संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १६

ब्रह्मपुराणम् - अध्यायः १६

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


तत्रादौ सत्राजिदुपाख्यानवर्णनम्
लोमहर्षण उवाच
भजमानस्य पुत्रोऽथ रथमुख्यो विदूरथः ।
राजाधिदेवः शूरस्तु विदूरथसुतोऽभवत् ॥१॥

राजाधिदेवस्य सुता जज्ञिरे वीर्य्यवत्तराः ।
दत्तातिदत्तौ बलिनौ शोणाश्वः श्वेतवाहनः ॥२॥

शमी च दण्डशर्म्मा च दन्तशत्रुश्च शत्रुजित् ।
श्रवणा च श्रविष्ठा च स्वसारौ सम्बभूवतुः ॥३॥

शमिपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः ।
स्वयम्भोजः स्वयम्भोजाद्भदिकः सम्बभूव ह ॥४॥

तस्य पुत्रा बभूवुर्हि सर्व्वे भीमपराक्रमाः ।
कृतवर्म्माग्रजस्तेषां शतधन्वा तु मध्यमः ॥५॥

देवान्तश्च नरान्तश्च भिषग्वैतरणश्च यः ।
सुदान्तश्चादिदान्तश्च निकाश्यः कामदम्भकः ॥६॥

देवान्तस्याभवत् पुत्रो विद्वान् कम्बलबर्हिषः ।
असमौजाः सुतस्तस्य नासमौजाश्च तावुभौ ॥७॥

अजातपुत्राय चसुतान् प्रददावसमौजसे ।
सुदंष्ट्रश्च शुचारुश्च कृष्ण इत्यन्धकाः स्मृता ॥८॥

गान्धारी चैव माद्री च क्रोष्टुभार्य्ये बभूवतुः ।
गान्धारी जनयामास अनमित्रं महाबलम् ॥९॥

माद्री युधाजितं पुत्रं ततो वै देवमीढुषम् ।
अनमित्रममित्राणां जेतारमपराजितम् ॥१०॥

अनमित्रसुतो निघ्नो निघ्नतो द्वौ बभूवतुः ।
प्रसेनश्चाथ सत्राजिच्छत्रुसेनाजितावुभौ ॥११॥

प्रसेनो द्वारवत्यां तु निवसन् यो महामणिम् ।
दिव्यं स्यमन्तकं नाम स सूर्यादुपलब्धवान् ॥१२॥

तस्य यत्राजितः सूर्य्यः यथा प्राणसमोऽभवत् ।
स कदाचिन्निशापाये रथेन रथिनां वरः ॥१३॥

तोयकूलमपः स्प्रष्टुमुपस्थानुं ययौ रविम् ।
तस्योपतिष्ठतः सूर्य्यं विवस्वानग्रतः स्थितः ॥१४॥

विस्पष्टमूर्त्तिर्भगवांस्तेजोमण्डलवान् विभुः ।
अथ राजा विवस्वन्तमुवाच स्थितमग्रतः ॥१५॥

यथैव व्योम्नि पश्यामि सदा त्वां ज्योतिषां पते ।
तेजोमण्डलिनं देवं तथैव पुरतः स्थितम् ॥१६॥

को विशेषोऽस्ति मे त्वत्तः सख्येनोपगतस्य वै ।
एतच्छ्रुत्वा तु भगवान्मणिरत्नं स्यमन्तकम् ॥१७॥

स्वकण्ठादवमुच्याथ एकान्ते न्यस्तवान् विभुः ।
ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा ॥१८॥

प्रीतिमानथ तं दृष्ट्वा मुहूर्त्तं कृतवान् कथाम् ।
तमभिप्रस्थितं भूयो विवस्वन्तं स सत्रजित् ॥१९॥

लोकान् भासयसे सर्व्वान् भास्करस्तदा ।
तदेतन्मणिरत्नं मे भगवन् दातुमर्हसि ॥२०॥

ततः स्यमन्तकमणिं दत्तवात् भास्करस्तदा ।
स तमाबध्य नगरीं प्रवीवेश महीपतिः ॥२१॥

तं जनाः पर्य्यधावन्तः सूर्य्योऽयं गच्छतीति ह ।
स्वां पुरीं स विसिष्माय राजा त्वन्तःपुरं तथा ॥२२॥

तं प्रसेनजितं दिव्यं मणिरत्नं स्यमन्तक्रम् ।
ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिदुत्तमम् ॥२३॥

स मणिः स्यन्दते रुक्मं वृष्ण्यन्धकनिवेशने ।
कालवर्षीच पर्जन्यो न च व्याधिभयं ह्मभूत् ॥२४॥

लिप्सां चक्रे प्रसेनस्य मणिरत्ने स्यमन्तके ।
गोविन्दो न च तं लेभे भक्तोऽपि न जहार सः ॥२५॥

कदचिन्मृगयां यातःच प्रसेनस्तेन भूषितः ।
स्यमन्तककृते सिंहाद्वधं प्राप वनेचरात्  ॥२६॥

अथ सिंहं प्रधावन्तमृक्षराजो महाबलः ।
निहत्य मणिरत्नं तदादाय प्राविशद्गुहाम् ॥२७॥

ततो वृष्ण्यन्धकाऋ कृष्णं प्रसेनवधकारणात् ।
प्रार्थनां तां मणेर्बद्ध्वा सर्व्व एव शशङ्किरे ॥२८॥

स शङ्क्यमानो धर्म्मातमा अकारी तस्य कर्म्मणः ।
आहरिष्ये मणिमिति प्रतिज्ञाय वनं ययौ ॥२९॥

यत्र प्रसेनो मृगयां व्याचरत्तत्र चाप्यथ ।
प्रसेनस्य पदं गृह्य पुरुषैराप्तकारिभिः ॥३०॥

ऋक्षवन्तं गिरिवरं विन्ध्यं च गिरिमुत्तम् ।
अन्वेषयन् परिश्रान्तः स ददर्श महामनाः ॥३१॥

साश्वं हतं प्रसेनं तु नाविन्दत च तन्मणिम् ।
अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः ॥३२॥

ऋक्षेण निहतो दृष्टः पदैर्ऋक्षस्तु सूचितः ।
पदैस्तैरन्वियायाथ गुहामृक्षस्य माधवः ॥३३॥

स हि ऋक्षविले वाणीं शुश्राव प्रमदेरिताम् ।
धात्र्या कुमारमादाय सुतं जाम्बवतो द्विजाः ॥३४॥

क्रीडयन्त्या च मणिना मा रोदीरित्यथेरिताम् ॥३५॥

धात्र्युवाच
सिंहः प्रसेनमधीत् सिंहो जाम्बवता हतः ।
सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ॥३६॥

व्यक्तितस्तस्य शब्दस्य तूर्णमेव बिलं ययौ ।
प्रविश्य तत्र चभगवांस्तदुक्षबिलमञ्जसा ॥३७॥

स्यापयित्वा बिलद्वारे बिले जाम्बवता सह ।
शार्ङ्गधन्वा बिलस्थं तु जाम्बवन्तं ददर्श सः ॥३८॥

युयुधे वासूदेवस्तु बिले जाम्बवता सह ।
बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिम् ॥३९॥

प्रविष्टेऽथ बिले कृष्णे बलदेवपुरः सराः ।
पुरीं द्वारवतीमेत्य हतं कृष्णं न्यवेदयन् ॥४०॥

वासुदेवोऽपि निर्जित्य जाम्बवन्तं महाबलम् ।
लेभे जाम्बवतीं कन्यामृक्षराजस्य सम्मताम् ॥४१॥

मणिं स्यमन्तकं चैव जग्राहात्मविशुद्धये ।
अनुनीयर्क्षराजं तु निर्ययौ च ततो बिलात् ॥४२॥

उपायाद्द्वारकां कृष्णः सविनीतैः पुः सरैः ।
एवं स मणिराहृत्य विशोध्यात्मानमच्युतः ॥४३॥

ददौ सत्राजिते तं वै सर्वसात्त्वतसंसदि ।
एवं मिथ्याभिशस्तेन कृष्णेनामित्रघातिना ॥४४॥

आत्मा विशोधितः पापाद्विनिर्जित्य स्यमन्तकम् ।
सत्राजितो दशत्वासन् भार्य्यास्तासां शतं सुताः ॥४५॥

ख्यातिमन्तस्त्रस्तेषां भङ्गकारस्तु पूर्व्वजः ।
वीरो वातपतिश्चैव वसुमेधस्तथेव च  ॥४६॥

कुमार्य्यस्चापि तिस्रो वै दिक्षु ख्याता द्विजोत्तमाः ।
सत्यभामोत्तमा तासां व्रतिनी च च दृढव्रता ॥४७॥

तथा प्रस्वापिनी चैव भार्य्याः कृष्णाय ता ददौ ।
सभाक्षो भङ्गकारिस्तु नावेयश्च नरोत्तमौ ॥४८॥

जज्ञाते गुणसम्पन्नौ विश्रुतौ रूपसम्पदा ।
माद्रयाः पुत्रोषऽथ जज्ञेऽथ वृष्णिपुत्रो यधाजितः ॥४९॥

जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकस्तथा ।
श्वफल्कः काशिराजस्य सुतां भार्य्यामविन्दत ॥५०॥

गान्दिनीं नाम तस्याश्च गाः सदा प्रददौ पिता ।
तस्यां जज्ञे महाबाहुः श्रुतवानतिथिप्रियः ॥५१॥

अक्रूरोऽथ महाभागो जज्ञे विपुलदक्षिणः ।
उपमद्गुस्तता मद्गुर्म्मुदरश्चारिमर्दनः ॥५२॥

अरिक्षेपस्तथोपेक्षःच शत्रुहा चारिमेजयः ।
धर्म्मभृच्चापि धर्म्मा च गृध्रभोजान्धकस्तथा ॥५३॥

आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना ।
विश्रुताश्वस्य महिषी कन्या चास्य वसुन्धरा ॥५४॥

रुपयौवनसम्पन्ना सर्व्वसत्त्वमनोहरा ।
अक्रुरेणोग्रसेनायां सुतौ वै कुलनन्दनौ ॥५५॥

वसुदेवश्चोपदेवश्च जज्ञाते देववर्च्चसौ ।
चित्रकस्याभवन् पुत्राः पृथुर्व्विपृथुरेव च ॥५६॥

अश्वग्रीवोऽस्वबाहुश्च सुपार्श्वकगवेशषणौ ।
अरिष्टनेमिस्च सुता धर्म्मो धर्म्मभृदेव च ॥५७॥

सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ ।
इमां मित्याभिशस्तिं यः कृष्णस्य समुदाहृताम् ॥५८॥

वेद मिथ्याभिशापास्तं न स्पृशन्ति कदाचन ॥५९॥

इति श्रीब्राह्मे महापुराणे स्यमन्तकप्रत्यानयननिरूपणं नाम षोडशोऽध्यायः॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP