TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ३२

ब्रह्मपुराणम् - अध्यायः ३२

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः ३२
मार्तण्डजन्ममाहात्म्य-वर्णनम्
मुनय ऊचुः
निर्गुणः शाश्वतो देवस्त्वया प्रोक्तो दिवाकरः ।
पुनर्द्वादशधा जातः श्रुतोऽस्माभिस्त्वयोदितः ॥१॥

स कथं तेजसो रश्मिः स्त्रिया गर्भे महाद्युतिः ।
सम्भूतो भास्करो जातस्तत्र नः संशयो महान् ॥२॥

ब्रह्मोवाच
दक्षस्य हि सुताः श्रेष्ठा बभूवुः षष्टि शोभनाः ।
अदितिर्दितिर्दनुश्चैव विनताद्यास्तथैव च ॥३॥

दक्षस्ताः प्रददौ कन्याः कश्यपाय त्रयोदश ।
अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् ॥४॥

दैत्यान्दितिर्दनुश्चोग्रान्दानवान् बलदर्पितान् ।
विनताद्यास्तथा चान्याः सुषुवुः स्थाणुजङ्गमान् ॥५॥

तस्याथ पुत्रदौहित्रैः पौत्रदौहित्रकादिभिः ।
व्याप्तमेतज्जगत् सर्व्व तेषां तासां च वै मुने ॥६॥

तेषां कश्यपपुत्राणां प्रधाना देवतागणाः ।
सात्त्विका राजासाश्चान्ये तामसास्च गणाः स्मृताः ॥७॥

देवान्यज्ञबुजश्चक्रे तथा त्रिभुवनेश्वरान् ।
स्रष्टा ब्रह्मविदां श्रेष्ठः परमेष्ठो प्रजापतिः ॥८॥

तानबाधन्त सहिताः सापत्न्याद्‌दैत्यदानवाः ।
ततो निराकृतान् पुत्रान्दैतेयैर्दानवैस्तथा ॥९॥

हतं त्रिभुवनं दुष्ट्वा अदितिर्मुनिसत्त्माः ।
आच्छिनद्‌यज्ञभागांश्च श्रुधासम्पीडितान् भृशम् ॥१०॥

आराधनाय सवितुः परं यत्नं प्रचक्रमे ।
एकाग्रा नियताहारा परं नियममास्थिता ।
तुष्टाव तेजसां राशिं गगनश्थं दिवाकरम् ॥११॥

नमस्तुभ्यं परं सूक्ष्मं सुपुण्यं बिभ्रतेऽतुलम् ।
धाम धामवतामीशं धामाधारं च शाश्वतम् ॥१२॥

जगतामुपकाराय त्वामहं स्तौमि गोपते ।
आददानस्य यद्रूपं तीव्रं तस्मै नमाम्यहम् ॥१३॥

ग्रहीतुमष्टमासेन कालेनाम्बुमयं रसम् ।
बिभ्रतस्तव यद्रूपमृग्‌यजुःसाम्नामैक्येन तपते तव ॥१४॥

समेतमग्निषोमाभ्यां नमस्तस्मै गुणात्मने ।
यद्रुपमृग्‌यजुःसाम्नामैक्येन तपते तव ॥१५॥

विश्वमेतत्त्रयीसंज्ञं नमस्तस्मै विभावसो ।
यत्तु तस्मात्परं रूपमोमित्युक्त्वाभिसंहितम् ॥१६॥

ब्रह्मोवाच
एवं सा नियता देवी चक्रे स्तोत्रमहर्निशम् ।
निराहारा विवस्वन्तमारिराधयिषुर्द्विजाः ॥१७॥

ततः कालेन महाता भगवांस्तपनो द्विजाः ।
प्रत्यक्षतामगात्तस्या दाक्षायण्या द्विजोत्तमाः ॥१८॥

सा ददर्श महाकूटं तेजसोऽम्बरसंवृतम्‌ ।
भूमौ च संस्थितं भास्वज्ज्वालाभिरतिदुर्दृशम् ॥१९॥

तं दृष्ट्वा च ततो देवी साध्वसं परमं गता ॥२०॥

जगदाद्य प्रसीदेति न त्वां पश्यामि गोपते ।
प्रसादं कुरु पश्येयं यदूपं ते दिवाकर भक्तानुकम्पक विभो त्वद्भक्तान् पाहि मे सुतान् ॥२१॥

ब्रह्मोवाच
ततः स तेजसस्तस्मादाविर्भूतो विभावसुः ।
अदृश्यत तदादित्यस्तप्तताम्रोपमः प्रभुः ॥२२॥

ततस्तां प्रणतां देवीं तस्यासन्दर्शने द्विजाः ।
प्राह भास्वान् वृणुष्वैकं वरं मत्तो यमिच्छसि ॥२३॥

प्रणता शिरसा सा तु जानुपीडितमेदिनी ।
प्रत्युवाच विवस्वन्तं वरदं समुपस्थितम् ॥२४॥

अदितिरुवाच
देव प्रसीद पुत्राणां हृतं त्रिभुवनं मम ।
यज्ञभगाश्च दैतेयैर्दानवैश्च बलाधकैः ॥२५॥

तन्निमित्तं प्रसादं त्वं कुरुष्व मम गोपते ।
अंशेन तेषां भ३तृत्वं गत्वा तान्नाशये रिपून् ॥२६॥

यथा मे तनया भूयो यज्ञभागभुजः प्रभो ।
भवेयुरधिपाश्चैव त्रैलोक्यस्य दिवाकर ॥२७॥

तथानुकल्पं पुत्राणआं सुप्रसन्नो रवे मम ।
कुरु प्रसन्नार्त्तिहर कार्य्यं कर्त्ता त्वमुच्यते ॥२८॥

ब्रह्मोवाच
ततस्तामाह भगवान् भास्करो वारितस्करः ।
प्रणतामदितिं विप्राः प्रसादसुमुखो विभुः ॥२९॥

सहस्रांशेन ते गर्भः सम्भूयाहमशेषतः ।
त्वत्पुत्रशत्रून् दक्षोऽहं नाशयाम्याशु निर्वृतः ॥३०॥

ब्रह्मोवाच
इत्युक्त्वा भगवान् भास्वानन्तर्धानमुपागतः ।
निवृत्ता सापि तपसः सम्प्राप्ताखिलवाञ्छिता ॥३१॥

ततो रश्मिसहस्रात्तु सुषुम्णाख्यो रवेः करः ।
ततः संवत्सरस्यान्ते तत्कमपूरणाय सः ॥३२॥

निवासं सविता चक्रे देवमातुस्तदोदरे ।
कृच्छ्रचान्द्रायणादींश्च सा चक्रे सुसमाहिता ॥३३॥

शुचिना धारयाम्येनं दिव्यं गर्भमिति द्विजाः ।
ततस्तां प्राह किञ्चित्कोंपप्लुताक्षरम् ॥३४॥

कश्यप उवाच
किं मारयसि गर्भाण्डमिति नित्योपदासिनी॥

ब्रह्मोवाच
सा च तं प्राह गर्भण्डमेतत्पश्येति कोपना ।
न मारितं विपक्षाणां मृत्युरेव भविष्यति ॥३५॥

इत्युक्त्वा तं तदा गर्भमुत्सासर्ज सुरारणिः ।
जाज्वल्यमानं तेजोभिः पत्युर्वचनकोपिता ॥३६॥

तं दृष्ट्वा कश्यपो गर्भमुद्यद्‌भास्करवर्च्चसम् ।
तुष्टाव प्रणतो भूत्वा वाग्‌भिराद्याभिरादरात् ॥३७॥

संस्तूयमानः स तदा गर्भाण्डात् प्रकटोऽभवत् ।
पद्मपत्रसवर्णाभस्तेजसा व्याप्तदिङमुखः ॥३८॥

अथान्तरिक्षादाभाष्य कश्यपं मुनिसत्तमम् ।
सतोयमेघगम्भीरा वागुवाचाशरीरिणी ॥३९॥

वागुवाच
मारितमिति यत्‌ प्रोक्तमेतदण्डं त्वयादितेः ।
तस्मान्मुने सुतस्तेऽयं मार्त्तण्डाख्यो भविष्यति ॥४०॥

हनिष्यत्यमुरांश्चायं यज्ञभागहरानरीन् ।
देवा निशम्येति वची गगनात् समुपागतम् ॥४१॥

प्रहर्षमतुलं याता दानवाश्च हतौजसः ।
ततो युद्धाय दैतेयानाजुहाव शतक्रतुः ॥४२॥

सह देवैर्मुदा युक्ता दानवाश्च तमभ्ययुः ।
तेषां युद्धमबूद्‌घोरं देवानामसुरैः सह ॥४३॥

शस्त्रास्त्रवृष्टिसन्दीप्तसमस्तबुवनान्तरम् ।
तस्मिन् युद्धे भगवता मार्त्तण्डेन निरीक्षिताः ॥४४॥

तेजसा दह्यमानास्ते भस्मीभूता महासुराः ।
ततः प्रहर्षमतुलं प्राप्ताः सर्व्वे दिवौकसः ॥४५॥

तुष्टुवुस्तेजसां योनिं मार्त्तण्डमदितिं तथा ।
स्वाधिकारांस्ततः प्राप्ता यज्ञभागांश्च पूर्व्ववत् ॥४६॥

भगवानपि मार्त्तण्डः स्वाधिकारमथाकरोत् ।
कदम्बपुष्पवद्भास्वानधश्चोद्‌र्ध्वञ्च रश्मिभिः ।
वृतोऽग्निपिण्डसदृशो दध्रे नातिस्फुटं वपुः ॥४७॥

मुनय ऊचुः
कथं कान्ततरं पश्चाद्रूपं संलब्धवान् रविः ।
कदम्बगोलकाकारं तन्मे ब्रूहि जगत्पते ॥४८॥

ब्रह्मोवाच
त्वष्टा तस्मा ददौ कन्यां संज्ञां नाम विवस्वते ।
प्रसाद्य प्रणतो भूत्वा विश्वकर्म्मा प्रजापतिः ॥४९॥

त्रीण्यपत्यान्यसौ तस्यां नजयामास गोपतिः ।
द्वौ पुत्रौ सुमहाभागौ कन्याञ्च यमुनां तथा ॥५०॥

यत्तेजोऽभ्यधिकं तस्य मार्त्तण्डस्य विवस्वतः ।
तेनातितापयामास त्री ल्लोकान् सचराचरान् ॥५१॥

तद्रूपं गोलकाकारं दृष्ट्वा संज्ञा विवस्वतः ।
असहन्ती महत्तेजः स्वां छायां वाक्यमब्रवीत् ॥५२॥

संज्ञोवाच
अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः
निर्व्विकारं त्वयात्रैव स्थेयं मच्छासनाच्छुभे ॥५३॥

इमौ च बालकौ मह्यं कन्या च वरवर्णिनी ।
सम्भाव्या नैव चाख्येमिदं भगवते त्वया ॥५४॥

छायोवाच
आ कचग्रहणाद्‌दे वि आ शापान्नैव कर्हिचित् ।
आख्यास्यामि मतं तुभ्यं गम्यता यत्र वाञ्छितम् ॥५५॥

इत्युक्त्वा व्रीडिता संज्ञा जगाम पितृमन्दिरम् ।
वत्सराणां सहस्रान्तु वसमाना पितुर्गुहे ॥५६॥

भर्त्तुः समीपं याहीति पित्रोक्या सा पुनः पुनः ।
आगच्छद्वडवा भूत्वा कुरूनथोत्तरांस्ततः ॥५७॥

तत्र तेपे तपः साध्वी निराहारा द्विजोत्तमाः ।
पितुः समीपं यातायां संज्ञायां वाक्यतत्परा ॥५८॥

तद्रुपधारिणी छाया भास्करं समुपस्थिता ।
तस्याञ्च भगवान् सर्य्यः संज्ञेयमिति चिन्तयन् ॥५९॥

तथैव जनयामास द्वौ कुत्रौ कन्यकां तथा ।
संज्ञा तु पार्थिवी तेषामात्मजानां तथाकरोत् ॥६०॥

स्नेहं न पूर्व्वजातानां तथा कृतवती तु सा ।
मनुस्तत्तक्षान्तवांस्तस्या यमस्तस्या न चक्षमे ॥६१॥

बहुधा पीड्यमानस्तु पितुः पत्न्या सुदुःखितः ।
स वै कोपाच्च बाल्याच्च भाविनोऽर्थस्य वै बलाम् ।
पदा सन्तर्ज्जयामास न तु देहे न्यपातयत् ॥६२॥

छायोवाच
पदा तर्ज्जयस यस्मात्पितुर्भार्य्यां गरीयसीम् ।
तस्मात्त्वैष चरणः पतिष्यति न संशयः ॥६३॥

ब्रह्मोवाच
यमस्तु तेन शापेन भृशं पीडितमानसः ।
मनुना सह धर्म्मात्मा पित्र सर्व्वं न्यवेदयत् ॥६४॥

यम उवाच
स्नेहेन तुल्यमस्मासु माता देव न वर्त्तते ।
विसृज्य ज्यायसं भक्त्या कनीयांसं बुभूषति ॥६५॥

तस्यां मयोद्यतः पादौ न तु देहे निपातितः ।
बाल्याद्वा यदि वा मोहात्तद्भवान् क्षन्तुमहसि ॥६६॥

शप्तोऽहं तात कोपेन जनन्या तनयो यतः ।
ततो मन्ये न जननीमिमां वै तपतांवर ॥६७॥

तव प्रसादाच्चरणो भगवन् न पतेद्‌यथा ।
मातृशापादयं मेऽद्य तथा चिन्तय गोपते ॥६८॥

रविरुवाच
असंशयं महत्पुत्र भविष्यत्यत्र कारणम् ।
येन त्वामाविसत्क्रोधो धर्म्मज्ञं धर्म्मशीलिनम् ॥६९॥

सर्व्वेषामव शापानां प्रतिगातो हि विद्यते ।
न तु मात्राभिशप्तानां क्वचिच्छापनिवर्त्तनम् ॥७०॥

न शक्यमेतन्मिथ्या तु कर्त्तुः मातुर्वचस्तव ।
किञ्चित्तेऽहं विधास्यामि पुत्रस्नेहादनुग्रहम् ॥७१॥

कृमयो मांसमादाय प्रयास्यन्ति महीतलम् ।
कृतं तस्या वचः सत्यं त्वञ्च त्रातो भविष्यसि ॥७२॥

ब्रह्मोवाच
आदित्यस्त्वब्रवीच्छायां किमर्थं तनयेषु वै ।
तुल्येष्यधिकः स्नेह एकं प्रति कृतस्त्वया ॥७३॥

नूनं नैषां त्वं जननी संज्ञा कापि त्वमागता ।
गिर्गुणेष्वप्यपत्येषु माता शापं न दास्यति ॥७४॥

सा तत्परिहरन्ती च शापाद्‌भीता तदा रवेः ।
कथयामास वृत्तान्तं स श्रुत्वा श्वशुरं ययौ ॥७५॥

स चापि तं यथान्यमर्च्चयित्वा तदा रविम् ।
निर्दग्धुकामं रोषेण सान्त्वयानस्तमब्रवीत् ॥७६॥

विश्वकर्मोवाच
तवातितेजसा व्याप्तमिदं रूपं सुदुःसहम् ।
असहन्ती तु तत्संज्ञा वने चरति वै तपः ॥७७॥

द्रक्ष्यते तां भवानद्य स्वां भार्य्यां शुभचारिणीम् ।
रूपार्थं भवतोऽरण्ये चरन्तीं सुमहात्तपः ॥७८॥

श्रुतं मे ब्रह्मणो ध्वाक्यं तव तेजोऽवरोधने ।
रूपं निर्वर्त्तयाम्यद्य चतव कान्तं दिवस्पते ॥७९॥

ततस्तथेति तं प्राह त्वष्टारं भगवान् रविः ।
ततो विवस्वतो रूपं प्रागासीत्परिमण्डलम् ॥८०॥

विश्ववकर्म्मा त्वनुज्ञातः शाकद्वीपे विवस्वता ।
भ्रमिमारोप्य तत्तेजःशातनायोपचक्रमे ॥८१॥

भ्रमताशेषजगतां नाभिभूतेन भास्वता ।
समुद्राद्रिवनोपेता त्वारुरोह महो नभः ॥८२॥

गगनञ्चाखिलं विप्राः सचन्द्रगाहतारकम् ।
अधो गतं महाभागा बभूवाक्षिप्तमाकुलम् ॥८३॥

विक्षिप्तसलिलाः सर्व्वे बभूवुश्च तथार्णवाः ।
व्यभिद्यान्त महाशैलाः शीर्णसानुनिबन्धनाः ॥८४॥

ध्रुवाधाराण्यशेषाणि धिष्ण्यानि मुनिसत्तमाः ।
त्रुट्यद्रश्मिनिबन्धीनि बन्धनानि अधो ययुः ॥८५॥

वेगभ्रमणसम्पातवायुक्षिप्तां सहस्रशः ।
व्यशीर्य्यन्त महामेघा घोराविविराविणः ॥८६॥

भास्वद्भ्रामणंविभ्रान्तभूम्याकाशरसातलम् ।
जगदाकुलमत्यर्थं तदासीन्मुनिसत्तमाः ॥८७॥

त्रैलोक्यमाकुलं वीक्ष्य भ्रममाणं सुर्षयः ।
देवाश्च ब्रह्मणा सार्द्ध भास्वन्तमभितुष्टुवुः ॥८८॥

आदिदेवोऽसि देवानां जातस्त्वंभूतये भुवः ।
स्वर्गस्थित्यन्तकालेषु त्रिदा भेदेन तिष्ठसि ॥८९॥

स्वस्ति तेऽस्तु जगन्नाथ घर्म्मवर्ष दिवाकर ।
इन्द्रादयस्तदा देवा लिख्यमानमथास्तुवन् ॥९०॥

जय देव जगत्स्वामिन् जयाशेष जगत्पते ।
ऋषयश्च ततः सप्त वसिष्ठात्रिपुरोगमाः ॥९१॥

तुष्टुवुर्विधैः स्तोत्रैः स्वस्ति स्वस्वीतिवादिनः ।
वेदोक्तिभिरथआग्य्राभिर्वालखित्याश्च तुष्टुवुः ॥९२॥

अग्निराद्याश्च भास्वन्तं लिख्यमानं मुदा युताः ।
त्वं नाथ मोक्षिणां मोक्षो ध्येयस्त्वं ध्यानिनां परः ॥९३॥

त्वं गतिः सर्व्वभूतानां कर्म्मकाण्डविविर्त्तिनाम् ।
सम्पूज्यस्त्वं तु देवेश शं नोऽस्तु जगतां पते ॥९४॥

शं नोऽस्तु द्विपदे नित्यं शं नश्चास्तु चतुष्पदे ।
ततो विद्याधरगणा यक्षराक्षसपन्नगाः ॥९५॥

कृताञ्जलिपुटाः सर्व्वे शिरोभिः प्रणता रविम् ।
ऊचुस्ते विविधा वाचो मनःश्रोत्रसुखावहाः ॥९६॥

सह्यां भवतु तेजस्ते भूतानां भूतभावन ।
ततो हाहाहूहूश्चैव नारदस्तुम्बुरुस्तथा ॥९७॥

उपगायितुमारब्धा गान्धर्व्वकुशला रविम् ।
षड्जमध्यमगान्धारगानत्रयविशारदाः ॥९८॥

मूर्च्छनाभिश्च तालैश्च सम्प्रयोगैः सुखप्रदम् ।
विश्वाची च घृताची च उर्व्वश्यथ तिलोत्तमा ॥९९॥

मेनका सहजन्या च रम्भा चाप्सरसांवराऽ
ननृतुर्जगतामीशे लिख्यमाने विभावसौ ॥१००॥

भावहासविलासाद्यान् कुर्व्वत्योऽभिनयान्बहून् ।
प्रावाद्यन्त ततस्तत्र वीणा वेष्वादिझर्झराः ॥१०१॥

पणवाः पुष्कराश्चैव मृदङ्गाः पटहानकाः ।
देवदुन्दुभयः शङखाः शतशोऽथ सहस्रशः ॥१०२॥

गायद्‌भिश्चैव नृत्यद्‌भिर्गन्धर्व्वै रप्सरोगणैः ।
तूर्य्यवादित्रघोषैश्च सर्व्वं कोलाहलीकृतम् ॥१०३॥

ततः कृताञ्जलिपुटा भक्तिनम्रात्ममूर्त्तयः ।
लिख्यमानं सहस्रांशुं प्रणेमुः सर्व्वदेवताः ॥१०४॥

ततः कोलाहले तस्मिन् सर्व्वदेवसमागमे ।
तेजसः शातनं चक्रे विश्वकर्म्मा शनैः शनैः ॥१०५॥

आजानुलिखितश्चासौ निपुणं विश्वकर्म्मणा ।
नाभ्यनन्दत्तु लिखनं ततस्तेनावतारितः ॥१०६॥

न तु निर्भर्त्सितं रूपं तेजसो हननेन तु ।
कान्तात्कान्ततरं रूपमधिकं शुशुभे ततः ॥१०७॥

इति हिमजलघर्म्मकालहेतोर्हरकमलासनविष्णुसंस्तुतस्य ।
तदुपरि लिखनं निशम्य भानोर्व्रजति दिवाकरलोकमायुषोऽन्ते ॥१०८॥

एवं जन्म रवेः पूर्व्वं बभूव मुनिसत्तमाः ।
रूपञ्च परमं तस्य मया सम्परिकोर्त्तितम् ॥१०९॥

इति श्रीब्राह्मे महापुराणे मार्त्तण्डजन्मशरीरलिखनं नाम द्वात्रिंशोऽध्यायः॥ ३२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:35.1470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

with replacement

  • परत ठेवून 
RANDOM WORD

Did you know?

shreeyantra siddha kase karave ?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.