TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ४२

ब्रह्मपुराणम् - अध्यायः ४२

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः ४२
उत्कलक्षेत्र-वर्मनम्
ब्रह्मोवाच
विरजे विरजा माता ब्रह्माणी संप्रतिष्ठिता ।
यस्याः संदर्शनान्मर्त्यः पुनात्यासप्तमं कुलम् ॥१॥

सकृद्‌दृष्ट्वा तु तां देवीं भक्त्याऽऽपूज्य प्रणम्य च ।
नरः स्ववंशमुद्धृत्य मम लोकं स गच्छति ॥२॥

अन्याश्च तत्र तिष्ठन्ति विरजे लोकमातरः ।
सर्वपापहरा देव्यो वरदा भक्तवत्सलाः ॥३॥

आस्ते वैतरणी तत्र सर्वपापहरा नदी ।
यस्यां स्नात्वा नरश्रेष्ठः सर्वपापैः प्रमुच्यते ॥४॥

आस्ते स्वयंभूस्तत्रैव क्रोडरूपी हरिः स्वयम् ।
दृष्ट्वा प्रणम्य तं भक्त्वा परं विष्णुं व्रजन्ति ते ॥५॥

कापिले गोग्रहे सोमे तीर्थे चालाबुसंज्ञिते ।
मृत्युंजये क्रोडतीर्थे वासुके सिद्धकेश्वरे ॥६॥

तीर्थेष्वेतेषु मतिमान्विरजे संयतेन्द्रियः ।
गत्वाष्टतीर्थं विधिवत्स्नात्वा देवान्प्रणम्यच ॥७॥

सर्वपापविनिर्मुक्तो विमानवरमास्थितः ।
उपगीयमानो गन्धर्वैर्मम लोके महीयते ॥८॥

विरजे यो मम क्षेत्रे पिण्डदानं करोति वै ।
स करोत्यक्षयां तृप्तिं पितॄणां नात्र संशयः ॥९॥

मम क्षेत्रे मुनिश्रेष्ठ विरजे ये कलेवरम् ।
परित्यजन्ति पुरुषास्ते मोक्षं प्राप्नुवन्ति वै ॥१०॥

स्नात्वा यः सागरे मर्त्यों दृष्ट्वा च कपिलं हरिम् ।
पश्येद्‌देवीं च वाराहीं स याति त्रिदशालयम् ॥११॥

सन्ति चान्यानितीर्थानि पुण्यान्यायतनानि च ।
तत्काले तु मुनिश्रेष्ठा वेदितव्यानि तानि वै ॥१२॥

समुद्रस्योत्तरे तीरे तस्मिन्देशे द्विजोत्तमाः ।
आस्ते गृह्यं परं क्षेत्रं मुक्तिदं पापनाशनम् ॥१३॥

सर्वत्र वालुकाकीर्णं पवित्रं सर्वकामदम् ।
धसयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम् ॥१४॥

अशोकार्जुनपुंनागैर्बकुलैः सरलद्रुमैः ।
पनसैर्नारिकेलैश्च शालैस्तालैः कपित्थकैः ॥१५॥

चम्पकैः कर्णिकारैश्च चूतबिल्वैः सपाटलैः ।
कदम्बैः कोविदारैस्च लकुचैर्नागकेसरैः ॥१६॥

प्राचीनामलकैर्लो ध्रैर्नारङ्गैर्धवखादिरैः ।
सर्जभूर्जाश्वकर्णैश्च तमालैर्देवदारुभिः ॥१७॥

मन्दारैः पारिजातैश्च न्यग्रोधागुरुचन्दनैः ।
खर्जूराम्रातकैः सिद्धैर्मुचुकुन्दैः सकिंशुकैः ॥१८॥

अश्वत्थैः सप्तपर्णैस्च मधुधारशुभाञ्जनैः ।
शिंशपामलकैर्नोपैर्निम्बतिन्दुविभीतकैः ॥१९॥

सर्वर्तुफलगन्धाढ्‌यैः सर्वर्तुकुसुमोज्ज्वलैः ।
मनोह्लादकरैः शुभ्रैर्नानाविहगनादितैः ॥२०॥

श्रोत्ररम्यैः सुमधुरैर्बलनिदर्मनोरितैः ।
मनसः प्रीतिजनकैः शब्दैः खगमुखेरितैः ॥२१॥

चकोरैः शतपत्रैश्च भृङ्गराजैस्तथा शुकैः ।
कोकिलैः कलिविङ्कैश्च हारीतैर्जीवजीवकैः ॥२२॥

प्रियपुत्रैश्चातकैश्च तथाऽन्यैर्मधुरस्वरैः ।
श्रोत्ररम्यैः प्रियकरैः कूजद्भिश्चार्वधिष्ठितैः ॥२३॥

केतकीवनखण्डैश्च अतिमुक्तैः सुकुब्जकैः ।
मालतीकुन्दबाणैश्च करवीरैः सितेतरैः ॥२४॥

जम्वीरकरुणाङ्कोलैर्दाडिमैर्बीजपूरकैः ।
मातुलुङ्गैः पूगफलैर्हिन्तालैः कदलीवनैः ॥२५॥

अन्यैश्च विविधैर्वृक्षैः पुष्पैश्चान्यैर्मनोहरैः ।
लतावितानगुल्मैश्च विविधैश्च जलाशयैः ॥२६॥

दीर्घिकाभिस्तडागैश्च पुष्करिणीभिश्च वापिभिः ।
नानाजलाशयैः पुण्यैः पद्मिनीखण्डमण्डितैः ॥२७॥

सरांसि च मनोज्ञानि प्रसन्नसलिलानि च ।
कुमुदैः पुण्डरीकैश्च तथा नीसोत्पलैः शुभैः ॥२८॥

कह्लारैः कमलैस्चापि आचितानि समन्ततः ।
कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥२९॥

कारण्डवैः प्लवैर्हंसैः कूर्मैर्मत्स्यैस्च मद्‌गुबिः ।
दात्यूहसारसाकीर्णैः कोयष्टिबकशोभितैः ॥३०॥

एतैश्चान्यैश्च कूजद्भिः समन्ताज्जलचारिभिः ।
खगैर्जलचरैश्चान्यैः कुसुमैस्च जलोद्भवैः ॥३१॥

एवं नानाविधैर्वृक्षैः पुष्पैः स्थलजलोद्भवैः ।
ब्रह्मचारिगृहस्थैश्च वानप्रस्थैस्च भिक्षुभिः ॥३२॥

स्वधर्मनिरतैर्वर्णैस्थताऽन्यैः समलंकृतम् ।
हृष्टपुष्टजनाकीर्णं नरनारीसमाकुलम् ॥३३॥

अशेषविद्यानिलयं सर्वधर्मगुणाकरम् ।
एवं सर्वगुणोपेतं क्षेत्रं परमदुर्लभम् ॥३४॥

आस्ते तत्र मुनिश्रेष्ठा विख्यातः पुरुषोत्तमः ।
यावदुत्कलमर्यादा दिक्‌क्रमेम प्रकीर्त्तिता ॥३५॥

तावत्कृष्णप्रसादेन देशः पुण्यतमो हि सः ।
यत्र तिष्ठति विश्वात्मा देशे स पुरुषोत्त्मः ॥३६॥

जगद्‌व्यापी जगन्नाथस्तत्र सर्वं प्रतिष्ठितम् ।
अहं रुद्रश्च शक्रश्च देवस्चाग्निपुरोगमाः ॥३७॥

निवसामो मुनिश्रेष्ठास्तस्मिन्देशे सदा वयम् ।
गन्धर्वाप्सरसः सर्वाः पितरो देवमानुषाः ॥३८॥

यक्षा विद्याधराः सिद्धा मुनयः संशितव्रताः ।
ऋषयो वालखिल्याश्च कस्यपाद्याः प्रजेश्वराः ॥३९॥

सुपर्णाः किंनरा नागास्तथाऽन्ये स्वर्गवासिनः ।
साङ्गश्च चतुरो वेदाः शास्त्राणि विविधानि च ॥४०॥

इतिहासपुराणानि यज्ञाश्च वरदक्षिणाः ।
नद्यश्च विविधाः पुण्यास्तीर्थान्यायतनानि च ॥४१॥

सागराश्च तथा शैलास्तस्मिन्देशे व्यवस्तिताः ।
एवं पुण्यतमे देशे देवर्षिपितृसोविते ॥४२॥

सर्वोपभोगसहिते वासः कस्य न रोचते ।
श्रेष्ठत्वं कस्य देशश्य किं चान्यदधिकं ततः ॥४३॥

आस्ते यत्र स्वयं देवो मुक्तिदः पुरुषोत्तमः ।
धन्यास्ते विबुधप्रख्या य वसन्त्युत्कले नराः ॥४४॥

तीर्थेराजजले स्नात्वा पश्यन्ति पुरुषोत्तमे ।
स्वर्गे वसन्ति ते मर्त्या न ते यान्ति यमालये ॥४५॥

ये वसन्त्युत्कले क्षेत्रे पुण्ये श्रीपुरुषोत्तमे ।
सफलं जीवितं तेषामुत्कलानां सुमेधसाम् ॥४६॥

ये पश्यन्ति सुरश्रेष्ठं प्रसन्नायतलोचनम् ।
चारुभ्रूकेशमुकुटं चारुकर्णावतंसकम् ॥४७॥

चारुस्मितं चारुदन्तं चारुकुण्डलमण्डितम् ।
सुनासं सुकोपलं च सुललाटं सुलक्षणम् ॥४८॥

त्रैलोक्यानन्दजननं कृष्णस्य मुखपङ्कजम् ॥४९॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभु-ऋषिसंवाद उत्कलक्षेत्रवर्णनं ना द्विचत्वारिंशोऽध्यायः॥ ४२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:35.6770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ultraphotic rays

  • पु./अ.व. दृश्यातीत किरण 
RANDOM WORD

Did you know?

why treeepad veedhee ? narrate
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.