विचेतसः ॥४०॥

इच्छन् दहेयं पृथिवीं प्लावयेयं जलैस्तथा ।
द्यां वै भुवं च रुन्धेयं नात्र कार्य्या विचारणाः ॥४१॥

यदा न शक्यते मोहादवलेपाच्च पार्थिवः ।
अपनेतु तदा वेणस्ततः क्रुद्धा महर्षयः ॥४२॥

तं निगृह्य महात्मानो विस्फुरन्तं महाबलम् ।
ततोऽस्य सव्यमूरुं ते ममन्थुर्जातमन्यवः ॥४३॥

तस्मिन्निर्मथ्यमाने वै राज्ञ ऊरौ तु जज्ञिवान् ।
ह्रस्वोऽतिमात्रः पुरुषः कृष्णश्चेति बभूव ह ॥४४॥

स भीतः प्राञ्जलिर्भूत्वा तस्थिवान् द्विजसत्तमाः ।
तमत्रिर्विह्वलं दृष्ट्वा निषीदेत्यव्रवीत्तदा ॥४५॥

निषादवंशकर्त्तमौ बभूव वदतां वराः ।
धीवरानसृजच्चापि वेणकल्मषसम्भवान् ॥४६॥

ये चान्ये विन्ध्यनिलयास्तथा पर्व्वतसंश्रयाः ।
अधर्म्मरुचयो विप्रास्ते तु वेणकल्मषाः ॥४७॥

ततः पुनर्महात्मानः पाणिं वेणस्य दक्षिणम् ।
अरणीमिव संरब्धा ममन्थुर्जातमन्यवः ॥४८॥

पृथुस्तस्मात् समुत्पन्नः कराज्ज्वलनसन्निभः ।
दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलम् ॥४९॥

अथ सोऽजगवं नाम धनुर्गृह्य महारवम् ।
शरांश्च दिव्यान् रक्षार्थं कवचं च महाप्रभम् ॥५०॥

तस्मिन् जातेऽथ भूतानि सम्प्रहृष्टानि सर्व्वशः ।
समापेतुर्महाभागा वेणस्तु त्रिदिवं ययौ ॥५१॥

समुत्पन्नेन भो विप्राः सत्पुत्रेण महात्मना ।
त्रातः स पुरुषव्याघ्रः पुन्नाम्नो नरकात्तदा ॥५२॥

तं समुद्राश्च नद्यश्च रत्नान्यादाय सर्व्वशः ।
तोयानि चाभिषेकार्थं सर्व्व एवोपतस्थिरे ॥५३॥

पितामहश्च भगवान् देवैराङ्गिरसैः सह ।
स्थावराणि च भूतानि जङ्गमानि च सर्व्वशः ॥५४॥

समागम्य तदा वैण्यमभ्यषिञ्चन्नराधिपम् ।
महता राजराजेन प्रजास्तनानुरञ्चिताः ॥५५॥

सोऽभिषिक्तो महातेजा विधिवद्धर्म्मकोविदैः ।
आधिराज्ये तदा राज्ञां पृथुर्वैण्यः प्रतापवान् ॥५६॥

पित्रापरञ्जितास्तस्य प्रजास्तनानुरञ्जिताः ।
अनुरागात्ततस्तस्य नाम राजाभ्यजायत् ॥५७॥

आपस्तस्तम्भिरे तस्य समुद्रमभियास्यतः ।
पर्व्वताश्च ददुर्म्मार्गं ध्वभङ्गश्च नाभवत् ॥५८॥

अकृष्टपच्या पृथिवी सिध्यन्त्यन्नानि चिन्तनात् ।
सर्व्वकामदुधा गावः पुटके पुटके मधु ॥५९॥

एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे ।
सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः ॥६०॥

तस्मिन्नेव महायज्ञे यज्ञे प्राज्ञोऽथ मागधः ।
पृथोः स्तवार्थं तौ तत्र समाहूतौ महर्षिभिः ॥६१॥

तावूचुर्ऋषयः सर्व्वे स्तूयतामेष पार्थिवः ।
कर्म्मैतदनुरूपं वां पात्रं चायं नराधिपः ॥६२॥

तावूचतुस्तदा सर्वास्तानृषीन् सूतमाघधौ ।
आवां देवानृषींश्चैव प्रीणयावः स्वकर्म्मभिः ॥६३॥

न चास्य विद्मोवै कर्म्म नाम वा लक्षणं यशः ।
स्तोत्रं ये नास्य कुर्य्यावराज्ञस्तजस्विनो द्विजाः ॥६४॥

ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति ।
यानि कर्म्माणि कृतवान् पृथुः पश्चान्महाबलः ॥६५॥

ततः प्रभृति वै लोके स्तवेषु मुनिसत्तमाः ।
आशीर्वादाः प्रयुज्यन्ते सूतमागधवन्दिभिः ॥६६॥

तयोः स्तवान्ते सुप्रीतः पुथुः प्रादात्प्रजेश्वरः ।
अनूपदेशं सूताय मगधं मागाधाय च ॥६७॥

तं दृष्टावा परमप्रीताः प्रजाः प्रोचुर्मनीषिणः ।
वृत्तीनामेष वो दाता भविष्यति नराधिपः ॥६८॥

ततो वैण्यं महात्मानं प्रजाः समभिदुद्रुवुः ।
त्वं नो वृत्तिं विधत्स्वेति महर्षिमाद्रवद्बली ॥६९॥

सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया ।
धनुर्गृह्य पृषत्कांश्च पृथिवीमाद्रवद्बली ॥७०॥

ततो वैण्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही ।
तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत ॥७१॥

सा लोकान् ब्रह्मलोकादीन् गत्वा वैण्यभयात्तदा ।
प्रददर्शाग्रतो वैण्यं प्रगुहीतशरासनम् ॥७२॥

ज्वलद्भिर्निशितैर्बाणैर्दीप्ततेजसमन्ततः ।
महायोगं महात्मानं दुर्द्धर्षममरैरपि ॥७३॥

अलभन्ती तु सा त्राणं वैण्यमेवान्वपद्यत ।
कृताञ्जलिपुटा भूत्वा पूज्या लोकैस्त्रिभिस्तदा ॥७४॥

उवाच वैण्यं नाधर्म्मं स्त्रीवधे परिपश्यसि ।
कथं धारयिता चासि प्रजा राजन् विना मया ॥७५॥

मयि लोकाः स्थिताः राजनमयेदं धार्य्यते जगत् ।
मद्विनाशे विनश्येयुः प्रजाः पार्थिव विद्धि तत् ॥७६॥

न मामर्हसि हन्तुं वै श्रेयश्चेत्त्वे चिकीर्षसि ।
प्रजानां पृथिवीपाल श्रुणु चेदं वचो मम ॥७७॥

उपायतः समारब्धाः सर्व्वे सिध्यन्त्युपक्रमाः ।
उवायं पश्य येन त्वं धारयेथाः प्रजामिमाम् ॥७८॥

हत्वापि मां न शक्तस्त्वं प्रजानां पोषणं नृप ।
अनुकूला भविष्यामि यच्छ कोपं महामते ॥७९॥

अवध्यां च स्त्रियं प्राहुस्तिर्य्यग्योनिगतेष्वपि ।
यद्येवं पृथिवीपाल न धर्म्मं त्यक्तुमर्हसि ॥८०॥

एवं बहुविधं वाक्यं श्रुत्वा राजा महमनाः ।
कोपं निगृह्य धर्म्मात्मा वसुधामिदमब्रवीत् ॥८१॥

पृथुरुवाच
एकस्यार्थे तु यो हन्यादात्मनो वा परस्य वा ।
बहून् वा प्राणिनोऽनन्तं भवेत्तस्येह पातकम् ॥८२॥

सुखमेधन्ति बहवो यस्मिंस्तु निहतेऽशुभे ।
तस्मिन् हते नास्ति भद्रे पातकं चोपपातकम् ॥८३॥

सोऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुन्धरे ।
यदि मे वचनान्नाद्य करिष्यसि जगद्धितम् ॥८४॥

त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम् ।
आत्मानं प्रथयित्वाहं प्रजा धारयिता स्वयम् ॥८५॥

सा त्वं शासनमास्थाय मम धर्म्मभृतां वरे ।
सञ्जीवय प्रजाः सर्व्वाः समर्था ह्यसिधारणे ॥८६॥

दुहितृत्वं च मे गच्छ तत एनमहं शरम् ।
नियच्छेयं त्वद्वधार्थमद्यन्तं घोरदर्शनम् ॥८७॥

वसुधोवाच
सर्व्वमेतदहं वीर विधास्यामि न संशयः ।
वत्सं तु मम सम्पश्य क्षरेयं येन वत्सला ॥८८॥

समाञ्च कुरु सर्व्वत्र मां त्वं धर्मभृतां वर ।
यथा विस्यन्दमानं मे क्षीरं सर्व्वत्र भावयेत् ॥८९॥

लोमहर्षण उवाच
तत उत्सारयामास शैलाञ्शतसहस्रशः ।
धनुष्टोट्या तदा वैण्यस्तेन शैला विवर्द्धिताः ॥९०॥

न हि पूर्व्वविसर्गे वै विषमै पृथिवीतले ।
संविभागाःपुराणां वा ग्रामाणां वाभवत्तदा ॥९१॥

म शस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः ।
नैव सत्यानृतं चासीन्न लोभो न च मत्सरः ॥९२॥

वैवस्वतेऽन्तरे तस्मिन् साम्प्रतं समुपस्थिते ।
वैण्यात्प्रभृति वै विप्राः सर्व्वस्यै तस्य सम्भवः ॥९३॥

यत्र यत्र समं त्वस्या भूमेरासीत्तदा द्विजाः ।
तत्र तत्र प्रजाः सर्वा विवासं समरोचयन् ॥९४॥

आहारः फलमूलानि प्रजानामभवत्तदा ।
कुच्छ्रेण महता युक्त इत्येवमनुसुश्रुम ॥९५॥

सचाकल्पयित्वा वत्सं तु मनुं स्वायम्भुवं प्रभुम् ।
स्वपाणौ पुरुषव्याघ्रो दुदोह पृथिवीं ततः ॥९६॥

शस्यजातानि सर्वाणि पृथुर्वैयण्यः प्रतापवान् ।
तेनान्नेन प्रजाः सर्वा वर्त्तन्तेऽद्यापि सर्व्वशः ॥९७॥

ऋषयश्च तदा देवाः पितरोऽथ सरीसृपाः ।
दैत्या यक्षाः पण्यजना गन्धर्त्वाः पर्व्वता नगा ॥९८॥

एते पुरा द्विजश्रेष्ठा दुदुर्हुर्धरणीं किल ।
क्षीरं वत्सश्च पात्रं च तेषां दोग्धा पृथक्पृथक् ॥९९॥

ऋषीणामभवत्सोमो वत्सो दोग्धा बृहस्पतिः ।
क्षीरं तेषां तपो ब्रह्म पात्रं छन्दांसि भो द्विजाः ॥१००॥

देवानां काञ्चनं पात्रं वत्सस्तेषां शतक्रतुः ।
क्षीरमोजस्करं चैव दोग्धा च भगवान्रविः ॥१०१॥

पितृणां राजतं पात्रं यमो वत्सः प्रतापवान् ।
अन्तकश्चाभवद्देग्धा क्षीरं तेषां सुधा स्मृता  ॥१०२॥

नागानां तक्षको वत्सः पात्रं चालाबुसंज्ञकम् ।
दोग्धा त्वैरावतो नगस्तेषां क्षीरं विषं स्मृतम् ॥१०३॥

असुराणां मधुर्दोग्धा क्षीरं मायामयं स्मृतम् ।
विरोचनस्तु वत्सोऽभूदायसं पात्रमेव च ॥१०४॥

यक्षाणामामपात्रं तु वत्सो वैश्रवणः प्रभुः ।
दोग्धा रजतनाभस्तु क्षीरान्तर्धानमेव च ॥१०५॥

सुमाली राक्षसेन्द्राणां वत्सं क्षीरं च शोणितम् ।
दोग्धा रजतनाभस्तु कपालं पात्रमेव च ॥१०६॥

गन्धर्वाणां चित्ररथो वत्सः पात्रं च पङ्कजम् ।
दोग्धा च सुरुचिः क्षीरं तेषां गन्धः शुचिः स्मृतः ॥१०७॥

शैलं पात्रं पर्व्वतानां क्षीरं रत्नौषधीस्तथा ।
वत्सस्तु हिमवानासीद्दोग्धा मेरुर्महागिरिः ॥१०८॥

प्लक्षो वत्स्तु वृक्षाणां दोग्धा सालस्तु पुष्पितः ।
पालाशपात्रं क्षीरञ्च छिन्नदग्धप्ररोहणम् ॥१०९॥

सेयं धात्री विधात्री च पावनी च वसुन्धरा ।
चराचरस्य सर्व्वस्य प्रतिष्ठा योनिरेव च ॥११०॥

सर्व्वकामदुधा दोग्ध्री सर्व्वशस्यप्ररोहणी ।
आसीदियं समुद्रान्ता मेदिनी परिविश्रुता ॥१११॥

मधुकैटभयोः सृत्स्ना मेदसा समभिप्लुता ।
तेनेयं मेदिनी देवी उच्यते ब्रह्मवादिभिः ॥११२॥

ततोऽभ्युपगमाद्राज्ञः पृथोर्वैण्यस्य भो द्विजाः ।
दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते ॥११३॥

पृथुना प्रविभक्ता च शोधिता च वसुन्धरा ।
शस्याकरवती स्फीता पुरपत्तनशालिनी ॥११४॥

एवम्प्रभावो वैण्यः स राजासीद्राजसत्तमः ।
नमस्यश्चैव पूज्यश्च भूतग्रामैर्न संशयः ॥११५॥

ब्राह्मणैश्च महाभागैर्व्वेदवेदाङ्गपारगैः ।
पृथुरेव नमस्कार्य्यो ब्रह्मयोनिः सनातनः ॥११६॥

पार्थिवैश्च महाभागैः पार्थिवत्वमिहेच्छुभिः ।
आदिराजो नमस्कार्य्यः पृथुर्वैण्यः प्रतापवान् ॥११७॥

योधैरपि च विक्रान्तैः प्राप्नुकामैर्जयं युधि ।
आदिराजो नमस्कार्य्यो योधानां प्रथमो नृपः ॥११८॥

यो हि योद्धा रणं याति कीर्त्तयित्वा पृथुं नृपम् ।
सघोररूपात्संपात्संग्रामात् क्षेमो भवति कीर्त्तिमान् ॥११९॥

वैश्यैरपि च वित्ताढ्यैर्वैश्यवृत्तिविधायिभिः ।
पृथुरेव नमस्कार्य्यों वृत्तिदाता महायशाः ॥१२०॥

तथैव शूद्रैः शुचिभिस्त्रिवर्णपरिचारिभिः ।
पृथुरेव नमस्कार्य्यः श्रेयः परमिहेप्सुभिः ॥१२१॥

एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च ।
पात्राणि च मयोक्तानि किं भूयो वर्णयामि वः ॥१२२॥

इति श्रीब्राह्मे महापुराणे पृथोर्जन्ममाहात्म्यकथनं नाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP