TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २२३

ब्रह्मपुराणम् - अध्यायः २२३

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २२३
संकरजातिलक्षणवर्णनम्
मुनय ऊचुः
सर्वज्ञस्त्वं महाभाग सर्वभूतहिते रतः ।
भुतं भव्यं भविष्यं च न तेऽस्त्यविदितं मुने ॥१॥

कर्मणा केन वर्णानामधमा जायते गतिः ।
उत्तमा च भवेत्केन ब्रूहि तेषां महामते ॥२॥

शूद्रस्तु कर्मणा केन ब्राह्मणत्वं च गच्छति ।
श्रोतुमिच्छामहे केन ब्राह्मणः शूद्रतामियात् ॥३॥

व्यास उवाच
हिमवच्छिखरे रम्ये नानाधातुविभूषिते ।
नानाद्रुमलताकीर्णे नानाश्चर्यसमन्विते ॥४॥

तत्र स्थितं महादेवं त्रिपुरघ्नं त्रिलोचनम् ।
शैलराजसुता देवी प्रणिपत्य सुरेश्वरम् ॥५॥

इमं प्रश्नं पुरा विप्रा अपृच्छच्चारुलोचना ।
तदहं संप्रवक्ष्यामि श्रृणुध्वं मम सत्तमाः ॥६॥

उमोवाच
भगवन्भगनेत्रघ्न पूष्णो दन्तविनाशन ।
दक्षक्रतुहर त्र्यक्ष संशयो मे महानयम् ॥७॥

चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयंभुवा ।
केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम् ॥८॥

वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत् ।
प्रतिलोमे कथं देव शक्यो धर्मो निवर्तितुम् ॥९॥

केन वा कर्मणा विप्रः शुद्रयोनौ प्रजायते ।
क्षत्रियः शुद्रतामेति केन वा कर्मणा विभो ॥१०॥

एतं मे संशयं देव वद भूतपतेऽनघ ।
त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यमाप्नुयुः ॥११॥

शिव उवाच
ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद्‌ब्राह्मणः शुभे ।
क्षत्रियो वैश्यशूद्रो वा निसर्गादिति मे मतिः ॥१२॥

कर्मणा दुष्कृतेनेह स्थानाद्‌भ्रश्यति स द्विजः ।
श्रेष्ठं वर्णमनुप्राप्य तस्मादाक्षिप्यते पुनः ॥१३॥

स्थितो ब्राह्मणधर्मेण ब्राह्मण्यमुपजीवति ।
क्षत्रियो वाऽथ वैश्यो वा ब्रह्मभूयं स गच्छति ॥१४॥

यश्च विप्रत्वमुत्सृज्य क्षत्रधर्मान्निषेवते ।
ब्राह्मण्यात्स परिभ्रष्टः क्षत्त्रयोनौ प्रजायते ॥१५॥

वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः ।
ब्राह्मण्यं दुर्लभं प्राप्य करोत्यल्पमतिः सदा ॥१६॥

स द्विजो वैश्यतामेति वैश्यो वा शूद्रतामियात् ।
स्वधर्मात्प्रच्युतो विप्रस्ततः शुद्रत्वमाप्नुयात् ॥१७॥

तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः ।
ब्रह्मलोकात्परिभ्रष्टः शुद्रयोनौ प्रजायते ॥१८॥

क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि ।
स्वानि कर्माण्यपाकृत्य शुद्रकर्म निषेवते ॥१९॥

स्वस्थानात्स पिरभ्रष्टो वर्णसंकरतां गतः ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः ॥२०॥

यस्तु शुद्रः स्वधर्मेण ज्ञानविज्ञानवाञ्शुचिः ।
धर्मज्ञो धर्मनिरतः स धर्मफलमश्नुते ॥२१॥

इदं चैवापरं देवि ब्रह्मणा समुदाहृतम् ।
अध्यात्मं नैष्ठिको सिद्धिर्धर्मकामैर्निषेव्यते ॥२२॥

उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम् ।
घुष्टान्नं नैव भोक्तव्यं शुद्रान्नं नैव वा क्वचित् ॥२३॥

शुद्रान्नं गर्हितं देवि सदा देवैर्महात्मभिः ।
पितामहामुखोत्सृष्टं प्रमाणमिति मे मतिः ॥२४॥

शुद्रान्नेनावशेषेण जठरे म्रियते द्विजः ।
आहिताग्निस्तथा यज्वा स शुद्रगतिभाग्भवेत् ॥२५॥

तेन शुद्रान्नशेषेण ब्रह्मस्थानादपाकृतः ।
ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा ॥२६॥

यस्यान्नेनावशेषेण जठरे म्रियते द्विजः ।
तां तां योनिं व्रजेद्विप्रो यस्यान्नमुपजीवति ॥२७॥

ब्राह्मणत्वं सुखं प्राप्य दुर्लभं योऽवमन्यते ।
अभोज्यान्नानि वाऽश्नाति स द्विजत्वात्पतेत वै ॥२८॥

सुरापो ब्रह्महा स्तेयी चौरो भग्नव्रतोऽशुचिः ।
स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः ॥२९॥

अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी ।
विहीनसेवी विप्रो हि पतते ब्रह्मयोनितः ॥३०॥

गुरुतल्पी गुरुद्वेषी सुरुकुत्सारतिश्च यः ।
ब्रह्मद्विड्वाऽपि पतति ब्राह्मणो ब्रह्मयोनितः ॥३१॥

एभिस्तु कर्मभिर्देवि शुभैराचरितैस्तथा ।
शूद्रो ब्राह्मणतां गच्छेद्वैश्यः क्षत्रियतां व्रजेत् ॥३२॥

शुद्रः कर्माणि सर्वाणि यथान्यायं यथाविधि ।
सर्वातिथ्यमुपातिष्ठञ्शेषान्नकृतभोजनः ॥३३॥

शुश्रुषां परिचर्यां यो ज्येष्ठवर्णे प्रयत्नतः ।
कुर्यादविमनाः श्रेष्ठ सततं सत्पथे स्थितः ॥३४॥

देवद्विजातिसत्कर्ता सर्वातिथ्यकृतव्रतः ।
ऋतुकालाभिगामी च नियतो नियताशनः ॥३५॥

दक्षः शिष्टजनान्वेषी शेषान्नकृतभोजनः ।
वृथा मांसं न भुञ्जीत शूद्रो वैश्यत्वमृच्छति ॥३६॥

ऋतवागनहंवादी निर्द्वद्वः सामकोविदः ।
यजते नित्ययज्ञैश्च स्वाध्यायपरमः शुचिः ॥३७॥

दान्तो ब्राह्मसत्कर्ता सर्ववर्णानसूयकः ।
गृहस्थव्रतमातिष्ठन्द्विकालकृतभोजनः ॥३८॥

शेषाशी विजिताहारो निष्कामो निरहंवदः ।
अग्निहोत्रमुपासीनो जुह्वानश्च यथाविधि ॥३९॥

सर्वातिथ्यमुपातिष्ठञ्शेषान्नकृतभोजनः ।
त्रेताग्निमात्रविहितं वैश्यो भवति च द्विजः ॥४०॥

स वैश्यः क्षत्रियकुले शुचिर्महति जायते ।
स वैश्यः क्षत्रियो जातो जन्मप्रभृति संस्कृतः ॥४१॥

उपनीतो व्रतपरो द्विजो भवति संस्कृतः ।
ददाति यजते यज्ञैः समृद्धैराप्तदक्षिणैः ॥४२॥

अधीत्य स्वर्गमन्विच्छंस्त्रेताग्निशरणः सदा ।
आर्द्रहस्तप्रदो नित्यं प्रजा धर्मेण पालयन् ॥४३॥

सत्यः सत्यानि कुरुते नित्यं यः शुद्धिदर्शनः ।
धर्मदण्डेन निर्दग्धो धर्मकामार्थसाधकः ॥४४॥

यन्त्रितः कार्यकरणैः षड्भागाकृतलक्षणः ।
ग्राम्यधर्मान्न सेवेत स्वच्छन्देनार्थकोविदः ॥४५॥

ऋतुकाले तु धर्मात्मा पत्नीमुपाश्रयेत्सदा ।
सदोपवासी नियतः स्वाध्यायनिरतः शुचिः ॥४६॥

वहिस्कान्तरिते(?)नित्यं शयानोऽस्ति सदा गृहे ।
सर्वातिथ्यं त्रिवर्गस्य कुर्वाणः सुमनाः साद ॥४७॥

शूद्राणां चान्नकामानां नित्यं सिद्धमिति ब्रुवन् ।
स्वार्थाद्वा यदि वा कामान्न किंचिदुपलक्षयेत् ॥४८॥

पितृदेवातिथिकृते साधनं कुरुते च यत् ।
स्ववेश्मनि यथान्यायमुपास्ते भैक्ष्यमेव च ॥४९॥

द्विकालमग्निहोत्रं च जुह्वानो वै यथाविधि ।
गोब्राह्मणहितार्थाय रणे चाभिमुखो हतः ॥५०॥

त्रेताग्निमन्त्रपूतेन समाविश्य द्विजो भवेत् ।
ज्ञानविज्ञानसंपन्नः संस्कृतो वेदपारगः ॥५१॥

वैश्यो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा ।
एतैः कर्मफलैर्देवि न्युनजातिकुलोद्‌भवः ॥५२॥

शूद्रोऽप्यागमसंपन्नो द्विजो भवति संस्कृतः ।
ब्राह्मणो वाऽप्यसद्वृत्तः सर्वसंकरभोजनः ॥५३॥

स ब्राह्मण्यं समुत्सृज्य शूद्रो भवति तादृशः ।
कर्मभिः शुचिभिर्देवी शुद्धात्मा विजितेन्द्रियः ॥५४॥

शूद्रोऽपि द्विजवत्सेव्य इति ब्रह्माऽब्रवीत्स्वयम् ।
स्वभावकर्मणा चैव यत्र(श्च)शुद्रोऽधितिष्ठति ॥५५॥

विशुद्धः स द्विजातिभ्यो विज्ञेय इति मे मतिः ।
न योनिर्नापि संस्कारो न श्रुतिर्न च संतति ॥५६॥

कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् ।
सर्वोऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते ॥५७॥

वृत्ते स्थितश्च शुद्रोऽपि ब्राह्मणत्वं च गच्छति ।
ब्रह्मस्वभावः सुश्रोणि समः सर्वत्र मे मतः ॥५८॥

निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः ।
एते ये विमला देवि स्थानाभावनिदर्शकाः ॥५९॥

स्वयं च वरदेनोक्ता ब्रह्मणा सृजता प्रजाः ।
ब्रह्मणो हि महत्क्षेत्रं लोके चरति पादवत् ॥६०॥

यत्तत्र बीजं पतति सा कृषिः प्रेत्य भाविनी ।
संतुष्टेन सदा भाव्यं सत्पथालम्बिना सदा ॥६१॥

ब्राह्मं हि मार्गमाक्रम्य वर्तितव्यं बुभूषता ।
संहिताध्यायिना भाव्यं गृहं वै गृहमेधिना ॥६२॥

नित्यं स्वाध्याययुक्तेन न चाध्ययनजीविना ।
एवं भूतो हि यो विप्रः सततं सत्पथे स्थितः ॥६३॥

आहिताग्निरधीयानो ब्रह्मभूयाय कल्पते ।
ब्राह्मण्यं देवि संप्राप्य रक्षितव्यं यतात्मना ॥६४॥

योनिप्रतिग्रहादानैः कर्मभिश्च शुचिस्मिते ।
एतत्ते गुह्यमाख्यातं यथा शुद्रो भवेद्‌द्विजः ॥
ब्राह्मणो वा च्युतो धर्माद्यथा शुद्रत्वमाप्नुयात् ॥६५॥

इति श्रीमहापुराणे आदिब्राह्मे उमामहेश्वरसंवादे संकरजातिलक्षणवर्णनं नाम त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॥२२३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:45.9600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

return electrons

  • Cathode Ray Tubes प्रत्यागमन रेषा 
RANDOM WORD

Did you know?

गणेश गीतेचा मराठी अनुवाद कुठे आणि कसा मिळेल या बद्दल सांगावे
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site