TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २०३

ब्रह्मपुराणम् - अध्यायः २०३

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २०३
अदितिकृता भगवत्स्तुतिः
व्यास उवाच
गरुडो वारुणं छत्रं तथैव मणिपर्वतम् ।
सभार्यं च हृषीकेशं लीलयैव वहन्ययौ ॥१॥

ततः शङ्खमुपाध्माय स्वर्गद्वारं गतो हरिः ।
उपतस्थुस्ततो देवाः सार्घपात्रा जनार्दनम् ॥२॥

स देवैरर्चितः कृष्णो देवमतुर्निवेशनम् ।
सिताभ्रशिखराकारं प्रविश्य ददृशेऽदितिम् ॥३॥

स तां प्रणम्य शक्रेण सहितः कुण्डलोत्तमे ।
ददौ नरकनाशं च शशंसास्यै जनार्दनः ॥४॥

ततः प्रीता जगन्माता धातारं जगतां हरिम् ।
तुष्टावादितिरव्यग्रं कृत्वा तत्प्रवणं मनः ॥५॥

अदितिरुवाच
नमस्ते पुण्डरीकाक्ष भक्तानामभयंकर ।
सनातनात्मन्भूतात्मन्सर्वात्मन्भूतभावन ॥६॥

प्रणेतर्मनसो बुद्धेरिन्द्रियाणां गुणात्मक ।
सितदीर्घादिनिःशेषकल्पनापरिवर्जित ॥७॥

जन्मादिभिरसंस्पृष्ट स्वप्नादिपरिवर्जित ।
संध्या रात्रिरहर्भूमिर्गगनं वायुरम्बु च ॥८॥

हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाऽच्युत ।
सृष्टिस्थितिविनाशानां कर्ता कर्तृपतिर्भवान् ॥९॥

ब्रह्मविष्णुशिवाख्याभिरात्ममूर्तिभिरीश्वरः ।
मायाभिरेतद्‌व्याप्तं ते जगत्स्थावरजङ्गमम् ॥१०॥

अनात्मन्यात्मविज्ञानं सा ते माया जनार्दन ।
अहं ममेति भावोऽत्र यया समुपजायते ॥११॥

संसारमध्ये मायायास्तवैतन्नाथ चेष्टितम् ।
यैः स्वधर्मपरैर्नाथ नरैराराधितो भवान् ॥१२॥

ते तरन्त्यखिलामेतां मायामात्मविमुक्तये ।
ब्रह्माद्याः सकला देवा मुष्याः पशवस्तथा ॥१३॥

विष्णुमायामहावर्ते मोहान्धतमसाऽऽवृताः ।
आराध्य त्वामभीप्सन्ते कामानात्मभवक्षये ॥१४॥

पदे ते पुरुषा बद्धा मायया भगवंस्तव ।
मया त्वं पुत्रकामिन्या वैरिपक्षक्षयाय च ॥१५॥

आराधितो न मोक्षाय मायाविलसितं हि तत् ।
कौपीनाच्छादनप्राया वाञ्छा कल्पद्रुमादपि ॥१६॥

जायते यदपुण्यानां सोऽपराधः स्वदोषजः ।
तत्प्रसीदाखिलजगन्मायामोहकराण्यय ॥१७॥

अज्ञातं ज्ञानसद्भाव भूतभूतेश नाशय ।
नमस्ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः ॥१८॥

गदाहस्ताय ते विष्णो शङ्खहस्ताय ते नमः ।
एतत्पश्यामि ते रूपं स्थूलचिह्नोपशोभितम् ॥
न जानामि परं यत्ते प्रसीद परमेश्वर ॥१९॥

व्यास उवाच
अदित्यैवं स्तुतो विष्णुः प्रहस्याऽऽह सुरारणिम् ॥२०॥

श्रीकृष्ण उवाच
माता देवि त्वमस्माकं प्रसीद वरदां भव ॥२१॥

अदितिरुवाच
एवमस्तु यथेच्छा ते त्वमशेषसुरासुरैः ।
अजेयः पुरुषव्याघ्र मर्त्यलोके भविष्यसि ॥२२॥

व्यास उवाच
ततोऽनन्तरमेवास्य शक्राणीसहितां दितिम् ।
सत्यभामा प्रणम्याऽऽह प्रसीदेति पुनः पुनः ॥२३॥

अदितिरुवाच
मत्प्रसादान्न ते सुभ्रु जरा वैरूप्यमेव च ।
भविष्यत्यनवद्याङ्गि सर्वकामा भविष्यसि ॥२४॥

व्यास उवाच
अदित्या तु कृतानुज्ञो देवराजो जनार्दनम् ।
यथावत्पूजयामास बहुमानपुरःसरम् ॥२५॥

ततो ददर्श कृष्णोऽपि सत्यभामासहायवान् ।
देवोद्यानानि सर्वाणि नन्दनादीनि सत्तमाः ॥२६॥

ददर्श च सुगन्धाढ्यं मञ्जरीपुञ्जधारिणम् ।
शैत्याह्लादकरं दिव्यं ताम्रपल्लवशोभितम् ॥२७॥

मथ्यमानेऽमृते जातं जातरूपसमप्रभम् ।
पारिजातं जगन्नाथः केशवः केशिसूदनः ॥
तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तमाः ॥२८॥

सत्यभामोवाच
कस्मान्न द्वारकामेष नीयते कृष्ण पादपः ।
यदि ते तद्वचः सत्यं सत्याऽत्यर्थं प्रियेति मे ॥२९॥

मद्‌गृहे निष्कुटार्थाय तदयं नीयतां तरुः ।
न मे जाम्बवती तादृगभीष्टा न च रुक्मिणी ॥३०॥

सत्ये यथा त्वमित्युक्तं त्वया कृष्णासकृत्प्रियम् ।
सत्यं तद्यदि गोविन्द नोपचारकृतं वचः ॥३१॥

तदस्तु पारिजातोऽयं मम गेहविभूषणम् ।
बिभ्राती पारिजातस्य केशपाशेन मञ्जरीम् ॥
सपत्नीनामहं मध्ये शोभयमिति कामये ॥३२॥

व्यास उवाच
इत्युक्तः स प्रहस्यैनं पारिजातं गरुत्मति ।
आरोपयामास हरिस्तमूचुर्वनरक्षिणः ॥३३॥

वनपाला ऊचुः
भोः शची देवराजस्य महिषी तत्परिग्रहम् ।
पारिजातं न गोविन्द हर्तुमर्हसि पादपम् ॥३४॥

शचीविभूषणार्थाय देवैरमृतमन्थने ।
उत्पादितोऽयं न क्षेमी गृहीत्वैनं गमिष्यसि ॥३५॥

मौढ्यात्प्रार्थयसे क्षेमी गृहीत्वैनं च को व्रजेत् ।
अवश्यमस्य देवेन्द्रो विकृतिं कृष्ण यास्यति ॥३६॥

वज्रोद्यतकरं शक्रमनुयास्यन्ति चामराः ।
तदलं सकलैर्देवैर्विग्रहेण तवाच्युत ॥
विपाककटु यत्कर्म न तच्छंसन्ति पण्डिताः ॥३७॥

व्यास उवाच
इत्युक्ते तैरुवाचैतान्सत्यभामाऽतिकोपिनी ॥३८॥

सत्यभामोवाच
का शची पारिजातस्य को वा शक्रः सुराधिपः ।
सामान्यः सर्वलोकानां यद्येषोऽमृतमन्थेने ॥३९॥

समुत्पन्न पुरा कस्मादेको गृह्णाति वासवः ।
यथा सुरा यथा चेन्दुर्यथा श्रीर्वनरक्षिणः ॥४०॥

सामान्यः सर्वलोकस्य पारिजातस्तथा द्रुमः ।
भर्तृबाहुमहागर्वाद्रुणद्‌ध्येनमथो शची ॥४१॥

तत्कथ्यतां द्रुतं गत्वा पौलोम्या वचनं मम ।
सत्यभामा वदत्येवं भर्तृगर्वोद्‌धताक्षरम् ॥४२॥

यदि त्वं दयिता भर्तुर्यदि तस्य प्रिया ह्यसि ।
मद्भर्तुर्हरतो वृक्षं तत्कारय निवारणम् ॥४३॥

जानामि ते पतिं शक्रं जानामि त्रिदशेश्वरम् ।
पारिजातं तथाऽप्येनं मानुषी हारयामिते ॥४४॥

व्यास उवाच
इत्युक्ता रक्षिणो गत्वा प्रोच्चैः प्रोचुर्यथोदितम् ।
शची चोत्साहयामास त्रिदशाधिपतिं पतिम् ॥४५॥

ततः समस्तदेवानां सैन्यैः परिवृतो हरिम् ।
प्रवृक्तः पारिजातार्थमिन्द्रो योधयितुं द्विजाः ॥४६॥

ततः परिघनिस्त्रिंशगदाशूलधरायुधाः ।
बभूवुस्त्रिदशाः सज्जाः शक्रे वज्रकरे स्थिते ॥४७॥

ततो निरीक्ष्य गोविन्दो नागराजोपरि स्थितम् ।
शक्रं देवपरीवारं युद्धाय समुपस्थितम् ॥४८॥

चकार शङ्खनिर्घोषं दिशः शब्देन पूरयन् ।
मुमोच च शरव्रातं सहस्रायुतसंमितम् ॥४९॥

ततो दिशो नभश्चैव दृष्ट्वा शरशताचितम् ।
मुमुचिस्त्रिदशाः सर्वे शस्त्राण्यस्वाण्यनेकशः ॥५०॥

एकैकमस्त्रं शस्त्रं च देवैर्मुक्तं सहस्रधा ।
चिच्छेद लीलयैवेशो जगतां मधुसूदनः ॥५१॥

पाशं सलिललराजस्य समाकृष्योरगाशनः ।
चचाल खण्डशः कृत्वा बालपन्नगदेहवत् ॥५२॥

यमेन प्रहितं दण्डं गदाप्रक्षेपखण्डितम् ।
पृथिव्यां पातयामास भगवान्देवकीसुतः ॥५३॥

शिबिकां च धनेशस्य चक्रेण तिलशो विभुः ।
चकार शौरिरर्केन्दू दृष्टिपातहतौजसौ ॥५४॥

नोतोऽग्निः शतशो बाणैर्द्राविता वसवो दिशः ।
चक्रविच्छिन्नशूलाग्रा रुद्रा भुवि निपातिताः ॥५५॥

साध्या विश्वे च मरुतो गन्धर्वाश्चैव सायकैः ।
शार्ङ्गिणा प्रेरिताः सर्वे व्योम्नि शाल्मलितूलवत् ॥५६॥

गरुडश्चापि वक्त्रेण पक्षाभ्यां च नखाङ्कुरैः ।
भक्षयन्नहनद्देवान्दानवांश्च सदा खगः ॥५७॥

ततः शरसहस्रेण देवेन्द्रमधुसूदनौ ।
परस्परं ववर्षाते धाराभिरिव तोयदौ ॥५८॥

एरावतेन गरुडो युयुधे तत्र संकुले ।
देवैः समेतैर्युयुधे शक्रेण च जनार्दनः ॥५९॥

छिन्नेषु शीर्यमाणेषु शस्त्रेष्वस्त्रेषु सत्वरम् ।
जग्राह वासवो वज्रं कृष्णश्चक्रं सुदर्शनम् ॥६०॥

ततो हाहाकृतं सर्वं त्रैलोक्यं सचराचरम् ।
वज्रचक्रधरौ दृष्ट्वा देवराजजनार्दनौ ॥६१॥

क्षिप्तं वज्रमथेन्द्रेण जग्राह भगवान्हरिः ।
न मुमोच तदा चक्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥६२॥

प्रनष्टवज्रं देवेन्द्रं गरुडक्षतवाहनम् ।
सत्यभामाऽब्रवीद्वाक्यं पलायनपरायणम् ॥६३॥

सत्यभामोवाच
त्रैलोक्येश्वर नो युक्तं शचीभर्तुः पलायनम् ।
पारिजातस्रगाभोगात्त्वामुपस्थास्यते शची ॥६४॥

कीदृशं देव राज्यं ते पारिजातस्रगुज्जवलाम् ।
अपश्यतो यथापूर्वं प्रणयाभ्यागतां शचीम् ॥६५॥

अलं शक्र प्रयासेन न व्रीडां यातुमर्हसि ।
नीयतां पारिजातोऽयं देवाः सन्तु गतव्यथा ॥६६॥

पतिगर्वावलेपेन बहुमानपुरःसरम् ।
न ददर्श गृहायातामुपचारेण मां शची ॥६७॥

स्त्रीत्वादगुरुचित्ताऽहं स्वभर्तुः श्लाघनापरा ।
ततः कृतवती शक्र भवता सह विग्रहम् ॥६८॥

तदलं पारिजातेन परस्वेन हृतेन वा ।
रूपेण यशसा चैव भवेत्स्त्री का न गर्विता ॥६९॥

व्यास उवाच
इत्युक्ते वै निववृते देवराजस्तया द्विजाः ।
प्राह चैनामलं चण्डि सखि खेदातिविस्तरैः ॥७०॥

न चाऽपि सर्गसंहारिस्थितिकर्ताऽखिलस्य यः ।
जितस्य तेन मे व्रीडा जायेत विश्वरूपिणा ॥७१॥

यस्मिञ्जगत्सकलमेतदनादिमध्ये, यस्माद्यतश्च न भविष्यति सर्वभूतात् ।
तेनोद्भवप्रलयपालनकारणेन, व्रीडा कथं भवति देवि निराकृतस्य ॥७२॥

सकलभुवनमूर्तेर्मूर्तिरल्पा सुसूक्ष्मा, विदितसकलवेदैर्ज्ञायते यस्य नान्यैः ।
तमजमकृतीमीशं शाश्वतं स्वेच्छयैनं, जगदुपकृतिमाद्यं को विजेतुं समर्थः ॥७३॥

इति श्रीमहापुराणे आदिब्राह्मे पारिजातहरणे शक्रस्तवनिरूपणं नाम त्र्यधिकद्विशततमोऽध्यायः ॥२०३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:44.9270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अन्नान्नगत

  • स्त्री. अन्न ! अन्न ! करीत दारोदार भटकत फिरण्याची अवस्था ; अत्यंत विपन्नावस्था ; कंगालपणा ; घोर दारिद्र्य . [ सं . अन्न + अन्न + गति . ] 
RANDOM WORD

Did you know?

हिंदू धर्मियांत मृत माणसाचा दहावा, तेरावा आणि चौदावा कां करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.