संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १८३

ब्रह्मपुराणम् - अध्यायः १८३

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


कंसविचारकथनम्
व्यास उवाच
कंसस्त्वथोद्विग्नमनाः प्राह सर्वान्महासुरान् ।
प्रलम्बकेशिप्रमुखानाहूयासुरपुंगवान् ॥१॥

कंस उवाच
हे प्रलम्ब महाबाहो केशिन्धेनुक पूतने ।
अरिष्टाद्यैस्तथा चान्यैः श्रूयतां वचनं मम ॥२॥

मां हन्तुममरैर्यत्नः कृतः किल दुरात्मभिः ।
मद्वीर्यतापितान्वीरान्न त्वेतान्गणयाम्यहम् ॥३॥

आश्चर्यं कन्यया चोक्तं जायते दैत्यपुंगवाः ।
हास्यं मे जायते वीरास्तेषु यत्नपरेष्वपि ॥४॥

तथाऽपि खलु दुष्टानां तेषामप्यधिकं मया ।
अपकाराय दैत्येन्द्रा यतनीयं दुरात्मनाम् ॥५॥

उत्पन्नश्चापि मृत्युर्मे भूतभव्यभवत्प्रभुः ।
इत्येतद्‌बालिका प्राह देवकीगर्भसंभवा ॥६॥

तस्माद्वालेषु परमो यत्नः कार्यो महीतले ।
यत्रोद्रिक्तं बलं बाले स हन्तव्यः प्रयत्नतः ॥७॥

व्यास उवाच
इत्याज्ञाप्यासुरान्कंसः प्रविश्याऽऽमगृहं ततः ।
उवाच वसुदेवं च देवकीमविरोधतः ॥८॥

कंस उवाच
युवयोर्घातिता गर्भा वृथैवैते मयाऽधुना ।
कोऽप्यन्य एव नाशाय बालो मम समुद्‌गतः ॥९॥

तदलं परितापेन नूनं यद्भाविनो हि ते ।
अर्भका युवयोः को वा आयुषोऽन्ते न हन्यते ॥१०॥

व्यास उवाच
इत्याश्वास्य विमुच्यैव कंसस्तौ परितोष्य च ।
अन्तर्गृहं द्विजश्रेष्ठाः प्रविवेश पुनः स्वकम् ॥११॥

इति श्रीमहापुराणे आदिब्राह्मे श्रीकृष्णबालचरिते कंसविचारकथनं नाम त्र्यशीत्यधिकशततमोऽध्यायः ॥१८३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP