TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २२४

ब्रह्मपुराणम् - अध्यायः २२४

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २२४
उमामहेश्वरसंवादे मानवानामुत्तमगतिप्राप्तिवर्णनम्
उमोवाच
भगवन्सर्वभूतेश सुरासुरनमस्कृत ।
धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो ॥१॥

कर्मणा मनसा वाचा त्रिविधैर्देहिनः सदा ।
बध्यन्ते बन्धनैः कैर्वा मुच्यन्ते वा कथं वद ॥२॥

केन शीलेन वै देव कर्मणा कीदृशेन वा ।
समाचारैर्गुणैः कैर्वा स्वर्गं यान्तीह मानवाः ॥३॥

शिव उवाच
देवी धर्मार्थतत्त्वज्ञे धर्मनित्य उमे सदा ।
सर्वप्राणहितः प्रश्नः श्रूयतां बुद्धिवर्धनः ॥४॥

सत्यधर्मरताः शान्ताः सर्वलिङ्गविवर्जिताः ।
नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः ॥५॥

प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः सर्वदर्शिनः ।
वीतरागा विमुच्यन्ते पुरुषाः कर्मबन्धनैः ॥६॥

कर्मणा मनसा वाचा यै न हिंसन्ति किंचन ।
ये न मज्जन्ति कस्मिंश्चित्ते न बध्नन्ति कर्मभिः ॥७॥

प्राणातिपाताद्विरताः शीलवन्तो दयान्विताः ।
तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः ॥८॥

सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु ।
त्यक्तहिस्रसमाचारास्ते नराः स्वर्गगामिनः ॥९॥

परस्वनिर्ममा नित्यं परादारविवर्जिताः ।
धर्मलब्धार्थभोक्तारस्ते नरा स्वर्गगामिनः ॥१०॥

मातृवत्स्वसृवच्चैव नित्यं दुहितृवच्च ये ।
परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः ॥११॥

स्वदारनिरता ये च ऋतुकालाभिगामिनः ।
अग्राम्यसुखभोगाच्च ते नराः स्वर्गगामिनः ॥१२॥

स्तैन्यान्निवृत्ताः सततं संतुष्टाः स्वधनेन च ।
स्वभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिनः ॥१३॥

परदारेषु ये नित्यं चारित्रावृतलोचनाः ।
जितेन्द्रियाः शीलपरास्ते नराः स्वर्गगामिनः ॥१४॥

एष दैवकृतो मार्गः सेवितव्यः सदा नरैः ।
अकषायकृतश्चैव मार्गः सेव्यः सदा बधैः ॥१५॥

अवृथापकृतश्चैव मार्गः सेव्यः सदा बुधैः ।
दानकर्मतपोयुक्तः शीलशौचदयात्मकः ॥
स्वर्गमार्गमभीप्सद्‌भिर्न सेव्यस्त्वत उत्तरः ॥१६॥

उमोवाच
वाचा तु बध्यते येन मुच्यते ह्यथवा पुनः ।
तानि कर्माणि मे देव वद भूतपतेऽनघ ॥१७॥

शिव उवाच
आत्महेतोः परार्थे वा अधर्माश्रितमेव च ।
ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ॥१८॥

वृत्त्वर्थं धर्महेतोर्वा कामकारात्तथेव च ।
अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ॥१९॥

श्लक्ष्णां वाणीं स्वच्छवर्णां मधुरां पापवर्जिताम् ।
स्वगतेनाभिभाषन्ते ते नराः स्वर्गगामिनः ॥२०॥

परुषं ये न भाषन्ते कटुकं निष्ठुरं तथा ।
न पैशुन्यरताः सन्तस्ते नराः स्वर्गगामिनः ॥२१॥

पिशुनं न प्रभाषन्ते मित्रभेदकरं तथा ।
परपीडाकरं चैव ते नराः स्वर्गगामिनः ॥२२॥

ये वर्जयन्ति परुषं परद्रोहं च मानवाः ।
सर्वभूतसमा दान्तास्ते नराः स्वर्गगामिनः ॥२३॥

शठप्रलापाद्विरता विरुद्धपरिवर्जकाः ।
सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः ॥२४॥

न कोपाद्‌व्याहरन्ते ये वाचं हृदयदारिणीम् ।
शान्तिं विन्दति ये क्रुद्धस्ते नराः स्वर्गगामिनः ॥२५॥

एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः ।
शुभसत्यगुणैर्नित्यं वर्जनीया मृषा बुधैः ॥२६॥

उमोवाच
मनसा बध्यते येन कर्मणा पुरुषः सदा ।
तन्मे ब्रूहि महाभागा देवदेव पिनाकधृक् ॥२७॥

महेश्वर उवाच
मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा ।
स्वर्गं गच्छन्ति कल्याणि तन्मे कीर्तयतः श्रृणु ॥२८॥

दुष्प्रणीतेन मनसा दुष्प्रणीतान्तराकृतिः ।
नरो बध्येत येनेह शृणु वा तं शुभानने ॥२९॥

अरण्ये विजने न्यस्तं परस्वं दृश्यते यदा ।
मनसाऽपि न गृह्णन्ति ते नराः स्वर्गगामिनः ॥३०॥

तथैव परदारान्ये कामवृत्ता रहोगताः ।
मनसाऽपि न हिंसन्ति ते नराः स्वर्गगामिनः ॥३१॥

शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः ।
भजन्ति मैत्र्यं संगम्य ते नराः स्वर्गगामिनः ॥३२॥

श्रुतवन्तो दयावन्तः शुचयः सत्यसंगराः ।
स्वैरर्थैः परिसंतुष्टास्ते नराः स्वर्गगामिनः ॥३३॥

अवैरा ये त्वनायासा मैत्रचित्तरताः सदा ।
सर्वभूतदयावन्तस्ते नराः स्वर्गगामिनः ॥३४॥

ज्ञातवन्तः क्रियावन्तः क्षमावन्तः सुहृत्प्रियाः ।
धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः ॥३५॥

शुभानामशुभानां च कर्मणां फलसंचये ।
निराकाङ्क्षाश्च ये देवि ते नराः स्वर्गगामिनः ॥३६॥

पापोपेतान्वर्जयन्ति देवद्विजपराः सदा ।
समुत्थानमनुप्राप्तास्ते नराः स्वर्गगामिनः ॥३७॥

शुभैः कर्मफलैर्देवि मयैते परिकीर्तिताः ।
स्वर्गमार्गपरा भूयः किं त्वं श्रोतुमिहेच्छसि ॥३८॥

उमोवाच
महान्मे संशयः कश्चिन्मर्त्यान्प्रति महेश्वर ।
तस्मात्त्वं निपुणेनाद्य मम व्याख्यातुमर्हसि ॥३९॥

केनाऽऽयुर्लभते दीर्घं कर्मणा पुरुषः प्रभो ।
तपसा वापि देवेश केनाऽऽयुर्लभते महत् ॥४०॥

क्षीणायुः केन भवति कर्मणा भुवु मानवः ।
विपाकं कर्मणां देव वक्तुमर्हस्यनिन्दित ॥४१॥

अपरे च महाभाग्या मन्दभाग्यस्तथा परे ।
अकुलीनाः कुलीनाश्च संभवन्ति तथा परे ॥४२॥

दुर्दर्शाः केचिदाभान्ति नराः काष्ठमया इव ।
प्रियदर्शास्तथा चान्ये दर्शनादेव मानवाः ॥४३॥

दुष्प्रज्ञाः केचिदाभान्ति केचिदाभान्ति पण्डिताः ।
महाप्रज्ञास्तथा चान्ये ज्ञानविज्ञानभाविनः ॥४४॥

अल्पवाचास्तथा केचिन्महावाचास्तथा परे ।
दृश्यन्ते पुरुषा देव ततो व्याख्यातुमर्हसि ॥४५॥

शिव उवाच
हन्त तेऽहं प्रवक्ष्यामि देवि कर्मफलेदयम् ।
मर्त्यलोके नरः सर्वो येन स्वं फलमश्नुते ॥४६॥

निर्दयः सर्वभूतेभ्यो नित्यमुद्वेगकारकः ।
अपि कीटपतङ्गानामश्रण्यः सुनिर्घृणः ॥४७॥

एवं भूतो नरो देवि निरयं प्रतिपद्यते ।
विपरीतस्तु धर्मात्मा स्वरूपेणाभिजायते ॥४८॥

निरयं याति हिंसात्मा याति स्वर्गमहिंसकः ।
यातनां निरये रौद्रां सकृच्छ्रां लभते नरः ॥४९॥

यः कश्चिन्निरयात्तस्मात्समुत्तरति कर्हिचित् ।
मनुष्यं लभते वाऽपि हीनायुस्तत्र जायते ॥५०॥

यः कश्चिन्निरयात्तस्मात्समुत्तरति कर्हिचित् ।
मनुष्यं लभते वाऽपि हीनायुस्तत्र जायते ॥५१॥

पापेन कर्मणा देवि युक्तो हिंसादिभिर्यतः ।
अहितः सर्वभूतानां हीनायुरुपजायते ॥५२॥

शुभेन कर्मणा देवि प्राणिघातविवर्जितः ।
निक्षिप्तशस्त्रो निर्दण्डो न हिंसति कदाचन ॥५३॥

न घातयति नो हन्ति घनन्तं नैवानुमोदते ।
सर्वभूतेषु सस्नेहो यथाऽऽत्मनि तथा परे ॥५४॥

ईदृशः पुरुषो नित्यं देवि देवत्वमश्नुते ।
उपपन्नान्सुखान्भोगान्सदाऽश्नाति मुदा युतः ॥५५॥

अथ चेन्मानुषे लोके कदाचिदुपपद्यते ।
एष दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम् ॥
प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः ॥५६॥

इति श्रीमहापुराणे आदिब्राह्मे उमामहेश्वरसंवादे धर्मनिरूपणं नाम चतुर्विंशत्यधिकद्विशततमोऽध्यायः ॥२२४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:46.0200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आंथर

  • पु. कामट्याची , गवताची चटई ; आंथरी ; हातरी . [ सं . आस्तरण ; प्रा . अत्थरण ] 
RANDOM WORD

Did you know?

सूतक कोणाचे नसते?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.