संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ९४

ब्रह्मपुराणम् - अध्यायः ९४

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ चतुर्नवतितमोऽध्यायः
श्वेततीर्थवर्णनम्
ब्रह्मोवाच
श्वेततीर्थमिति ख्यातं त्रैलोक्ये विश्रुतं शुभम् ।
तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥१॥

श्वेतो नाम पुरा विप्रो गौतमस्य प्रियः सखा ।
आतिथ्यपूजानिरतो गौतमीतीरमाश्रितः ॥२॥

मनसा कर्मणा वाचा शिवभक्तिपरायणः ।
ध्यायन्तं तं द्विजश्रेष्ठं पूजयन्तं सदाशिवम् ॥३॥

पूर्णयुषं द्विजवरं शिवभक्तिपरायणम् ।
नेतुं दूताः समाजग्मुर्दक्षिणाशापतेस्तदा ॥४॥

नाशक्नुवन्गृहं तस्य प्रवेष्टुपि नारद ।
तदा काले व्यतिक्रान्ते चित्रको मृत्युमब्रवीत् ॥५॥

चित्रक उवाच
किं नाऽऽयाति क्षीणजीवो मृत्यो श्वेतः कथंत्विति ।
नाद्याप्यायान्ति दूतास्ते मृत्येर्नैवोचितं तु ते ॥६॥

ब्रह्मोवाच
ततश्च कुपितो मृत्युः प्रायाच्छ्वेतगृहं स्वयम् ।
बहिःस्थितांस्तदा पश्यन्मृत्युर्दूतान्भयार्दितान् ।
प्रोवाच किमिदं दूता मृत्युमूचुश्च दूतकाः ॥७॥

दूता ऊचुः
शिवेन रक्षितं श्वेतं वयं नो वीक्षितुं क्षमाः ।
येषां प्रसन्नो गिरिशस्ततेषां का नाम भीतयः ॥८॥

ब्रह्मोवाच
पाशपणिस्तदा मृत्युः प्राविश्द्यत्र स द्विजः ।
नासौ विप्रो विजानाति मृत्युं वा यमकिंकरान् ॥९॥

शिवं पूजयते भक्त्या श्वेतस्य तु समीपतः ।
मृत्युं पाशधरं दृष्ट्वा दण्डी प्रोवाच विस्मितः ॥१०॥

दण्ड्युवाच
किमत्र वीक्षसे मृत्यो दण्डिनं मृत्युब्रवीत् ॥११॥

मृत्युरुवाच
श्वेतं नेतुमिहाऽऽयातस्तस्माद्वीक्षे द्विजोत्तमम् ॥१२॥

ब्रह्मोवाच
त्वं गच्छेत्यब्रवीद्दण्डी मृत्युः पाशानथाक्षिपत् ।
श्वेताय मुनिशार्दूल ततो दण्डी चुकोप ह ॥१३॥

शिवदत्तेन दण्डेन दण्डी मृत्युमताडयत् ।
ततः पाशधरो मृत्युः पपात धरणीतले ॥१४॥

ततस्ते सत्वरं दूता हतं मृत्युमवेक्ष्य च ।
यमाय सर्वमवदन्वधं मृत्योस्तु दण्डिना ॥१५॥

ततश्च कुपितो धर्मो यमो महिषवाहनः ।
चित्रगुप्तं बहुबलं यमदण्डं च रक्षकम् ॥१६॥

महिषं भूतवेतालानाधिव्याधींस्तथैव च ।
अक्षिरोगान्कुक्षिरोगान्कर्णशूलं तथैव च ॥१७॥

ज्वरं च त्रिविधं पापं नरकाणि पृथक्पृथक् ।
त्वरन्तामिति तानुक्त्वा जगाम त्वरितो यमः ॥१८॥

एतैरन्यैः परिवृतो यत्र श्वेतो द्विजोत्तमः ।
तमायान्तं यमं दृष्ट्वा नन्दी प्रोवाच सायुधः ॥१९॥

विनायकं तथा स्कन्दं भूतनाथं तु दण्डिनम् ।
तत्र तद्युद्धमभवत्सर्वलोकभयावहम् ॥२०॥

कार्तिकेयः स्वयं शक्त्या बिभेद यमकिंकरान् ।
दक्षिणशापतिं चापि निजघान बलान्वितम् ॥२१॥

हतावशिष्टा याम्यास्ते आदित्याय न्यवेदयन् ।
आदित्योऽपि सुरैः सार्धं श्रुत्वा तन्महादद्भुतम् ॥२२॥

लोकपालौरनुवृतो मामान्तिकमुपागमत् ।
अहं विष्णुश्च भगवानिन्द्रोऽग्निर्वरुमस्तथा ॥२३॥

चन्द्रादित्यावश्विनौ च लोकपाला मरुद्गणाः ।
एते चान्ये च बहवो वयं याता यमान्तिकम् ॥२४॥

मृत आस्ते दक्षिणेशो गङ्गातीरे बलान्वितः ।
समुद्राश्च नदा नागा नानाभूतान्यनेकशः ॥२५॥

तत्राऽऽजग्मुः सुरेशानं द्रष्टुं वैवस्वतं यमम् ।
तं दृष्ट्वा हतसैन्यं च यमं देवा भयार्दिताः ॥
कृताञ्जलिपुटाः शंभुर्मूचुः सर्वे पुनः पुनः ॥२६॥

देवा ऊचुः
भक्तप्रियत्वं ते नित्यं दुष्टहन्तृत्वमेव च ।
आदिकर्तर्नमस्तुभ्यं नीलकण्ठ नमोऽस्तु ते ॥
ब्रह्मप्रिय नमस्तेऽस्तु देवप्रिय नमोऽस्तु ते ॥२७॥

श्वेतं द्विजं भक्तमनायुषं ते, नेतुं यमादिः सकलोऽसमर्थः ।
संतोषमाप्ताः परमं समीक्षय, भक्तप्रियत्वं त्वयि नाथ सत्यम् ॥२८॥

ये त्वं प्रपन्नाः शरणं कृपालुं, नालं कृतान्तोऽप्यनुवीक्षितुं तान् ।
एवं विदित्वा शिव एव सर्वे, त्वामेव भक्त्या परया भजन्ते ॥२९॥

त्वमेव जगतां नाथ किं न स्मरसि शंकर ।
त्वां विना कः समर्थोऽत्र व्यवस्थां कर्तुमीश्वरः ॥३०॥

ब्रह्मोवाच
एवं तु स्तुवतां तेषां पुरस्तादभवच्छिवः ।
किं ददामीति तानाह इदमूचुः सुरा अपि ॥३१॥

देवा ऊचुः
अयं वैवस्वतो धर्मो नियन्ता सर्वदेहिनाम् ।
धर्माधर्मव्यवस्थायां स्थापितो लोकपालकः ॥३२॥

नायं वधमवाप्नोति नापराधी न पापकृत् ।
विना तेन जगद्धातुर्नैव किंचिद्भाविष्यति ॥३३॥

तस्माज्जीवय देवेश यमं सबलवाहनम् ।
प्रार्थना सफला नाथ महत्सु न वृथा भवेत् ॥३४॥

ब्रह्मोवाच
ततः प्रोवचा भगवाञ्जीवयेयमसंशयम् ।
यमं यदि वचो मेऽद्य अनुमन्यन्ति देवताः ॥३५॥

ततः प्रोचु सुराः सर्वे कुर्मो वाक्यं त्वयोदितम् ।
हरिब्रह्मादिसहितं वशे यस्याखिलं जगत् ॥३६॥

ततः प्रोवाच भगवानमरान्समुपागतान् ।
मद्भक्तो न मृतिं यातु नेत्यूचुरमराः पुनः ॥३७॥

अमराः स्युस्ततो देव सर्वलोकाश्चाराचराः ।
अमर्त्यमर्त्यभेदोऽयं न स्याद्देव जगन्मय ॥३८॥

पुनरप्याह ताञ्शंभुः श्रृण्वन्तु मम भाषितम् ॥
मद्भक्तानां वैष्णवानां गौतमीमनुसेवताम् ॥३९॥

वयं तु स्वामिनो नित्यं न मृत्युः स्वाम्यमर्हति ।
वार्ताऽप्येषां न कर्तव्या यमेन तु कदाचन ॥४०॥

आधिव्याध्यादिभिर्जातु कार्यो नाभिभवः क्वचित् ।
ये शिवं शरणं यातास्ते मुक्तास्तत्क्षणादपि ॥४१॥

सानुगस्य यमस्यातो नमस्याः सर्व एव ते ।
तथेत्यूचुः सुरगणा देवदेवं शिवं प्रति ततश्च ॥४२॥

भगवान्नाथो नन्दिनं प्राह वाहनम् ॥४३॥

शिव उवाच
गौतम्या उदकेन त्वमभिषिञ्च मृतं यमम् ॥४४॥

ब्रह्मोवाच
ततो यमादयः सर्वे अभिषिक्तास्तु नन्दिना ।
उत्थिताश्च सजीवास्ते दक्षिणाशां ततो गताः ॥४५॥

उत्तरे गौतमीतीरे विष्ण्वाद्याः सर्वदैवताः ।
स्थिता आसन्पूजयन्तो देवदेवं महेश्वरम् ॥४६॥

तत्राऽऽसन्नयुतान्यष्ट सहस्राणि चतुर्दश ।
तथा षट्च सहस्राणि पुनः षट्च तथैव च ॥४७॥

षड्दक्षिणे तथा तीरे तीर्थानामयुतत्रयम् ।
पुण्यमाख्यानमेतद्धि श्वेततीर्थस्य नारद ॥४८॥

यत्रासौ पतितो मृत्युर्मृत्युतीर्थं तदुच्यते ।
तस्य श्रवणमात्रेण सहस्रं जीवते समाः ॥४९॥

तत्र स्नानं च दानं च सर्वपापाप्रणाशनम् ।
श्रवणं पठनं चापि स्मरणं च मलक्षयम् ॥
करोति सर्वलोकानां भुक्तिमुक्तिप्रदायकम् ॥५०॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये उत्तरतीरस्थैकलक्षद्वादशसहस्रतीर्थदक्षिणतीरस्थत्रिंशत्सहस्रतीर्थवर्णनं नाम चतुर्नवतितमोऽध्यायः ॥९४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP