संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ८३

ब्रह्मपुराणम् - अध्यायः ८३

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ त्र्यशीतितमोऽध्यायः
दशाश्वमेधतीर्थवर्णनम्
ब्रह्मोवाच
दशाश्वमेधिकं तीर्थं तच्छृणुष्व महामुने ।
यस्य श्रवणमात्रेण हयमेधफलं लभेत् ॥१॥

विश्वकर्मसुतः श्रीमान्विश्वरूपो महाबलः ।
तस्यापि प्रथमः पुत्रस्तत्पुत्रो भौवनो विभुः ॥२॥

पुरोधाः कश्यपस्तस्य सर्वज्ञानविशारदः ।
तमपृच्छन्महाबाहुर्भौवनः सार्वभौवनः ॥३॥

यक्ष्येऽहं हयमेधैश्च युगपद्दशभिर्मुने ।
इत्यपृच्छद्गृरुं विप्रं क्व यक्ष्यामि सुरानिति ॥४॥

सोऽवदद्देवयजनं तत्र तत्र नृपोत्तम ।
यत्र यत्र द्विजश्रेष्ठाः प्रावर्तन्त महाक्रतून् ॥५॥

तत्राभवन्नृषिगणा आर्त्विज्ये मखमण्डले ।
युगपद्दशमेधानि प्रवृत्तानि पुरोधसा ॥६॥

पूर्णतां नाऽऽययुस्तानि दुष्ट्वा चिन्तापरो नृपः ।
विहाय देवयजनं पुनरन्यत्र तान्क्रतून् ॥७॥

उपाक्रमत्तथा तत्र विघ्नदोषास्तमाययुः ।
दृष्ट्वाऽपूर्णंस्ततो यज्ञान्राजा गुरुभाषत ॥८॥

राजोवाच
देशदोषात्कालदोषान्मम दोषात्तवापि वा ।
पूर्णतां नाऽऽप्नुवन्ति स्म दशमेधानि वाजिनः ॥९॥

ब्रह्मोवाच
ततश्च दुःखितो राजा कश्यपेन पुरोधसा ।
गीष्पतेर्भ्रातरं ज्येष्ठं गत्वा संवर्तमूचतुः ॥१०॥

कश्यपभौवनावूचतुः
भगवन्युगपत्कार्याण्यश्वमेधानि मानद ।
दश संपूर्णतां यान्ति तं देशं तं गुरुं वद ॥११॥

ततो ध्यात्वा ऋषिश्रेष्ठः संवर्तो तदा ।
अब्रवीद्गच्छ ब्रह्माणं गुरुं वदिष्यति ॥१२॥

भौवनोऽपि महाप्राज्ञः कश्यपेन महात्मना ।
आगत्य मामब्रवीच्च गुरुं देशादिकं च यत् ॥१३॥

ततोऽहमब्रवं पुत्र भौवनं कश्यपं तथा ।
गौतमीं गच्छ राजेन्द्र स देशः क्रतुपुण्यवान् ॥१४॥

अयमेव गुरुः श्रेष्ठः कश्यपो वेदपारगः ।
गुरोरस्य प्रसादेन गौतम्याश्च प्रसादतः ॥१५॥

एकेन हयमेधेन तत्र स्नानेन वा पुनः ।
सेत्स्यन्ति तत्र यज्ञाश्च दशमेधानि वाजिनः ॥१६॥

तच्छ्रुत्वा भौवनो राजा गौतमीतीरमभ्यगात् ।
कश्यपेन सहायेन हयमेधाय दीक्षितः ॥१७॥

ततः प्रवृत्ते यज्ञेशे हयमेधे महाक्रतौ ।
संपूर्णे तु तदा राजा पृथिवीं दातुमुद्यतः ॥१८॥

ततोऽन्तरिक्षे वागुच्चैरुवाच नृपसत्तमम् ।
पूजयित्वा स्थितं विप्रानृत्विजोऽथ सदस्पतीन् ॥१९॥

आकाशवगुवाच
पुरोधसे कश्यपाय सशैलवनकाननाम् ।
पृथिवीं दातुकामेन दत्तं सर्वं त्वया नृपः ॥२०॥

भूमिदानस्पृहां त्यक्त्वा अन्नं देहि महाफलम् ।
नान्नदानसमं पुण्यं त्रिषु लोकेषु विद्यते ॥२१॥

विशेषतस्तु गङ्गायाः श्रद्धया पुलिने मुने ।
त्वया तु हयमेधोऽयं कृतः सबहुदक्षिणः ॥
कृतकृत्योऽसि भद्रं ते नात्र कार्या विचारणा ॥२२॥

ब्रह्मोवाच
तथाऽपि दातुकामं तं मही प्रोवाच भौवनम् ॥२३॥

पृथिव्युवाच
विश्वकर्मज सार्वभौम मा मां देहि पुनः पुनः ।
निमज्जेऽहं सलिलस्य मध्ये तस्मान्न दीयताम् ॥२४॥

ब्रह्मोवाच
ततश्च भौवनो भीतः किं देयमिति चाब्रवीत् ।
पुनश्चोवाच सा पृथ्वी भौवनं ब्राह्मणैर्वृतम् ॥२५॥

भूम्युवाच
तिला गावो धनं धान्यं यत्किंचिद्गौतमीतटे ।
सर्वं तदक्षयं दानं किं मां भौवन दास्यसि ॥२६॥

गङ्गातीरं समाश्रित्य ग्रासमेकं ददाति यः ।
तेनाहं सकला दत्ता किं मां भौवन दास्यसि ॥२७॥

ब्रह्मोवाच
तद्भुवो वचनं श्रुत्वा भौवनः सार्वभौवनः ।
तथेति मत्वा विप्रेभ्यो ह्यन्नं प्रादात्सुविस्तरम् ॥२८॥

ततः प्रभृति तत्तीर्थं दशाश्वमेधिकं विदुः ।
दशानामश्वमेधानां फलं स्नानागदवाप्यते ॥२९॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये दशाश्वमेधतीर्थवर्णनं नाम त्र्यशीतितमोऽध्यायः ॥८३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP