TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १८९

ब्रह्मपुराणम् - अध्यायः १८९

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १८९
अरिष्टवधनिरूपणम्
व्यास उवाच
गते शक्रे तु गोपालाः कृष्णमक्लिष्टकारिणम् ।
ऊचुः प्रीत्या धृतं दृष्ट्वा तेन गोवर्धनाचलम् ॥१॥

गोपार ऊचुः
वयमस्मान्महाभागा भवता महतो भयात् ।
गावश्च भवता त्राता गिरिधारणकर्मणा ॥२॥

बालक्रीडेयमतुला गोपालत्वं जुगुप्सितम् ।
दिव्यं च कर्म भवतः किमेतत्तात कथ्यताम् ॥३॥

कालियो दमितस्तोये प्रलम्बो विनिपातितः ।
धृतो गोवर्धनश्चायं शङ्कितानि मनांसि नः ॥४॥

सत्यं सत्यं हरेः पादौ श्रयामोऽमितविक्रम ।
यथा त्वद्वीर्यमालोक्य न त्वां मन्यामहे नरम् ॥५॥

देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा ।
किं चास्माकं विचारेण बान्धवोऽस्ति नमोऽस्तु ते ॥६॥

प्रीतिः सस्त्रीकुमारस्य व्रजस्य तव केशव ।
कर्म चेदमशक्यं यत्समस्तैस्त्रिदशैरपि ॥७॥

बालत्वं चातिवीर्यं च जन्म चास्मास्वशोभनम् ।
चिन्त्यमानममेयात्मञ्शङ्कां कृष्ण प्रयच्छति ॥८॥

व्यास उवाच
क्षणं भूत्वा त्वसौ तूष्णीं किंचित्प्रणयकोपवान् ।
इत्येवमुक्तस्तैर्गोपैराह कृष्णो द्विजोत्तमाः ॥९॥

श्रीकृष्ण उवाच
मत्संबन्धेन वो गोपा यदि लज्जा न जायते ।
श्लाघ्यो वाऽहं ततः किं वो विचारेण प्रयोजनम् ॥१०॥

यदि वोऽस्ति मयि प्रीतिः श्लाघ्योऽहं भवतां यदि ।
तदर्घा बन्धुसदृशी बान्धवाः क्रियतां मयि ॥११॥

नाहं देवो न गन्धर्वो न यक्षो न च दानवः ।
अहं वो बान्धवो जातो नातश्चिन्त्यमतोऽन्यथा ॥१२॥

व्यास उवाच
इति श्रुत्वा हरेर्वाक्यं बद्धमोनास्ततो बलम् ।
ययुर्गोपा महाभागास्तस्मिन्प्रणयकोपिनि ॥१३॥

कृष्णऽस्तु विमलव्योमशरच्चन्द्रस्य चन्द्रिकाम् ।
तथा कुमुदिनीं फुल्लामामोदितदिगन्तराम् ॥१४॥

वनराजीं तथा कूजद्‌भृङ्गमालामनोरमाम् ।
विलोक्य सह गोपीभिर्मनश्चक्रे रतिं प्रति ॥१५॥

सह रामेण मधुरमतीव वनिताप्रियम् ।
जगौ कमलपादोऽसौ नाम तत्र कृतव्रतः ॥१६॥

रम्यं गीतध्वनिं श्रुत्वा संत्यज्यावसथांस्तदा ।
आजग्मुस्त्वरिता गोप्यो यत्राऽऽस्ते मधुसूदनः ॥१७॥

शनैः शनैर्जगौ गोपी काचित्तस्य पदानुगा ।
दत्तावधाना काचिच्च तमेव मनसाऽस्मरत् ॥१८॥

काचित्कृष्णेति कृष्णेति चोक्त्वा लज्जामुपाययौ ।
ययौ च काचित्प्रेमान्धा तत्पार्श्वमविलज्जिता ॥१९॥

काचिदावसथस्यान्तझ स्थित्वा दृष्ट्वा बहिर्गुरुम् ।
तन्मयत्वेन गोविन्दं दध्यौ मीलितलोचना ॥२०॥

गोपीपरिवृतो रात्रिं शरच्छन्द्रमनोरमाम् ।
मानयामास गोविन्दो रासारम्भरसोत्सुकः ॥२१॥

गोप्यश्च वृन्दशः कृष्णचेष्टाभ्यायत्तमूर्तयः ।
अन्यदेशगते कृष्णे चेरुर्वृन्दावनान्तरम् ॥२२॥

बभ्रमुस्तास्ततो गोप्यः कृष्णदर्शलालसाः ।
कृष्णस्य चरणं रात्रौ दृष्ट्वा वृन्दावने द्विजाः ॥२३॥

एवं नानाप्रकारासु कृष्णचेष्टासु तासु च ।
गोप्यो व्यग्राः समं चेरू रम्यं वृन्दावनं वनम् ॥२४॥

निवृत्तास्तास्ततो गोप्यो निराशाः कृष्णदर्शने ।
यमुनातीरमागम्य जगुस्तच्चरितं द्विजाः ॥२५॥

ततो ददृशुरायान्तं विकाशि मुखपङ्कजम् ।
गोप्यस्त्रैलोक्यगोप्तारं कृष्णमक्लिष्टकारिणम् ॥२६॥

काचिदालोक्य गोवन्दमायान्तमतिहर्षिता ।
कृष्ण कृष्णेति कृष्णेति प्राहोत्फुल्लविलोचना ॥२७॥

काचिद्‌भ्रूभङ्गुरं कृत्वा ललाटफलकं हरिम् ।
विलोक्य नेत्रभृङ्गाभ्यां पपौ तनमुखपङ्कजम् ॥२८॥

काचिदालोक्य गोविन्दं निमीलितविलोचना ।
तस्यैव रूपं ध्यायन्ती योगारूढेव सा बभौ ॥२९॥

ततः कांचिदालोक्य गोविन्दं निमीलितविलोचना ।
तस्यैव रूपं ध्यायन्ती योगारूढेव सा बभौ ॥३०॥

ताभिः प्रसन्नचित्ताभिर्गोपीभिः सह सादरम् ।
रराम रासगोष्ठीभिरुदारचरितो हरिः ॥३१॥

रासमण्डलबद्धोऽपि कृष्णपार्श्वमनूद्‌गता ।
गोपीजनो न चैवाभूदेकस्थानस्थिरात्मना ॥३२॥

हस्ते प्रगृहस्य चैकैकां गोपिकां रासमण्डमनूद्‌गता ।
गोपीजनो न चैवाभूदेकस्थानस्थिरात्मना ॥३३॥

ततः प्रगृह्य रम्या चलद्वलयनिस्वनैः ।
अनुयातशरत्काव्यगेयगीतिरनुक्रमाम् ॥३४॥

कृष्णः शरच्छन्द्रमसं कौमुदीकुमुदाकरम् ।
जगौ गोपीजनस्त्वेकं कृष्णनाम पुनः पुनः ॥३५॥

परिवृत्ता श्रमेणैका चलद्वालयतापिनी ।
ददौ बाहुलतां स्कन्धे गोपी मधुविधातिनः ॥३६॥

काचित्प्रविलसद्‌बाहुः परिरभ्य चुचुम्ब तम् ।
गोपी गीतस्तुतिव्याजनिपुणा मधुसूदनम् ॥३७॥

गोपीकपोलसंश्लेषमभिपद्य हरेर्भुजौ ।
पुलकोद्‌गमशस्याय स्वेदाम्बुघनतां गतौ ॥३८॥

रासगेयं जगौ कृष्णो यावत्तारतरध्वनिः ।
साधु कृष्णेति कृष्णेति तावत्ता द्विगुणं जगुः ॥३९॥

गतेऽनुगमनं चक्रुर्वलने संमुखं ययुः ।
प्रतिलोमानुलोमेन भेजुर्गोपाङ्गना हरिम् ॥४०॥

स तदा सह गोपीभी रराम मधुसूदनः ।
स वर्षकोटिप्रतिमः क्षणस्तेन विनाऽभवत् ॥४१॥

ता वार्यमाणाः पितृभिः पतिभिर्भातृभिस्तथा ।
कृष्णं गोपाङ्गना रात्रौ रमयन्ति रतिप्रियाः ॥४२॥

सोऽपि कैशोरकवया मानयन्मधुसूदनः ।
रेमे ताभिरमेयात्मा क्षपासु क्षपिताहितः ॥४३॥

तद्‌भर्तृषु तथा तासु सर्वभूतेषु चेश्वरः ।
आत्मस्वरूपरूपोऽसौ व्याप्य सर्वमवस्थितः ॥४४॥

यथा समस्तभूतेषु नभोऽग्निः पृथिवी जलम् ।
वायुश्चाऽऽत्मा तथैवासौ व्याप्य सर्वमवस्थितः ॥४५॥

व्यास उवाच
प्रदोषार्धे कदाचित्तु रासासक्ते जनार्दने ।
त्रासयन्समदो गोष्ठानरिष्टः समुपागतः ॥४६॥

सतोयतोयदाकारस्तीक्ष्णशृङ्गोऽर्कलोचनः ।
खुराग्रपातैरत्यर्थं दारयन्धरणीतलम् ॥४७॥

लेलिहानः सनिष्पेषं जिह्‌वयोषठौ पुनः पुनः ।
संरम्भाक्षिप्तलाङ्गूलः कठिनस्कन्धबन्धनः ॥४८॥

उदग्रककुदाभोगः प्रमाणाद्‌दुरतिक्रमः ।
विण्मूत्रालिप्तपृष्ठाङ्गो गवामुद्वेगकारकः ॥४९॥

प्रलम्बकण्ठोऽभिमुखस्तरुघाताङ्किताननः ।
पातयन्स गवां गर्भान्दैत्यो वृषभरूपृधृक् ॥५०॥

सूदयंस्तरसा सर्वान्वनान्यटति यः सदा ।
ततस्तमतिघोराक्षमवेक्ष्यातिभयातुराः ॥५१॥

गोपा गोपस्त्रियश्चैव कृष्णकृष्णेति चुक्रुशुः ।
सिंहनादं ततश्चक्रे तलशब्दं च केशवः ॥५२॥

तच्छब्दश्रवणाच्चसौ दामोदरमुखं ययौ ।
अग्रन्यस्तविषाणाग्रः कृष्णकुक्षिकृतेक्षणः ॥५३॥

अभ्यधावत दुष्टात्मा दैत्यो वृषभरूपधृक् ।
आयान्तं दैत्यवृषभं दृष्ट्वा कृष्णो महाबलम् ॥५४॥

न चचाल ततः स्थानादवज्ञास्मितलीलया ।
आसन्नं चैव जग्राह ग्राहवन्मधुसूदनः ॥५५॥

जघान जानुना कुक्षौ विषाणग्रहणाचलम् ।
तस्य दर्पबलं हत्वा गृहीतस्य विषाणयोः ॥५६॥

आपीडयदरिष्टस्य कण्ठं क्लिन्नमिवाम्बरम् ।
उत्पाट्य शृङ्गमेकं च तेनैवाताडयत्ततः ॥५७॥

ममार स महादैत्यो मुखाच्छोणितमुद्वमन् ।
तुष्टुर्निहते तस्मिन्गोपा दैत्ये जनार्दनम् ॥
जम्भे हते सहस्राक्षं पुरा देवगणा यथा ॥५८॥

इति श्रीमहापुराणे आदिब्राह्मे बालचरितेऽरिष्टवधनिरूपणं नामोननवत्यधिकशततमोऽध्यायः ॥१८९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:44.1930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

wearing course

  • झीज स्तर 
RANDOM WORD

Did you know?

पिंपळाच्या झाडाला फक्त शनिवारीच स्पर्श का करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site