संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १४५

ब्रह्मपुराणम् - अध्यायः १४५

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


मार्कण्डेयतीर्थवर्णनम्
ब्रह्मोवाच
मार्कण्डेर्यं नाम तीर्थं सर्वपापविमोचनम् ।
सर्वक्रतुफलं पुण्यमगौघविनिवारणम् ॥१॥

तस्य प्रभावं वक्ष्यामि श्रृणु नारद यत्नतः ।
मार्कण्डेयो भरद्वाजो वसिष्ठोऽत्रिश्च गौतमः ॥२॥

याज्ञवल्क्यस्च जाबालिर्मुनयोऽन्येऽपि नारद ।
एते शास्त्रप्रणेतारो वेदवेदाङ्गपारगाः ॥३॥

पुराणन्यायमीमांसाकथासु परिनिष्ठिताः ।
मिथः समूचुर्विद्वांसो मुक्तिं प्रति यथामति ॥४॥

केचिज्ज्ञानं प्रशंसन्ति केचित्कर्म तथोऽभयम् ।
एवं विवदमानास्ते मामूचुरुभयं मतम् ॥५॥

मदीयं तु मतं ज्ञात्वा ययुश्चक्रगदाधरम् ॥
तस्य चापि मतं ज्ञात्वा ऋषयस्ते महौजसः ॥६॥

पुनर्विवदमानास्ते शंकरं प्रष्टुमुद्यताः ।
गङ्गायां च भवं पूज्य तमेवार्थ शशंसिरे ॥७॥

कर्मणस्तु प्रधानत्वमुवाच त्रिपुरान्तकः ।
क्रियारूपं च तज्ज्ञानं क्रिया सैव तदुच्यते ॥८॥

तस्मात्सर्वाणि भूतानि कर्मणा सिद्धिमाप्नुयुः ।
कर्मैव विश्वतोव्यापि तदृते नास्ति किंचन ॥९॥

विद्याभ्यासो यज्ञकृतिर्योगाभ्यासः शिवार्चनम् ।
सर्व कर्मैव नाकर्मी प्राणी क्वाप्यत्र विद्यते ॥१०॥

कर्मैव कारणं तस्मादन्यदुन्मत्तचेष्टितम् ।
ऋषीणां यत्र संवादो यत्र देवो महेश्वरः ॥११॥

चकार निर्णयं सर्वं कर्मणाऽवाप्यते नृभिः ।
मार्कण्डं सुख्यतः कृत्वा ततो मार्कण्डमुच्यते ॥१२॥

तीर्थमृषिगणकीर्णं गङ्गाया उत्तरे तटे ।
पितॄणां पावनं पुण्यं स्मरणादपि सर्वदा ॥१३॥

तत्राष्टौ नवतिस्तात तीर्थान्याह जगन्मयः ।
वेदेन चापि तत्प्रोक्तमृषयो मेनिरे च तत् ॥१४॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये मार्कण्डेयाद्यष्टनवतितीर्थवर्णनं नाम पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥१४५॥

गौतमीमाहात्म्ये षट्‌सप्ततितमोऽध्यायः ॥७६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP