TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १६४

ब्रह्मपुराणम् - अध्यायः १६४

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १६४
चिच्चिकतीर्थवर्णनम्
ब्रह्मोवाच
चिच्चिका(क)तीर्थमित्युक्तं सर्वरोगविनाशनम् ।
सर्वचिन्ताप्रहरणं सर्वशान्तिकरं नृणाम् ॥१॥

तस्य स्वरूपं वक्ष्यामि शुभ्रे तस्मिन्नगोत्तमे ।
गङ्गाया उत्तरे पारे यत्र देवो गदाधरः ॥२॥

चिच्चिकः पक्षिराट् तत्र भेरुण्डो योऽभिधीयते ।
सदा वसति तत्रैव मांसाशी श्वेतपर्वते ॥३॥

नानापुष्पफलाकीर्णैः सर्वर्तुकुसुमैर्नगैः ।
सेविते द्विजमुख्यैश्च गौतम्या चोपशोभिते ॥४॥

सिद्धिचारणगन्धर्वकिंनरामरसंकुले ।
तत्समीपे नगः कश्चिद्द्विपदां च चतुष्पदाम् ॥५॥

रोगार्तिक्षुत्तृषाचिन्तामरणानां न भाजनम् ।
एवं गुणान्विते शैले नानामुनिगणावृते ॥६॥

पूर्वदेशाधिपः कश्चित्पवमान इति श्रुतः ।
क्षत्रधर्मरतः श्रीमान्देवब्राह्मणपालकः ॥७॥

बलेन महता युक्तः सपुरोधा वनं ययौ ।
रेमे स्त्रीभिर्मनोज्ञाभिर्नृत्यवादित्रजैः सुखैः ॥८॥

स च एवं धनुष्पाणिर्मृगयाशीलिभिर्वृतः ।
एवं भ्रमन्कदाचित्स श्रान्तो द्रुममुपागतः ॥९॥

गौतमीतीरसंभूतं नानापक्षिगणैर्वृतम् ।
आश्रमाणां गृहपतिं धर्मज्ञमिव सेवितम् ॥१०॥

तमाश्रित्य नगश्रेष्ठं पवमानो नृपोत्तमः ।
स विश्रान्तो जनवृत ईक्षां चक्रे नगोत्तमम् ॥११॥

तत्रापश्यद्‌द्विजं स्थूलं द्विमुखं शोभनाकृतिम् ।
चिन्ताविष्टं तथा श्रान्तं तमपृच्छन्नृपोत्तमः ॥१२॥

राजोवाच
को भवान्द्विमुखः पक्षी चिन्तावानिव लक्ष्यसे ।
नैवात्र कश्चिद्‌दुःखार्तः कस्मात्त्वं दुःखमागतः ॥१३॥

ब्रह्मोवाच
ततः प्रोवाच नृपतिं पवमानं शनैः शनैः ।
समाश्वस्तमनाः पक्षी चिच्चिको निःश्वसन्मुहुः ॥१४॥

चिच्चिक उवाच
मत्तो भयं न चान्येषां मम वाऽन्योपपादितम् ।
नानापुष्पफलाकीर्णं मुनिभिः परिसेवितम् ॥१५॥

पश्येयं शून्यमेवाद्रिं ततः शोचामि मामहम् ।
न लभामि सुखं किंचिन्न तृप्यामि कदाचन ॥
निद्रां प्राप्नोमि न क्वापि न विश्रान्तिं न निर्वृतिम् ॥१६॥

ब्रह्मोवाच
द्विमुखस्य द्विजस्योक्तं श्रुत्वा राजाऽतिविस्मितः ॥१७॥

राजोवाच
को भवान्किं कृतं पापं कस्माच्छून्यश्च पर्वतः ।
एकेनाऽऽस्येन तृप्यन्ति प्राणिनोऽत्र नगोत्तमे ॥१८॥

किमुताऽऽस्यद्वयेन त्वं न तृप्तिमुपयास्यसि ।
किंवा ते दुष्कृतं प्राप्तमिह जन्मन्यथो पुरा ॥१९॥

तत्सर्वं शंस मे सत्यं त्रास्ये त्वां महतो भयात् ॥२०॥

ब्रह्मोवाच
राजानं तं द्विजः प्राह निःश्वसन्नथ चिच्चिकः ॥२१॥

वक्ष्येऽहं त्वां पूर्ववृत्तं पवमान शृणुष्व तत् ।
अहं द्विजातिप्रवरो वेदवेदाङ्गपारगः ॥२२॥

कुलीनो विदितप्राज्ञः कार्यहन्ता कलिप्रियः ।
वदे पुरस्तथा पृष्ठे अन्यदन्यच्च जन्तुषु ॥२३॥

परवृद्ध्या सदा दुःखी मायया विश्ववञ्चकः ।
कृतघ्नः सत्यरहितः परनिन्दाविचक्षणः ॥२४॥

मित्रस्वामिगुरुद्रोही दम्भाचारोऽतिनिर्घृणः ।
मनसा कर्मणा वाचा तापयामि जनान्बहून् ॥२५॥

अयमेव विनोदो मे सदा यत्परहिंसनम् ।
युग्मभेदं गणोच्छेदं मर्यादाभेदनं सदा ॥२६॥

करोमि निर्विचारोऽहं विद्वत्सेवापराङ्मुखः ।
न मया सदृशः कश्चित्पातकी भुवनत्रये ॥२७॥

तेनाहं द्विमुखो जातस्तापनाद्‌दुःखभाग्यहम् ।
तस्माद्‌दुःखेन संतप्तः शून्योऽयं पर्वतो मम ॥२८॥

अन्यच्च शृणु भूपाल वाक्यं धर्मार्थसंहितम् ।
ब्रह्महत्यासमं पापं तद्विना तदवाप्यते  ॥२९॥

क्षत्रियः संगरं गत्वा अथवाऽन्यत्र संगरात् ।
पलायन्तं न्यस्तशस्त्रं विश्वस्तं च पराङ्मुखम् ॥३०॥

अविज्ञानं चोपविष्टं बिभेमति च वादिनम् ।
तं यदि क्षत्रियो हन्यात्स तु स्याद्ब्रह्मघातकः ॥३१॥

अधीतं विस्मरति यस्त्वं करोति तथोत्तमम् ।
अनादरं च गुरुषु तमाहुर्ब्रह्मघातकम् ॥३२॥

प्रत्यक्षे च प्रियं वक्ति परोक्षे परुषाणि च ।
अन्यद्धृदि वचस्यन्यत्करोत्यन्यत्सदैव यः ॥३३॥

गुरूणां शपथं कर्ता द्वेष्टा ब्राह्मणनिन्दकः ।
मिथ्या विनीतः पापात्मा स तु स्याद्ब्रह्मघातकः ॥३४॥

देवं वेदमथाध्यात्मं धर्मब्राह्मणसंगतिम् ।
एतान्निन्दति यो द्वोषात्स तु स्याद्‌ब्रह्मघातकः ॥३५॥

एवं भूतोऽप्यहं राजन्दम्भार्थं लज्जया तथा ।
सद्वृत्त इव वर्तेऽहं तस्माद्राजन्दिजोऽभवम् ॥३६॥

एवं भूतोऽपि सत्कर्म किंचित्कर्ताऽस्मि कुत्रचित् ।
तेनाहं कर्मणा राजन्स्वतः स्मर्ता पुरा कृतम् ॥३७॥

ब्रह्मोवाच
तच्चिच्चिकवचः श्रुत्वा पवमानः सुविस्मितः ।
कर्मणा केन ते मुक्तिरित्याह नृपतिर्द्विजम् ॥३८॥

इति तस्य वचः श्रुत्वा नृपतिं प्राह पक्षिराट् ॥३९॥

चिच्चिक उवाच
अस्मिन्नेव नगश्रेष्ठे गौतम्या उत्तरे तटे ।
गदाधरं नाम तीर्थं तत्र मां नय सुव्रत ॥४०॥

तद्धि तीर्थं पुण्यतमं सर्वपापप्रणाशनम् ।
सर्वकामप्रदं चेति महद्‌भिर्मुनिभिः श्रुतम् ॥४१॥

न गौतम्यास्तथा विष्णोरपरं क्लेशनाशनम् ।
सर्वभावेन तत्तीर्थं पश्येयमिति मे मतिः ॥४२॥

मत्कृतेन प्रयत्नेन नैतच्छक्यं कदाचन ।
कथमाकाङ्‌क्षितप्राप्तिर्भवेद्‌दुष्कृतकर्मणाम् ॥४३॥

सप्रयत्नोऽप्यहं वीर न पश्ये तत्सुदुष्करम् ।
तस्मात्तव प्रसादाच्च पश्येयं हि गदाधरम् ॥४४॥

अविज्ञापितदुःखज्ञं करुणावरुणालयम् ।
यस्मिन्दृष्टे भवक्लेशा न दृश्यन्ते पुनर्नरैः ॥४५॥

दृष्ट्वैव तं दिवं यास्ये प्रसादात्तव सुव्रत ॥४६॥

ब्रह्मोवाच
एवमुक्तः स नृपतिश्चिच्चिकेन द्विजन्मना ।
दर्शयामास तं देवं तां च गङ्गां द्विजन्मने ॥४७॥

ततः स चिच्चिकः स्नात्वा(प्राह)गङ्गां त्रैलोक्यपावनीम् ॥४८॥

चिच्चिक उवाच
गङ्गे गौतमि यावत्त्वां त्रीजगत्पावनीं नरः ।
न पश्यत्युच्यते तावदिहामुत्रापि पातकी ॥४९॥

तस्मात्सर्वागसमपि मामुद्धर सरिद्वरे ।
संसारे देहिनामन्या न गतिः काऽपि कुत्रचित् ॥
त्वां विना विष्णुचरणसरोरुहसमुद्‌भवे ॥५०॥

इति श्रद्धाविशुद्धात्मा गङ्गैकशरणो द्विजः ।
स्नानं चक्रे स्मरन्नन्तर्गङ्गे त्रायस्व मामिति ॥५१॥

ब्रह्मोवाच
गदाधरं ततो नत्वा पश्यत्सु नगवासिषु ।
पवमानाभ्यनुज्ञातस्तदैव दिवमाक्रमत् ॥५२॥

पवमानः स्वनगरं प्रययौ सानुगस्ततः ।
ततः प्रभृति तत्तीर्थं पावमानं सचिच्चिकम् ॥५३॥

गदाधरं कोटितीर्थमिति वेदविदो विदुः ।
कोटिकोटिगुणं कर्म कृतं तत्र भवेन्नृणाम् ॥५४॥

इति महापुराणे आदिब्राह्मे तीर्थमाहात्म्ये पावमानचिच्चिकगदाधरकोटितीर्थवर्णनं नाम चतुःषष्ट्यधिकशततमोध्यायः ॥१६४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:42.5830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

auxiliary table

  • साहाय्यकारी तक्ता 
RANDOM WORD

Did you know?

श्रीयंत्र स्थापना व मुहूर्त याबद्दल माहिती द्यावी.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site