TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ११८

ब्रह्मपुराणम् - अध्यायः ११८

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः ११८
अथाष्टादशाधिकशततमोऽध्यायः
अश्वत्थादितीर्थवर्णनम्
ब्रह्मोवाच
अश्वत्थतीर्थमाख्यातं पिप्पलं च ततः परम् ।
उत्तरे मन्दतीर्थं तु तत्र व्यष्टिमित श्रृणु ॥१॥

पुरा त्वगस्त्यो भगवान्दक्षिणाशापतिः प्रभुः ।
देवैस्तु प्रेरितः पूर्वं विन्घ्यस्य प्रार्थनं प्रति ॥२॥

स शनैर्विन्ध्यमभ्यागात्सहस्रमुनिभिर्वृतः ।
तमागत्य नगश्रेष्ठं बहुवृक्षसमाकुलम् ॥३॥

स्पर्धिनं मेरुभानुभ्यां विन्घ्यं श्रृङ्गशतैर्वृतः ।
अत्युन्नतं नगं धीरो लोपामुद्रापतिर्मुनिः ॥४॥

कृतातिथ्यो द्विजैः सार्धं प्रशस्य च नगं पनः ।
इदमाह मुनिश्रेष्ठो देवकार्यार्थसिद्धये ॥५॥

अगस्त्य उवाच
अहं यामि नगश्रेष्ठ मुनिभिस्तत्तवदर्शिभिः ।
तीर्थयात्रां करोमीति दक्षिणाशां व्रजाम्यहम् ॥६॥

देहि मार्गं नगपते आतिथ्यं देहि याचते ।
यावदागमनं मे स्यात्स्थातव्यं तावदेव हि ॥७॥

नान्यथा भवितव्यं ते तथेत्याह नगोत्तमः ।
आक्रामन्दक्षिणामाशां तैर्वृतो मुनिभिर्मुनिः ॥८॥

शनैः स गौतमीमागात्सत्रयागाय दीक्षितः ।
यावत्संवत्सरं सत्रमकरोदृषिभिर्वृतः ॥९॥

कैटभस्य सुतौ पापौ राक्षसौ धर्मकण्टकौ ।
अश्वत्थः पिप्पलश्चेति विख्यातौ त्रिदशालये ॥१०॥

अश्वत्थोऽश्वत्थरूपेण पिप्पलो ब्रह्मरूपधृक् ।
तावुभावन्तरं प्रेप्सू यज्ञविघ्वंसनाय तु ॥११॥

कुरुतां काङक्षितं रूपं दानवौ पापचेतसौ ।
अश्वत्थो वृक्षरूपेण पिप्पलो ब्राह्मणाकृतिः ॥१२॥

उभौ तौ ब्राह्मणान्नित्यं पीडयेतां तपोधन ।
आलभन्ते च येऽश्वत्तं तांस्तानश्नात्यसौ तरुः ॥१३॥

पिप्पलः सामगो भूत्वा शिष्यानश्नाति राक्षसः ।
तस्मादद्यापि विप्रेषु सामगोऽतीव निष्कृपः ॥१४॥

क्षीयमाणान्द्विजान्दृष्ट्वा मुनयो राक्षसाविमौ ।
इति बुद्ध्वा महाप्राज्ञा दक्षिणं तीरमाश्रितम् ॥१५॥

सौरिं शनैश्चरं मन्दं तपस्यन्तं धृतव्रतम् ।
गत्वा मुनिगणाः सर्वे रक्षःकर्म न्यवेदयन् ॥१६॥

सौरिर्मुनिगणानाह पूर्णे तपसि मे द्विजाः ।
राक्षसौ हन्म्यपूर्णे तु तपस्यक्षम एव हि ॥१७॥

पुनः प्रोचुर्मुनिगण दास्यामस्ते तपो महत् ।
इत्युक्तो ब्राह्मणैः सौरिः कृतिमित्याह तानपि ॥१८॥

सौरिर्ब्राह्मणवेषेण प्रायादश्वत्थरूपिणम् ।
राक्षसं ब्राह्मणो भूत्वा प्रदक्षिणमथाकरोत् ॥१९॥

प्रदक्षिणं तु कुर्वाणं मेने ब्राह्मणमेव तम् ।
नित्यवद्राक्षसः पापो भक्षयामास मायया ॥२०॥

तस्य कायं समाविश्य चक्षुषाऽन्त्राण्यपश्यत ।
दृष्टः स राक्षसः पापो मन्देन रविसूनुना ॥२१॥

भस्मीभूतः क्षणेनैव गिरिर्वज्रहतो यथा ।
अश्वत्थं भस्मसात्कृत्वा अन्यं ब्राह्मणरूपिणम् ॥२२॥

राक्षसं पापनिलयमेक एव तमभ्यगात् ।
अधीयाने विप्र इव शिष्यरूपो विनीतवत् ॥२३॥

पिप्पलः पूर्वच्चापि भक्षयामास भानुजम् ।
स भक्षितः पूर्ववच्च कुक्षावन्त्राण्यवैक्षत ॥२४॥

तेनाऽऽलोकितमात्रोऽसौ राक्षसो भस्मासादभूत् ।
उभौ हत्वा भानुसुतः किं कृत्यं मे वदन्त्वथ ॥२५॥

मुनयो जातसंहर्षाः सर्व एव तपस्विनः ।
ततः प्रसन्ना ह्मभवन्नृषयोऽगस्त्यपूर्वकाः ॥२६॥

वरान्ददुर्यथाकामं सौरये मन्दगामिने ।
स प्रीतो ब्राह्मणानाह शनिः सूर्यसुतो बली ॥२७॥

सौरिरुवाच
मद्द्वारे नियता ये च कुर्वन्त्यश्वत्थलम्भनम् ।
तेषां सर्वाणि कार्याणि स्युः पीडा मद्भवा न च ॥२८॥

तीर्थे चाश्वत्थसंज्ञे वै स्नानं कुर्वन्ति ये नराः ।
तेषां सर्वाणि कार्याणि भवेयुरपरो वरः ॥२९॥

मन्दवारे तु येऽश्वत्थं प्रातरुत्थाय मानवाः ।
आभलन्ते च तेषां ग्रहपीडा व्यपोहतु ॥३०॥

ब्रह्मोवाच
ततः प्रभृति तत्तीर्थमश्वत्थं पिप्पलं विदुः ।
तीर्थं शनैश्चरं तत्र तत्रागस्त्यं च सात्रिकम् ॥३१॥

याज्ञिकं चापि तत्तीर्थं सामगं तीर्थमेव च ॥
इत्याद्यष्टोत्तराण्यासन्सहस्राण्यथ षोडश ॥
तेषु स्नानं च दानं च सत्रयागफलप्रदम् ॥३२॥

इति श्रीमहापुराणे आदिब्राह्मे गौतमीमाहात्म्येऽश्वत्थाद्यष्टोत्तरषोडशसहस्रतीर्थवर्णनं नामाष्टाधिकशततमोऽध्यायः ॥११८॥

गौतमीमाहात्म्य ऊनपञ्चाशत्तमोऽध्यायः ॥४९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:40.1130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दरकार

  • स्त्री. अडचण ; जरुरी ; गरज ; पर्वा ; आवश्यकता ; काळजी ; प्रयोजन ; संबंध . सिद्दी मर्द माणूस याची दरकार आहे . - वाडसमा २ . ४ . [ फा . ] 
RANDOM WORD

Did you know?

Are there any female godesses in Hinduism?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.