TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २३३

ब्रह्मपुराणम् - अध्यायः २३३

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २३३
प्राकृतलयनिरूपणम्
व्यास उवाच
सप्तर्षिस्थानामाक्राम्य स्थितेऽम्भसि द्विजोत्तमाः ।
एकार्णवं भवत्येतत्त्रैलोक्यमखिलं ततः ॥१॥

अथ निःश्वासजो विष्णोर्वायुस्ताञ्जलदांस्ततः ।
नाशं नयति भो विप्रा वर्षाणमधिकं शतम् ॥२॥

सर्वभूतमयोऽचिन्त्यो भगवान्भूतभावनः ।
अनादिरादिर्विश्वस्य पीत्वा वायुमशेषतः ॥३॥

एकार्णवे ततस्तस्मिञ्शेषशय्यास्थितः प्रभुः ।
ब्रह्मरूपधरः शेते भगवानादिकृद्धरिः ॥४॥

जनलोकगतैः सिद्धैः सनकाद्यैरभिष्टुतः ।
ब्रह्मलोकगतैश्चैव चिन्त्यमानो मुमुक्षुभिः ॥५॥

आत्ममायमयीं दिव्यां योगनिद्रां समास्थितः ।
आत्मानं वासुदेवाख्यं चिन्तयन्परमेश्वरः ॥६॥

एष नैमित्तिको नाम विप्रेन्द्राः प्रतिसंचरः ।
निमित्तं तत्र यच्छेते ब्रह्मरूपधरो हरिः ॥७॥

यदा जागर्ति सर्वात्मा स तदा चेष्टते जगत् ।
निमीलत्येतदखिलं मायाशय्याशयेऽच्युते ॥८॥

पद्‌मयोनेर्दिनं यत्तु चतुर्युगसहस्रवत् ।
एकार्णवकृते लोके तावती रात्रिरुच्यते ॥९॥

ततः प्रबुद्धो रात्र्यन्ते पुनः सृष्टिं करोत्यजः ।
ब्रह्मस्वरूपधृग्विष्णुर्यथा वः कथितं पुरा ॥१०॥

इत्येष कल्पसंहारो अन्तरप्रलयो द्विजाः ।
नैमित्तिको वः कथितः श्रृणुध्वं प्राकृतं परम् ॥११॥

अवृष्ट्याग्नयादिभिः सम्यक्कृते शय्यालये द्विजाः ।
समस्तेष्वेष लोकेषु पातालेष्वखिलेषु च ॥१२॥

महादादेर्विकारस्य विशेषात्त संक्षये ।
कृष्मेच्छाकारिते तस्मिन्प्रवृत्ते प्रतिसंचरे ॥१३॥

आपो ग्रसन्ति वै पूर्वं भूमेर्गन्धादिकं गुणम् ।
आत्तगन्धा ततो भूमिः प्रलयाय प्रकल्पते ॥१४॥

प्रनष्टे गन्धतन्मात्रे भवत्युर्वी जलात्मिका ।
आपस्तदा प्रवृत्तास्तु वेगवत्यो महास्वनाः ॥१५॥

सर्वमापूरयन्तीदं तिष्ठन्ति विचरन्ति च ।
सलिलेनैवोर्मिमता लोकालोकः समन्ततः ॥१६॥

अपामपि गुणो यस्तु जयोतिषा पीयते तु सः ।
नश्यन्त्यापः सुतप्ताश्च रसतन्मात्रसंक्षयात् ॥१७॥

ततश्चाऽऽपोमृतरसा ज्योतिष्ट्वं प्राप्नुवन्ति वै ।
अग्न्यवस्थे तु सलिले तेजसा सर्वतो वृते ॥१८॥

स चाग्निः सर्वतो व्याप्य आदत्ते तज्जलं तदा ।
सर्वमापूर्यतो चाभि रयत्यग्नि स्तदा जगदिदं शनैः ॥१९॥

अर्चिभिः संतते तस्मिंस्तिर्यगूर्ध्वमधस्तथा ।
ज्योतिषोऽपि परं रूपं वायुरत्ति प्रभाकरम् ॥२०॥

प्रलीने च ततस्तस्मिन्वायुभूतेऽखिलात्मके ।
प्रनष्टे रूपतन्मात्रे कृतरूपो विभावसुः ॥२१॥

प्रशाम्यति तदा ज्योतिर्वायुर्दोधूयते महान् ।
निरालोके तदा लोके वायुसंस्थे च तेजसि ॥२२॥

ततः प्रलयमासाद्य वायुसंभवमात्मनः ।
ऊर्ध्वं च वायुस्तिर्यक्च दोधवीति दिशो दश ॥२३॥

वायोस्त्वपि गुणं स्पर्शमाकाशं ग्रसते ततः ।
प्रशाम्यति तदा वायुः खं तु तिष्ठत्यनावृतम् ॥२४॥

अरूपमरसस्पर्शमगन्धवदमूर्तिमत् ।
सर्वमापूरयच्चैव सुमहत्तत्प्रकाशते ॥२५॥

परिमण्डलतस्तत्तु आकाशं शब्दलक्षणम् ।
शब्दमात्रं तथाऽऽकाशं सर्वमावृत्य तिष्ठति ॥२६॥

ततः शब्दगुणं तस्य भूतादिर्ग्रसते पुनः ।
भूतेन्द्रियेषु युगपद्भूतादौ संस्थितेषु वै ॥२७॥

अभिमानात्मको ह्‌येष भूतादिस्तमासः स्मृतः ।
भूतादिं ग्रसते चापि महाबुद्धिर्विचक्षणा ॥२८॥

उर्वी महांश्च जगतः प्रान्तेऽन्तर्बाह्यतस्तथा ।
एवं सप्तमहाबुद्धिः(?)क्रमात्प्रकृतयस्तथा ॥२९॥

प्रत्याहारैस्तु ताः सर्वाः प्रविशन्ति परस्परम् ।
येनेदमावृतं सर्वमण्डमप्सु प्रलीयते ॥३०॥

सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् ।
उदकावरणं ह्यत्र ज्योतिषा पीयते तु तत् ॥३१॥

ज्योतिर्वायौ लयं याति यात्याकाशे समीपणः ।
आकाशं चैव भूतादिर्ग्रसते तं तथा महान् ॥३२॥

महान्तमेभिः सहितं प्रकृतिर्ग्रसते द्विजाः ।
गुणसाम्यमनुद्रिक्तमन्यूनं च द्विजोत्तमाः ॥३३॥

प्रोच्यते प्रकृतिर्हेतुः प्रधानं कारणं परम् ।
इत्येषा प्रकृतिः सर्वा व्यक्ताव्यक्तस्वरूपिणी ॥३४॥

व्यक्तस्वरूपमव्यक्ते तस्यां विप्राः प्रलीयते ।
एकः शुद्धोऽक्षरो नित्यः सर्वव्यापी तथा पुनः ॥३५॥

सोऽप्यंशः सर्वभूतस्य द्विजेन्द्राः परमात्मनः ।
नश्यन्ति सर्वा यत्रापि नामजात्यादिकल्पनाः ॥३६॥

सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्यात्मनः परे ।
स ब्रह्म तत्परं धाम परमात्मा परेश्वरः ॥३७॥

स विष्णुः सर्वमेवेदं यतो नाऽऽवर्तते पुनः ।
प्रकृतिर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी ॥३८॥

पुरुषश्चाप्युभावेतौ लीयते परमात्मनि ।
परमात्मा च सर्वेषामाधारः परमेश्वरः ॥३९॥

विष्णुनाम्ना स वेदेषु वेदान्तेषु च गीयते ।
प्रवृत्तं च द्विविधं कर्म वैदिकम् ॥४०॥

ताभ्यामुभाभ्यां पुरुषैर्यज्ञमूर्तिः स इज्यते ।
ऋग्यजुःसामभिर्मार्गैः प्रवृत्तैरिज्यते ह्यसौ ॥४१॥

यज्ञेश्वरो यज्ञपुमान्पुरुषैः पुरुषोत्तमः ।
ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्तिः स इज्यते ॥४२॥

निवृत्तैर्योगमार्गैश्च विष्णुर्मुक्तिफलप्रदः ।
ह्रस्वदीर्घप्लुतैर्यत्तु किंचिद्वस्त्वभिधीयते ॥४३॥

यच्च वाचामविषयस्तत्सर्वं विष्णुरव्ययः ।
व्यक्तः स एवमव्यक्तः स एव पुरुषोऽव्ययः ॥४४॥

परमात्मा च विश्वात्मा विश्वरूपधरो हरिः ।
व्यक्ताव्यक्तात्मिका तस्मिन्प्रकृतिः सा विलीयते ॥४५॥

पुरुषश्चापि भो विप्रा यस्तदव्याकृतात्मनि ।
द्विपरार्धात्मकः कालः कथितो यो मया द्विजाः ॥४६॥

तदहस्तस्य विप्रेन्द्रा विष्णोरीशस्य तपोधनाः ।
नैवाहस्तस्य च निशा नित्यस्य परमात्मनः ॥४७॥

तत्राऽऽस्थिते निशा तस्य तत्प्रमाणा तपोधनाः ।
नैवाहस्तस्य च निसा नित्यस्य परमात्मनः ॥४८॥

उपचारात्तथाऽप्येतत्तस्येशस्य तु कथ्यते ।
इत्येष मुनिसार्दूलाः कथितः प्राकृतो लयः ॥४९॥

इति श्रीमहापुराणे आदिब्राह्मे प्राकृतलयनिरूपणं नाम
त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ॥२३३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:46.5070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पराजित

  • p  Defeated or overthrown. 
RANDOM WORD

Did you know?

सोळा मासिक श्राद्धें कोणती ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site