TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २०७

ब्रह्मपुराणम् - अध्यायः २०७

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २०७
पौण्ड्रकवधवर्णनम्
मुनय ऊचुः
चक्रे कर्ममहच्छौरिर्बिभ्रद्यो मानुषीं तनुम् ।
जिगाय शक्रं शर्वं च सर्वदेवांश्च लीलया ॥१॥

यच्चान्यदकरोत्कर्म दिव्यचेष्टाविघातकृत् ।
कथ्यतां तन्मुनिश्रेष्ठ परं कौतूहलं हि नः ॥२॥

व्यास उवाच
गदतो मे मुनिश्रेष्ठाः श्रूयतामिदमादरात् ।
नरावतारे कृष्णेन दग्धा वाराणसी यथा ॥३॥

पौण्‍ड्रको वासुदेवश्च वासुदेवोऽभवद्‌भुवि ।
अवतीर्णस्त्वमित्युक्तो जनैरज्ञानमोहितैः ॥४॥

स मेने वासुदेवोऽहमवतीर्णो महीतले ।
नष्टस्मृतिस्ततः सर्वं विष्णुचिह्नमचीकरत् ॥
दूतं च प्रेषयामास स कृष्णाय द्विजोत्तमाः ॥५॥

दूत उवाच
त्यक्त्वा चकादिकं चिह्नं मदीयं नाम माऽऽत्मनः ।
वासुदेवात्मकं मूढ मुक्त्वा सर्वमशेषतः ॥६॥

आत्मनो जीवितार्थं च तथा मे प्रणतिं व्रज ॥७॥

व्यास उवाच
इत्युक्तः स प्रहस्यैव दूतं प्राह जनार्दनः ॥८॥

श्रीभगवानुवाच
निजचिह्नमहं चक्रं समुत्स्रक्ष्ये त्वयीति वै ।
वाच्यश्च पौण्ड्रको गत्वा त्वया दूत वचो मम ॥९॥

ज्ञातस्त्वद्वाक्यसद्‌भावो यत्कार्यं तद्विधीयतां ।
गृहीतचिह्न एवाहमागमिष्यामि ते पुरम् ॥१०॥

उत्स्रक्ष्यामि च ते चक्रं निजचिह्नमसंशयम् ।
आज्ञापूर्वं च यदिदमागच्छेति त्वयोदितम् ॥११॥

संपादयिष्ये श्वस्तुभ्यं तदप्येषोऽविलम्बितम् ।
शरणं ते समभ्येत्य कर्ताऽस्मि नृपते तथा ॥
यथा त्वत्तो भयं भूयो नैव किंचिद्‌भविष्यति ॥१२॥

व्यास उवाच
इत्युक्तेऽपगते दूते संस्मृत्याभ्यागतं हरिः ।
गरुत्मन्तं समारुह्य त्वरितं तत्पुरं ययौ ॥१३॥

तस्यापि केशवोद्योगं श्रुत्वा काशिपतिस्तदा ।
सर्वसैन्यपरीवारपार्ष्णिग्राहमुपाययौ ॥१४॥

ततो बलेन महता काशिराजबलेन च ।
पौण्ड्रको वासुदेवोऽसौ केशवाभिमुखं ययौ ॥१५॥

तं ददर्श हरिर्दूरादुदारस्यन्दने स्थितम् ।
चक्रशङ्खगदापाणिं पाणिना विधृताम्बुजम् ॥१६॥

स्रग्धरं धृतशार्ङगं च सुपर्णरचनाध्वजम् ।
वक्षःस्थलकृतं चास्य श्रीवत्सं ददृशे हरिः ॥१७॥

किरीटकुण्डलधरं पीतवासःसमन्वितम् ।
दृष्ट्वा तं भावगम्भीरं जहास मधुसूदनः ॥१८॥

युयुधे च बलेनास्य हस्त्यश्वबलिना द्विजाः ।
निस्त्रिंशर्ष्टिगदाशूलशक्तिकार्मुकशालिना ॥१९॥

क्षणेन शार्ङगनिर्मुक्तैः शरैरग्निविदारणैः ।
गदाचक्रातिपातैश्च सूदयामास तद्‌बलम् ॥२०॥

काशिराजबलं चैव क्षयं नीत्वा जनार्दनः ।
उवाच पौण्ड्रकं मूढमात्मचिह्नोपलक्षणम् ॥२१॥

श्रीभगवानुवाच
पौण्ड्रकोक्तं त्वया यत्तद्‌दूतवक्त्रेण मां प्रति ।
समुत्सृजेति चिह्नानि तत्ते संपादयाम्यहम् ॥२२॥

चक्रमेतत्समुत्सृष्टं गदेयं चक्रेणासौ विदारितः ।
पोथितो गदया भग्नो गरुत्मामश्च गरुत्मता ॥२३॥

इत्युच्चार्य विमुक्तेन चक्रेणासौ विदारितः ।
पोथितो गदया भग्नो गरुत्मांश्च गरुत्मता ॥२४॥

ततो हाहाकृते लोके काशीनामधिपस्तदा ।
युयुधे वासुदेवेन मित्रस्यापचितौ स्थितः ॥२५॥

ततः शार्ङ्गविनिर्मुक्तैश्छित्त्वा तस्य शरैः शिरः ।
काशिपुर्यां स चिक्षेप कुर्वंल्लोकस्य विमस्यम् ॥२६॥

हत्वा तु पौण्ड्रकं शौरिः काशिराजं च सानुगम् ।
रेमे द्वारवतीं प्राप्तोऽमरः स्वर्गगतो यथा ॥२७॥

तच्छिरः पतितं तत्र दृष्ट्वा काशिपतेः पुरे ।
जनः किमेतादित्याह केनेत्यत्यन्तविस्मितः ॥२८॥

ज्ञात्वा तं वासुदेवेन हतं तस्य सुतस्ततः ।
पुरोहितेन सहितस्तोषयामास शंकरम् ॥२९॥

अविमुक्ते महाक्षेत्रे तोषितस्तेन शंकरः ।
वरं वृणीष्वेति तदा तं प्रोवाच नृपात्मजम् ॥३०॥

स वव्रे भगवन्कृत्या पितुर्हन्तुर्वधाय मे ।
समुत्तिष्ठतु कृष्णस्य त्वत्प्रसादान्महेश्वरः ॥३१॥

व्यास उवाच
एवं भविष्यतीत्युक्ते दक्षिणाग्नेरनन्तरम् ।
महाकृत्या समुत्तस्थौ तस्यैवाग्निनिवेशनात् ॥३२॥

ततो ज्वालाकरालास्या ज्वलत्केशकलापिका ।
कृष्ण कृष्णेति कुपिता कृत्वा द्वारवतीं ययौ ॥३३॥

तामवेक्ष्य जनः सर्वो रौद्रां विकृतलोचनाम् ।
ययौ शरण्यं जगतां शरणं मधुसूदनम् ॥३४॥

जना ऊचुः
काशिराजसुतेनेयमाराध्य वृषभध्वजम् ।
उत्पादिता महाकृत्या वधाय तव चक्रिणः ॥
जहि कृत्यामिमामुग्रां वह्निज्वालाजटाकुलाम् ॥३५॥

व्यास उवाच
चक्रमुत्सृष्टमक्षेषु क्रीडासक्तेन लीलया ।
तदग्निमालाजटिलं ज्वालोद्‌गारातिभीषणम् ॥३६॥

कृत्यामनुजगामाऽशु विष्णुचक्रं सुदर्शनम् ।
ततः सा चक्रविध्वस्ता कृत्या माहेश्वरी तदा ॥३७॥

जगाम वेगिनी वेगात्तदप्यनुजगाम ताम् ।
कृत्या वाराणसीमेव प्रविवेश त्वरान्विता ॥३८॥

विष्णुचक्रप्रतिहतप्रभावा मुनिसत्तमाः ।
ततः काशिबलं भूरि प्रमथानां तथा बलम् ॥३९॥

समस्तशस्त्रास्त्रयुतं चक्रस्याभिमुखं ययौ ।
शस्त्रास्त्रमोक्षबहुलं दग्ध्वा तद्बलमोजसा ॥४०॥

कृत्वाऽक्षेमामशेषां तां पुरीं वाराणसीं ययौ ।
प्रभूतभृत्यपौरां तां साश्वमातङ्गमानवाम् ॥४१॥

अशेषदुर्गकोष्ठां तां दुर्निरीक्ष्यां सुरैरपि ।
ज्वालापरिवृताशेषगृहप्राकारतोरणाम् ॥४२॥

ददाह तां पुरीं चक्रं सकलामेव सत्वरम् ।
अक्षीणामर्षमत्यल्पसाध्यसाधननिस्पृहम् ॥४३॥

तच्चक्रं प्रस्फुरद्दीप्ति विष्णोरभ्याययौ करम् ॥४४॥

इति श्रीमहापुराणे आदिब्राह्मे श्रीकृष्णचरिते पौण्ड्रकवासुदेववधे काशीदाहवर्णनं नाम सप्ताधिकद्विशततमोऽध्यायः ॥२०७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:45.1300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

linking scheme

  • संबद्ध योजना 
RANDOM WORD

Did you know?

भीमा माहात्म्य हा ग्रंथ उपलब्ध होइल का?
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site