TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २२८

ब्रह्मपुराणम् - अध्यायः २२८

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २२८
व्यासमुनिसंवादे विष्णुपूजाकथनम्
व्यास उवाच
एकादश्यामुभे पक्षे निराहारः समाहितः ।
स्नात्वा सम्यग्विधानेन धौतवासा जितेन्द्रियः ॥१॥

संपूज्य विधिवद्धिष्णुं श्रद्धया सुसमाहितः ।
पुष्पैर्गन्धैस्तथा दीपैर्धूपैर्नैवेद्यकैस्तथा ॥२॥

उपहारैर्बहुविधैर्जप्यैर्होमप्रदक्षिणैः ।
स्तोत्रैर्नानाविधैर्दिव्यैर्गीतवाद्यैर्मनोहरैः ॥३॥

दण्डवत्प्रणिपातैश्च जयशब्दैस्तथोत्तमैः ।
एवं संपूज्य विधिवद्रात्रौ कृत्वा प्रजागरम् ॥४॥

कथां वा गीतिकां विष्णोर्गायन्विष्णुपरायणः ।
याति विष्णोः परं स्थानं नरो नास्त्यत्र संशयः ॥५॥

मुनय ऊचुः
प्रजागरे गीतिकायाः फलं विष्णोर्महामुने ।
ब्रूहि तच्छ्रोतुमिच्छामः परं कौतूहलं हि नः ॥६॥

व्यास उवाच
श्रृणुध्वं मुनिशार्दूला प्रवक्ष्याम्यनुपूर्वशः ।
गीतिकायाः फलं विष्णोर्जागरे यदुदाहृतम् ॥७॥

अवन्ती नाम नगरी बभूव भुवि विश्रुता ।
तत्राऽऽस्ते भगवान्विष्णुः शङ्खचक्रगदाधरः ॥८॥

तस्या नगर्याः पर्यन्ते चाण्डालो गीतिकोविदः ।
सद्‌वृत्त्योत्पादितधनो भृत्यानां भरणे रतः ॥९॥

विष्णुभक्तः स चाण्डालो गीतिकोविदः ।
एकादश्यां समागम्य सोपवासोऽथ गायति  ॥१०॥

गीतिका विष्णुनामाङ्‌काः प्रादुर्भावसमाश्रिताः ।
गान्धारषड्‌जनैषादस्वरपञ्चमधैवतैः ॥११॥

रात्रिजागरणे विष्णुं गाथाभिरुपगायति ।
प्रभाते च प्रणम्येशं द्वादश्यां गृहमेत्य च ॥१२॥

जामातृभागिनेयांश्च भोजयित्वा सकन्यकाः ।
ततः सपरिवारस्तु पश्चाद्‌भुङ्क्ते द्विजोत्तमाः ॥१३॥

एवं तस्याऽऽसतस्तत्र कुर्वतो विष्णुप्रीणनम् ।
गीतिकाभिर्विचित्राभिर्वयः प्रतिगतं बहु ॥१४॥

एकदा चैत्रमासे तु कृष्णैकादशिगोचरे ।
विष्णुशुश्रूषणार्थाय ययौ वनमनुत्तमम् ॥१५॥

वनजातानि पुष्पाणि ग्रहीतुं भक्तितत्परः ।
क्षिप्रातटे महारण्ये विभीतकतरोरधः ॥१६॥

दृष्टः स राक्षसेनाथ गृहीतश्चापि भक्षितुम् ।
चाण्डालस्तमथोवाच नाद्य भक्ष्यस्त्वया ह्यहम् ॥१७॥

प्रातर्भोक्ष्यसि कल्याण सत्यमेष्याम्यहं पुनः ।
अद्य कार्यं मम महत्तस्मान्मुञ्चस्व राक्षस ॥१८॥

श्वः सत्येन समेष्यामि ततः खादसि मामिति ।
विष्णुशुश्रुषणार्थाय रात्रिजागरणं मया ।
कार्यं न व्रतविघ्नं मे कर्तुमर्हसि राक्षस ॥१९॥

व्यास उवाच
तं राक्षसः प्रत्युवाच दशरात्रमभोजनम् ।
ममाभूदद्य च भवान्मया लब्धो मतङ्गज ॥२०॥

न मोक्ष्ये भक्षयिष्यामि क्षुधया पीडितो भृशम् ।
निशाचरवचः श्रुत्वा मातङ्गस्तमुवाच ह ॥
सान्त्वयञ्श्लक्ष्णया वाचा स सत्यवचनैर्दृढैः ॥२१॥

मातङ्ग उवाच
सत्यमूलं जगत्सर्वं ब्रह्मराक्षस तच्छृणु ।
सत्येनाहं शपिष्यामि पुरनागमनाय च ॥२२॥

आदित्यश्चन्द्रमा वह्निर्वायुर्भूद्यैर्जलं मनः ।
अहोरात्रं यमः संध्ये द्वे विदुर्नरचेष्टितम् ॥२३॥

परदारेषु यत्पापं यत्परद्रव्यहारिषु ।
यच्च ब्रह्महनः पापं सुरापे गुरुतल्पगे ॥२४॥

बन्धयापतेश्च यत्पापं यत्पापं वृषलीपतेः ।
यच्च देवलोके पापं मत्स्यमांसाशिनश्च यत् ॥२५॥

क्रोडमांसाशिनो यच्च कूर्ममांसाशिनश्च यत् ।
वृथा मांसाशिनो यच्च पृष्ठमांसाशिनश्च यत् ॥२६॥

कृतघ्ने मित्रघातके यत्पापं दिधिषूपतौ ।
सूतकस्य च यत्पापं यत्पापं क्रूरकर्मणः ॥२७॥

कृपणस्य च यत्पापं यच्च बन्धयातिथेरपि ।
अमावास्याऽष्टमी षष्ठी कृष्णशुक्लचतुर्दशी ॥२८॥

तासुयद्‌गमनात्पापं यद्विप्रो व्रजति स्त्रियम् ।
रजस्वलां तथा पश्चच्छ्राद्धं कृत्वा स्त्रियं व्रजेत् ॥२९॥

सर्वस्वस्नातभोज्यानां यत्पापं मलभोजने ।
मित्रभार्यां गच्छतां च यत्पापं पिशुनस्य च ॥३०॥

दम्भमायानुरक्ते च यत्पापं मधुघातिनः ।
ब्राह्मणस्य प्रतिश्रुत्य यत्पापं तदयच्छतः ॥३१॥

यच्च कन्यानृते च यत्पापं मधुघातिनः ।
ब्राह्मणस्य प्रतिश्रुत्य यत्पापं तदयच्छतः ॥३२॥

देववेदद्विजनृपपुत्रमित्रसतीस्त्रियः ।
यच्च निन्दयतां पापं गुरुमिथ्यापचारतः ॥३३॥

अग्नित्यागिषु यत्पापमग्निदायिषु यद्वने ।
गृहेष्ट्या पातके यच्च यद्गोध्ने यद्‌द्विजाधमे ॥३४॥

यत्पापं परिवित्ते च यत्पापं परिवेदिनः ।
तयोर्दातृग्रहीत्रोश्च यत्पापं भ्रूणघातिनः ॥३५॥

किं चात्र बहुभिः प्रोक्तैः शपथैस्तव राक्षस ।
श्रूयतां शपथं भीमं दुर्वाच्यमपि कथ्यते ॥३६॥

स्वकन्याजीविनः पापं गूढसत्येन साक्षिणः ।
अयाज्ययाजके षण्ढे यत्पापं श्रवणेऽधमे ॥३७॥

प्रव्रज्यावसिते यच्च ब्रह्मचारिणि कामुके ।
एतैस्तु पापैर्लिप्येऽहं यदि नैष्यामि तेऽन्तिकम् ॥३८॥

व्यास उवाच
मातङ्गवचनं श्रुत्वा विस्मितो ब्रह्मराक्षसः ।
प्राह गच्छस्व सत्येन समयं चैव पालय ॥३९॥

इत्युक्तः कुणपाशेन स्वपाकः कुसुमानि तु ।
समादायागमच्चैव विष्णोः स निलयं गतः ॥४०॥

तानि प्रादाद्‌ब्राह्मणाय सोऽपि प्रक्षाल्य चाम्भसा ।
विष्णुमभ्यर्च्य निलयं जगाम स तपोधनाः ॥४१॥

सोऽपि मातङ्गदायादः सोपवासस्तु तां निशाम् ।
गायन्हि बाह्यभूमिष्ठः प्रजागरमुपाकरोत् ॥४२॥

प्रभातायां तु शर्वर्यां स्नात्वा देवं नमस्य च ।
सत्यं स समयं कर्तुं प्रतस्थे यत्र राक्षसः ॥४३॥

तं व्रजन्तं पथि नरः प्राह भद्र क्व गच्छसि ।
स तथाऽकथयत्सर्वं सोऽप्येनं पुनरब्रवीत् ॥४४॥

धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ।
महता तु प्रयत्नेन शरीरं पालयेद्‌बुधः ॥४५॥

जीवधर्मार्थसुखं नरस्तथाऽऽप्नोति मोक्षगतिमग्य्राम् ।
जीवन्कीर्तिमुपैति च भवति मृतस्य का कथा लोके ॥४६॥

मातङ्गस्तद्वचः श्रुत्वा प्रत्युवाचाथ हेतुमत् ॥४७॥

मातङ्ग उवाच
भद्र सत्यं पुरुस्कृत्य गच्छामि शपथाः कृताः ॥४८॥

व्यास उवाच
तं भूयः प्रत्युवाचाथ किमेवं मूढधीर्भवान् ।
किं न श्रुतं त्वया साधो मनुना यदुदीरितम् ॥४९॥

गोस्त्रीद्विजानां परिरक्षणार्थं, विवाहकाले सुरतप्रसङ्गे ।
प्राणात्यये सर्वधनापहारे, पञ्चाऩतान्याहुरपातकानि ॥५०॥

धर्मवाक्यं न च स्त्रीषु न विवाहे तथा रिपौ ।
वञ्चने चार्थहानौ च स्वनाशेऽनृतके तथा ॥
एवं तद्वाक्यमाकर्ण्य मातङ्ग प्रत्युवाच ह ॥५१॥

मातङ्ग उवाच
मैवं वदस्व भद्रं ते सत्यं लोकेषु पूज्यते ।
सत्येनावाप्यते सौख्यं यत्किंचिज्जगतीगतम् ॥५२॥

सत्येनार्कः प्रतपति सत्येनाऽऽपो रसात्मिकाः ।
ज्वलत्यग्निश्च सत्येन वाति सत्येन मारुतः ॥५३॥

धर्मार्थकामसंप्राप्तिर्मोक्षप्राप्तिश्च दुर्लभा ।
सत्येन जायते पुंसां तस्मात्सत्यं न संत्यजेत् ॥५४॥

सत्यं ब्रह्म परं लोके सत्यं यज्ञेषु चोत्तमम् ।
सत्यं स्वर्गसमायातं तस्मात्सत्यं न संत्यजेत् ॥५५॥

व्यास उवाच
इत्युक्त्वा सोऽथ मातङ्गस्तं प्रक्षिप्य नरोत्तमम् ।
जगाम तत्र यत्राऽऽस्ते प्राणिहा ब्रह्मराक्षसः ॥५६॥

तमागतं समीक्ष्यासौ चाण्डालं ब्रह्मराक्षसः ।
विस्मयोत्फुल्लनयनः शिरः कम्पं तमब्रवीत् ॥५७॥

ब्रह्मराक्षस उवाच
साधु साधु महाभाग सत्यवाक्यानुपालक ।
न मातङ्गमहं मन्ये भवन्तं सत्यलक्षणम् ॥५८॥

कर्मणाऽनेन मन्ये त्वां ब्राह्मणं शुचिमव्ययम् ।
यत्किंचित्त्वां भद्रमुखं प्रवक्ष्ये धर्मसंश्रयम् ॥
किं तत्र भवता रात्रौ कृतं विष्णुगृहे वद ॥५९॥

व्यास उवाच
तमभ्युवाच मातङ्गः श्रृणु विष्णुगृहे मया ।
यत्कृतं रजनीभागे यथातथ्यं वदामि ते ॥६०॥

विष्णोर्देवकुलस्याधः स्थितेनाऽऽनम्रमूर्तिना ।
प्रजागरः कृतो रात्रौ गायता विष्णुगीतिकाम् ॥६१॥

तंब्रह्मराक्षसः प्राह कियन्तं कालमुच्यताम् ।
प्रजागरो विष्णुगृहे कृतं(तो)भक्तिमता वद ॥६२॥

तमभ्युवाच प्रहसन्विंशत्यब्दानि राक्षस ।
एकादश्यां मासि मासि कृतस्तत्र प्रजागरः ॥
ब्रह्मराक्षस उवाच
मातङ्गवचनं श्रुत्वा प्रोवाच ब्रह्मराक्षसः ॥६३॥

यदद्य त्वां प्रवक्ष्यामि तद्‌भवान्वक्तुमर्हति ।
एकारात्रिकृतं साधो मम देहि प्रजागरम् ॥६४॥

एवं त्वां मोक्षयिष्यामि मोक्षयिष्यामि नान्यथा ॥
त्रिः सत्येन महाभाग इत्युक्त्वा विरराम ह ॥६५॥

व्यास उवाच
मातङ्गस्तमुवाचाथ मयाऽऽत्मा ते निशाचर ।
निवेदितः किमुक्तेन खादस्व स्वेच्छयाऽपि माम् ॥६६॥

तमाह राक्षसो भूयो यामद्वयप्रजागरम् ।
सगीतं मे प्रयच्छस्व कृपां कर्तुं त्वमर्हसि ॥६७॥

मातङ्गो राक्षसं प्राह किमसंबद्धमुच्यते ।
खादस्व स्वेच्छया मां त्वं न प्रदास्ये प्रजागरम् ॥
मातङ्गवचनं श्रुत्वा प्राह तं ब्रह्मराक्षसः ॥६८॥

ब्रह्मराक्षस उवाच
को हि दुष्टमतिर्मन्दो भवन्तं द्रष्टुमुत्सहेत् ।
धर्षयितुं पीडयितुं रक्षितं धर्मकर्मणा ॥६९॥

दीनस्य पापग्रस्तस्य विषयैर्मोहितस्य च ।
नरकार्तस्य मूढस्य साधवः स्युर्दयान्विताः ॥७०॥

तन्मम त्वं महाभाग कृपां प्रजागरम् ।
यामस्यैकस्य मे देहि गच्छ वा निलयं स्वकम् ॥७१॥

व्यास् उवाच
तं पुनः प्राह चाण्डालो न यास्यामि निजं गृहम् ।
न चापि तव दास्यामि कथं चिद्यामजागरम् ॥
तं प्रहस्याथ चाण्डालं प्रोवाच ब्रह्मराक्षसः ॥७२॥

ब्रह्मराक्षस उवाच
रात्र्यवसाने या गीता गीतिका कौतुकाश्रया ।
तस्याः फलं प्रयच्छस्व त्राहि पापात्समुद्धर ॥७३॥

व्यास उवाच
एवमुच्चारिते तेन मातङ्गस्तमुवाच ह ॥७४॥

मातङ्ग उवाच
किं पूर्वं भवता कर्म विकृतं कृतमञ्जसा ।
येन त्वं दोषजातेन संभूतो ब्रह्मराक्षसः ॥७५॥

व्यास उवाच
तस्य तद्वाक्यमाकर्ण्य मातङ्गं ब्रह्मराक्षसः ।
प्रोवाच दुःखसंतप्तः संस्मृत्य स्वकृतं कृतम् ॥७६॥

ब्रह्मराक्षस उवाच
श्रूयतां योऽहमासं वै पूर्वं यच्च मया कृतम् ।
यस्मिन्कृते पापयोनिं गतवानस्मि राक्षसीम् ॥७७॥

सोमशर्म इति ख्यातः पूर्वमासमहं द्विजः ।
पुत्रोऽध्ययनशीलस्य देवशर्मस्य यज्वनः ॥७८॥

कस्यचिद्यजमानस्य सूत्रमन्त्रबहिष्कृतः ।
नृपस्य कर्मसक्तेन यूपकर्मसुनिष्ठितः ॥७९॥

आग्नीध्रं चाकरोद्यज्ञे लोभमोहप्रपीडितः ।
तस्मिन्परिसमाप्ते तु मौर्ख्याद्दम्भमनुष्ठितः ॥८०॥

यष्टुमारब्धवानस्मि द्वादशाहं महाक्रतुम् ।
प्रवर्तमाने तस्मिंस्तु कुक्षिशूलोऽभन्मम ॥८१॥

संपूर्णे दशरात्रे तु न समाप्ते तथा क्रतौ ॥
विरूपाक्षस्य दीयन्त्यामाहुत्‌यां राक्षसे क्षणे ॥८२॥

मृतोऽहं तेन दोषेण संभूतो ब्रह्मराक्षसः ।
मूर्खेण मन्त्रहीनेन सूत्रस्वरविवर्जितम् ॥८३॥

अजानता यद्यविद्यां यदिष्टं याजितं च यत् ।
तेन कर्मविपाकेन संभूतो ब्रह्मराक्षसः ॥८४॥

तन्मां पापमहाम्भोधौ निमग्नं त्वं समुद्धर ।
प्रजागरे गीतिकैकां पश्चिमां दातुर्महसि ॥८५॥

व्यास उवाच
तमुवाचाथ चाण्डालो यदि प्राणिवधाद्‌भवान् ।
निवृत्तिं कुरुते दद्यां ततः पश्चिमगीतिकाम् ॥८६॥

बाढमित्यवदत्सोऽपि मातङ्गोऽपि ददौ तदा ।
गीतिकाफलमामन्त्र्य मुहूर्तार्धप्रजागरम् ॥८७॥

तस्मिन्गीतिफले दत्ते मातङ्गं ब्रह्मराक्षसः ।
प्रणम्य प्रययौ हृष्टतीर्थवर्यं पृथूदकम् ॥८८॥

तत्रानशनसंकल्पं कृत्वा प्राणाञ्जहौ द्विजाः ।
राक्षसत्वाद्विनिर्मुक्तो गीतिकाफलबृंहितः ॥८९॥

पृथूदकप्रभावाच्च ब्रह्मलोकं च दुर्लभम् ।
दश वर्षसहस्राणि निरातङ्कोऽवसत्ततः ॥९०॥

तस्यान्ते ब्राह्मणो जातो बभूव स्मृतिमान्वशी ।
तस्याहं चरितं भूयः कथयिष्यामि भो द्विजाः ॥९१॥

मातङ्गस्य कथाशेषं श्रृणुध्वं गदतो मम ।
राक्षसे तु गते धीमान्गृहमेत्य यतात्मवान् ॥९२॥

तद्विप्रचरितं स्मृत्वा निर्विष्णः शुचिरप्यसौ ।
पुत्रेषु भार्यां निक्षिप्य ददौ भूम्याः प्रदक्षिणाम् ॥९३॥

कोकामुखात्समारभ्य यावद्वै स्कन्ददर्शनम् ।
दृष्ट्वा स्कन्दं ययौ धाराचक्रे चापि प्रदक्षिणम् ॥९४॥

ततोऽद्रिवरमागम्य विन्ध्यमुच्चशिलोच्चयम् ।
पापप्रमोचनं तीर्थमाससाद स तु द्विजाः ॥९५॥

स्नानं पापहरं चक्रे स तु चाण्डालवंशजः ।
विमुक्तपापः संस्मार पूर्वजातीरनेकशः ॥९६॥

स पूर्वजन्मन्यभवद्भिक्षुः संयतवाङ्मनाः ।
यतकायश्च मतिमान्वेदवेदाङ्गपारगः ॥९७॥

एकदा गोषु नगराद्‌ध्रियमामासु तस्करैः ।
भिक्षाऽवधूता रजसा मुक्ता तेनाथ भिक्षुणा ॥९८॥

स तेनाधर्मदोषेण चाण्डालीं योनिमागतः ।
पापप्रमोचने स्नातः स मृतो नर्मदातटे ॥९९॥

मूर्खोऽभूद्‌ब्राह्मणवरो वाराणस्यां च भो द्विजाः ।
तत्रास्य वसतोऽब्दैस्तु त्रिंशद्भिः सिद्धपूरुषः ॥१००॥

विरूपरूपी बभ्राम योगमायाबलान्वितः ।
तं दृष्ट्वा सोपहासार्थमभिवाद्याभ्युवाच ह ॥१०१॥

कुशलं सिद्धपुरुषं कुतस्त्वगम्यते त्वया ॥१०२॥

व्यास उवाच
एवं संभाषितस्तेन ज्ञातोऽहमिति चिन्त्य तु ।
प्रत्युवाचाथ वन्द्यस्तं स्वर्गलोकादुपागतः ॥१०३॥

तं सिद्धिं प्राह मुर्खोऽसौ किं त्वं वेत्सि त्रिविष्टपे ।
नारायणोरुप्रभवामुर्वशीमप्सरोवराम् ॥१०४॥

सिद्धस्तमाह तां वेद्मि शक्रचामरधारिणीम् ।
स्वर्गस्याऽऽभरणं मुख्यमुर्वशीं साधुसंभवाम् ॥१०५॥

विप्रः सिद्धमुवाचाथ ऋजुमार्गविवर्जितः ।
तन्मित्र मत्कृते वार्तामुर्वश्या भवताऽऽदरात् ॥१०६॥

कथनीया यच्च सा ते ब्रूयादाख्यास्यते भवान् ।
बाढमित्यब्रवीत्सिद्धः सोऽपि विप्रो मुदाऽन्वितः ॥१०७॥

बभूव सिद्धोऽपि ययौ मेरुपृष्ठं सुरालयम् ।
समेत्य चोर्वशीं प्राह यदुक्तोऽसौ द्विजेन तु ॥१०८॥

सा प्राह तं सिद्धवरं नाहं काशिपतिं द्विजम् ।
जानामि सत्यमुक्तं ते न चेतसि मम स्थितम् ॥१०९॥

इत्युक्तः प्रययौ सोऽपि कालेन बहुना पुनः ।
वाराणसीं ययौ सिद्धो दृष्टो मूर्खेण वै पुनः ॥११०॥

दृष्टः पृष्टः किल भूयः किमाहोरुभवा तव ।
सिद्धोऽब्रवीन्न जानामि मामुवाचोर्वशी स्वयम् ॥१११॥

सिद्धवाक्यं ततः श्रुत्वा स्मितभिन्नौष्ठसंपुटः ।
पुनः प्राह कथं वेत्सीत्येवं वाच्या त्वयोर्वशी ॥११२॥

वाढमेवं करिष्यामीत्युक्त्वा सिद्धो दिवं गतः ।
ददर्श शक्रभवनान्निष्क्रामन्तीमथोर्वशीम् ॥११३॥

प्रोवाच तां सिद्धवरः सा च तं सिद्धमब्रवीत् ।
नियमं कंचिदपि हि करोतु द्विजसत्तमः ॥११४॥

येनाहं कर्मणा सिद्ध तं जानामि न चान्यथा ।
तदुर्वशीवचोऽभ्येत्य तस्मै मूर्खद्विजाय तु ॥११५॥

कथयामास सिद्धस्तु सोऽपीमं नियमं जगौ ।
तवाग्रे सिद्धपुरुष नियमोऽयं कृतो मया ॥११६॥

न भोक्ष्येऽद्यप्रभृति वै शकटं सत्यमीरितम् ।
इत्युक्तः प्रययौ सिद्धः स्वर्गे दृष्ट्वोर्वशीमथ ॥११७॥

प्राहासौ शकटं भोक्ष्ये नाद्यप्रभृति कर्हिचित् ।
तं सिद्धमुर्वशी प्राह ज्ञातोऽसौ सांप्रतं मया ॥११८॥

नियमग्रहणादेव मूर्खो मा(ऽय)मुपहासकः ।
इत्युक्त्वा प्रययौ शीघ्रं वासं नारायणात्मजा ॥११९॥

सिद्धोऽपि विचचारासौ कामचारी महीतलम् ।
उर्वश्यापि वरारोहा गत्वा वाराणसीं पुरीम् ॥१२०॥

मत्स्योदरीजले स्नानं चक्रे दिव्यवपुर्धरा ।
अथासावपि मूर्खस्तु नदीं मत्स्योदरीं मुने ॥१२१॥

जगामाथ ददर्शासौ स्नायमानामथोर्वशीम् ।
तां दृष्ट्वा ववृधेऽथास्य मन्मथः क्षोभकृद्‌दृढम् ॥१२२॥

चकार मूर्खश्चेष्टाश्च तं विवेदोर्वशी स्वयम् ।
तं मूर्खं सिद्धगदितं ज्ञात्वा सस्मितमाह तम् ॥१२३॥

उर्वश्युवाच
किमिच्छसि महाभाग मत्तः शीघ्रमिहोच्यताम् ।
करिष्यामि वचस्तुभ्यं त्वं विश्रब्धं करिष्यसि ॥१२४॥

मूर्खब्राह्मण उवाच
आत्मप्रदानेन मम प्राणान्रक्ष शुचिस्मिते ॥१२५॥

व्यास उवाच
तं प्राहाथोर्वशी विप्रं नियमस्थाऽस्मि सांप्रतम् ।
त्वं तिष्ठस्व क्षणमथ प्रतीक्षस्वाऽऽगतं मम ॥१२६॥

स्थितोऽस्मीत्यब्रवीद्विप्रः साऽपि स्वर्गं जगाम ह ।
मासमात्रेण साऽऽयाता ददर्श तं कृशं द्विजम् ॥१२७॥

स्थितं मासं नदी तीरे निराहारं सुराङ्गना ।
तं दृष्ट्वा निश्चययुतं भूत्वा वृद्धवपुस्ततः ॥१२८॥

सा चकार नदीतीरे शकटं शर्करावृतम् ।
घृतेना चौव नदीं मत्स्योदरीं गता ॥१२९॥

स्नात्वाऽथ भूमौ वसन्ती शकटं च यथार्थतः ।
तं ब्राह्मणं समाहूय वाक्यमाह सुलोचना ॥१३०॥

उर्वश्युवाच
मया तीव्रं व्रतं विप्र चीर्ण सौभाग्यकारणात् ।
व्रतान्ते निष्कृतिं दद्यां प्रतिगृह्णीष्व भो द्विज ॥१३१॥

व्यास उवाच
स प्राह किमिदं लोके दीयते शर्करावृतम् ।
क्षुत्क्षामकण्ठः पृच्छामि साधु भद्रे समीरय ॥१३२॥

सा प्राह शकटो विप्र शर्करापिष्टसंयुतः ।
इमं त्वं समुपादाय प्राणं तर्पय मा चिरम् ॥१३३॥

स तच्छ्रुत्वाऽथ संस्मृत्य क्षुधया पीडितोऽपि सन् ।
प्राह भद्रे न गृह्णामि नियमो हि कृतो मया ॥१३४॥

पुरतः सिद्धवर्गस्य न भोक्ष्ये शकटं त्विति ।
परिज्ञानार्थमुर्वश्या ददस्वान्यस्य कस्यचित् ॥१३५॥

साऽब्रवीन्नियमो भद्र कृतः काष्ठमये त्वया ।
नासौ काष्ठमयो भुङ्क्ष्व क्षुधया चातिपीडितः ॥१३६॥

तां ब्राह्मणः प्रत्युवाच न मया तद्विशेषणम् ।
कृतं भद्रेऽथ नियमः सामान्येनैव मे कृतः ॥१३७॥

तं भूयः प्राह सा तन्वी न चेद्‌भोक्ष्यसि ब्राह्मण ।
गृहं गृहीत्वा गच्छस्व कुटुम्बं तव भोक्ष्यति ॥१३८॥

स तामुवाच सुदति न तावद्यामि मन्दिरम् ।
इहाऽयाता वरारोहा त्रैलोक्येऽप्यधिका गुणैः ॥१३९॥

सा मया मदनार्तेन प्रार्थिताऽऽश्वासितस्तया ।
स्थीयतां क्षममित्येवं स्थास्यामीति मयोदितम् ॥१४०॥

मासमात्रं गतायास्तु तस्या भद्रे स्थितस्य च ।
मम सत्यानुक्तस्य संगमाय धृतव्रते ॥१४१॥

तस्य सा वचनं श्रुत्वा कृत्वा स्व रूपमुत्तमम् ।
विहस्य भावगम्भीरमुर्वशी प्राह तं द्विजम् ॥१४२॥

उर्वश्युवाच
साधु सत्यं त्वया विप्र व्रतं निष्ठितचेतसा ।
निष्पादितं हठादेव मम दर्शनमिच्छता ॥१४३॥

अहमेवोर्वशी विप्र त्वां जिज्ञासार्थमागता ।
परीक्षितो निश्चितवान्भवन्सत्यतपा ऋषिः ॥१४४॥

गच्छ शूकरवोद्‌देशं रूपतीर्थेति विश्रुतम् ।
सिद्धिं यास्यसि विप्रेन्द्र ततस्त्वं मामवाप्स्यसि ॥१४५॥

व्यास उवाच
इत्युक्त्वा दिवमुत्पत्य सा जगामोर्वशी द्विजाः ।
स च सत्यतपा विप्रो रूपतीर्थं जगाम ह ॥१४६॥

तत्र शान्तिपरो भूत्वा नियमव्रतधृक्शुचिः ।
देहोत्सर्गे जगामासौ गान्धर्वं लोकमुत्तमम् ॥१४७॥

तत्र मन्वन्तरशतं भोगान्भुक्त्वा यथार्थतः ।
बभूव सुकुले राजा प्रजारञ्जनतत्परः ॥१४८॥

स यज्वा विविधैर्यज्ञैः समाप्तवरदक्षिणैः ।
पुत्रेषु राज्यं निक्षिप्य ययौ शौकरवं पुनः ॥१४९॥

रूपतीर्थे मृतो भूयः शक्रलोकमुपागतः ।
तत्र मन्वन्तरशतं भोगान्भुक्त्वा ततश्च्युतः ॥१५०॥

प्रतिष्ठाने पुरवरे बुधपुत्रः पुरूरवाः ।
बभूव तत्र चोर्वश्याः संगमाय तपोधनाः ॥१५१॥

एवं पुरा सत्यतपा द्विजातिस्तीर्थे प्रसिद्धे स हि रूपसंज्ञे ।
आराध्य जन्मन्यथ चार्च्य विष्णुमवाप्य भोगानथ मुक्तिमेति ॥१५२॥

इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे प्रजागरे गीतिकायाः प्रशंसानिरूपणं नाम
अष्टाविंशत्यधिकद्विततमोऽध्यायः ॥२२८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:46.2400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

परसांतली भाजी

  • परसांतली भाजी केव्हांहि खुडतां येते यावरुन सहज सुलभ गोष्ट 
  • अगदीं हातांतील गोष्ट 
  • पूर्णपणें ताब्यांतील वस्तु 
  • ‘स्वारी कराविशीं वाटली कीं निघाले हिंदुस्थानांत, राज्य करावेंसे वाटले कीं धरली वाट हिंदुस्थानची. हिंदुस्थान म्हणेजे परसांतली-समजला काय? 
More meanings
RANDOM WORD

Did you know?

श्रीदत्तपुराणटीका and more books for shree dattaray
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.