TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २३४

ब्रह्मपुराणम् - अध्यायः २३४

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २३४
आत्यन्तिकलयनिरूपणम्
व्यास उवाच
आध्यात्मिकादि भो विप्रा ज्ञात्वा तापत्रयं बुधः ।
उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥१॥

आध्यात्मिकोऽपि द्विविधा शारीरो मानसस्तथा ।
शारीरो बहुभिर्भेदैर्भिद्यते श्रूयतां च सः ॥२॥

शिरोरोगप्रतिश्यायज्वरशूलभगंदरैः ।
गुल्मार्शःश्वयथुश्वासच्छर्द्यादिभिरनेकधा ॥३॥

तथाऽक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञकैः ।
भिद्यते देहजस्तापो मानसं श्रोतुमर्हथ ॥४॥

कामक्रोधभद्वेषलोभमोहविषादजः ।
शोकासूयावमानेर्ष्यामात्सर्याभिभवस्तथा ॥५॥

मानसोऽपि द्विजश्रेष्ठास्तापो भवति नैकधा ।
इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥६॥

मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः ।
सरीसृपाद्यैश्च नृणां जन्यते चाऽऽधिभौतिकः ॥७॥

शीतोष्णवातवर्षाम्बुवैद्युतादिसमुद्‌भवः ।
तापो द्विजवरश्रेष्ठाः कथ्यते चाऽऽधिदैविकः ॥८॥

गर्भजन्मजराज्ञानमृत्युनारकजं तथा ।
दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तमाः ॥९॥

सुकुमारतनुर्गर्भे जन्तुर्बहुमलावृते ।
उल्बसंवेष्टितो भग्नपृष्ठग्रीवास्थिसंहतिः ॥१०॥

अत्यम्लकटुतीक्ष्णोष्णलवणैर्मातृभोजनैः ।
अतितापिभिरत्यर्थं बाध्यमानोऽतिवेदनः ॥११॥

प्रसारणाकुञ्चनादौ नागा(ङ्गा)नां प्रभुरात्मनः ।
शकृन्मूत्रमहापङ्कशायी सर्वत्र पीडितः ॥१२॥

निरुच्छ्वासः सचैतन्यः स्मरञ्जन्मशतान्यथ ।
आस्ते गर्भेऽतिदुःखेन निजकर्मनिबन्धनः ॥१३॥

जायमानः पुरीषासृङ्मूत्रशुक्राविलाननः ।
प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः ॥१४॥

अधोमुखस्तैः क्रियते प्रबलैः सूतिमारुतैः ।
क्लेशैर्निष्क्रान्तिमाप्नोति जठरान्मातुरातुरः ॥१५॥

मूर्च्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना ।
विज्ञानभ्रंसमाप्नोति जातस्तु मुनिसत्तमाः ॥१६॥

कण्टकैरिव तुन्नाङ्गः क्रकचैरिव दारितः ।
पूतिव्रणान्निपतितो धरण्यां क्रिमिको यथा ॥१७॥

कण्डूयनेऽपि चाशक्तः परिवर्तेऽप्यनीश्वरः ।
स्तनपानादिकाहारमवाप्नोति परेच्छया ॥१८॥

अशुचिस्रस्तरे सुप्तः कीटदंशादिभिस्तथा ।
भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे ॥१९॥

जन्मदुःखान्यनेकानि जन्मनोऽनन्तराणि च ।
बालभावे यदाप्नोति आधिभूतादिकानि च ॥२०॥

अज्ञानतमसा छन्नो मूढान्तः करणो नरः ।
न जानाति कुतः कोऽहं कुत्र गन्ता किमात्मकः ॥२१॥

केन बन्धेन बद्धोऽहं कारणं किमकारणम् ।
किं कार्यं किमकार्यं वा किं वाच्यं किं न चोच्यते ॥२२॥

को धर्मः कश्च वाऽधर्मः कस्मिन्वर्तेत वै कथम् ।
किं कर्तव्यमकर्तव्यं किं वा किं गुणदोषवत् ॥२३॥

एवं पशुसमैर्मूढैरज्ञानप्रभवं महत् ।
अवाप्यते नरैर्दुःखं शिश्नोदरपरायणैः ॥२४॥

अज्ञानं तामसो भावः कार्यारम्भप्रवृत्तयः ।
अज्ञानिनां प्रवर्तन्ते कर्मलोपस्ततो द्विजाः ॥२५॥

नरकं कर्मणां लोपात्फलमाहुर्महर्षयः ।
तस्मादज्ञानिनां दुःखमिह चामुत्र चोत्तमम् ॥२६॥

जराजर्जरदेहश्च शिथिलावयवः पुमान् ।
विचलच्छीर्णदशनो वलिस्नायुशिरावृतः ॥२७॥

दूरप्रनष्टनयनो व्योमान्तर्गततारकः ।
नासाविवरनिर्यातरोमपुञ्जश्चलद्वपुः ॥२८॥

प्रकटीभूतसर्वास्थिर्नतपृष्ठास्थिसंहतिः ।
उत्सन्नजठराग्नित्वादल्पाहारोल्पचेष्टितः ॥२९॥

कृच्छ्रचंक्रमणोत्थानशयनासनचेष्टितः ।
मन्दीभवच्छ्रोत्रनेत्रगलल्लालाविलाननः ॥३०॥

अनायत्तैः समस्तैश्च करणैर्मरणोन्मुखः ।
तत्क्षणेऽप्यनुभूतानामस्मर्ताऽखिलवस्तुनाम् ॥३१॥

सकृदुच्चारिते वाक्ये समुद्भूतमहाश्रमः ।
श्वासकासामयायाससमुद्‌भूतप्रजागरः ॥३२॥

अन्येनोत्थाप्यतेऽन्येन तथा संवेश्यते जरी ।
भृत्यात्मपुत्रदाराणामपमानपराकृतः ॥३३॥

प्रक्षीणाखिलशौचश्च विहाराहारसंस्पृहः ।
हास्यः परिजनस्यापि निर्विण्णाशेषबान्धवः ॥३४॥

अनुभूतमिवान्यस्मिञ्जन्मन्यात्मविचेष्टितम् ।
संस्मरन्यौवने दीर्घं निःश्वसित्यतितापितः ॥३५॥

एवमादीनि दुःखानि जरायामनुभूय च ।
मरणे यानि दुःखानि प्राप्नोति श्रृणु तान्यपि ॥३६॥

श्लथग्रीवाङ्‌घ्रिहस्तोऽथ प्राप्तो वेपथुना नरः ।
मुहुर्ग्लानिपरश्चासौ मुहुर्ज्ञानबलन्वितः ॥३७॥

हिरण्यधान्यतयभार्याभृत्यगृहादिषु ।
एते कथं भविष्यन्तीत्यतीवममताकुलः ॥३८॥

मर्मविद्‌भिर्महारोगैः क्रकचैरिव दारुणैः ।
शरैरिवान्तकस्योग्रैश्छिद्यमानास्थिबन्धनः ॥३९॥

परिवर्तमानताराक्षिहस्तपादं मुहुः क्षिपन् ।
संशुष्यमाणताल्वोष्ठकण्ठो घुरघुरायते ॥४०॥

निरुद्धकण्ठदेशीऽपि उदानश्वासपीडितः ।
तापेन महता व्याप्तस्तृषा व्याप्तस्तथा क्षुधा ॥४१॥

क्लेशादुत्क्रान्तिमाप्नोति याम्यकिंकरपीडितः ।
तापेन महात व्याप्तस्तृषा व्याप्तस्तथा क्षुधा ॥४२॥

एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम् ।
श्रृणुध्वं दर्शं यानि प्राप्यन्ते पुरुषैर्मृतैः ॥४३॥

याम्यकिंकरपाशादिग्रहणं दण्डताडनम् ।
यमस्य दर्शनं चोग्रमुग्रमार्गविलोकनम् ॥४४॥

करम्भवालुकाविह्नियन्त्रशस्त्रादिभीषणे ।
प्रत्येकं यातनायाश्च यातनादि द्विजोत्तमाः ॥४५॥

क्रकचैःपीड्यमानानांमृ(मू)षायां चापि ध्माप्यताम् ।
कुठारैः पाट्यमानानांभूमौ चापि निखन्यताम् ॥४६॥

शूलेष्वारोप्यमाणानां व्याघ्रवक्त्रे प्रवेश्यताम् ।
गृध्रैः संभक्ष्यमाणानां द्वीपिभिश्चोपभुज्यताम् ॥४७॥

क्वथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे ।
उच्चन्निपात्यमानानां क्षिप्यतां क्षेपयन्त्रकैः ॥४८॥

नरके यानि दुःखानि पापहेतूद्‌भवानि वै ।
प्राप्यन्ते नारकैर्विप्रास्तेषां संख्या न विद्यते ॥४९॥

न केवलं द्विजश्रेष्ठा नरके दुःखपद्धतिः ।
स्वर्गेऽपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः ॥५०॥

पुनश्च गर्भो भवति जायते च पुनर्नरः ।
गर्भे विलीयते भूयो जायमानोऽस्तमेति च ॥५१॥

जातमात्रश्च म्रियते बालभावे च यौवने ।
यद्यत्प्रीतिकरं पुंसां वस्तु विप्राः प्रजायते ॥५२॥

तदेव दुःखवृक्षस्य बीजत्वमुपगच्छति ।
कलत्रपुत्रमित्रादिगृहक्षेत्रधनादिकैः ॥५३॥

क्रियते न तथा भूरि सुखं पुंसां यथाऽसुखम् ।
इति संसारदुःखार्कतापतापितचेतसाम् ॥५४॥

विमुक्तिपादपच्छायामृते कुत्र सुखं नृणाम् ।
तदस्य त्रिविधस्यापि दुःखजातस्य पण्डितैः ॥५५॥

गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः ।
निरस्तातिशयाह्लादं सुखभावैकलक्षणम् ॥५६॥

भेषजं भगवत्प्राप्तिरेका चाऽऽत्यन्तिकी मता ।
तस्मात्तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर्नरैः ॥५७॥

तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं द्विजोत्तमाः ।
आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते ॥५८॥

शब्दब्रह्माऽऽगममयं परं ब्रह्म विवेकजम् ।
अन्धं तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम् ॥५९॥

यथा सूर्यस्तथा ज्ञानं यद्वै विप्रा विवेकजम् ।
मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तमाः ॥६०॥

तदेतच्छ्रुयतामत्र संबन्धे गदतो मम ।
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ॥६१॥

शब्दब्रह्मणि निष्णातः परं ब्रह्मधिगच्छति ।
द्वे विद्ये वेदितव्ये इति चाऽऽथर्वणी श्रुतिः ॥६२॥

परया ह्यक्षरप्राप्तिर्ऋग्वेदादिमयाऽपरा ।
यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् ॥६३॥

अनिर्देश्यमरूपं च पाणिपादाद्यसंयुतम् ।
वित्तं सर्वगतं नित्यं भूतयोनिमकारणम् ॥६४॥

व्याप्यं व्याप्यं यतः सर्वं तद्वै पश्यन्ति सूरयः ।
तद्‌ब्रह्म परमं धाम तद्व्येयं मोक्षकाङ्‌क्षिभिः । ॥६५॥

श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ।
उत्पत्तिं प्रलयं चैव भूतानामगतिं गतिम् ॥६६॥

वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ।
ज्ञानशक्तिबलवैश्वर्यवीर्यतेजांस्यशेषतः ॥६७॥

भगवच्छब्दवाच्यानि च स वाच्यो भगवानिति ।
ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः ॥६८॥

भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः ।
उवाचेदं महर्षिभ्यः पुरा पृष्टः प्रजापतिः ॥६९॥

नामाव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः ।
भूतेषु वसते योऽन्तर्वसन्त्यत्र च तानि यत् ॥
धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥७०॥

ससर्वभूतप्रकृतिर्गुणांश्च, दोषांश्च सर्वान्स(न)गुणो ह्यतीतः ।
अतीतसर्वावरणोऽखिलात्मा, तेनाऽऽवृतं यद्‌भवनान्तरालम् ॥७१॥

समस्तकल्याणगुणात्मको हि, स्वशक्तिलेशादृतभूतसर्गः ।
इच्छागृहीताभिमतोरुदेहः, संसाधिताशेषजगद्धितोऽसौ ॥७२॥

तेजोबलैश्वर्यमहावरोधः, स्ववीर्यशक्त्यादिगुणैकराशिः ।
परः पराणां सकला न यत्र, क्लेशादयः सन्ति परापरेशे ॥७३॥

स ईश्वरो व्यष्टिसमष्टिरूपोऽव्यक्तस्वरूपः प्रकटस्वरूपः ।
सर्वेश्वरः सर्वदृक्सर्ववेत्ता, समस्तशक्तिः परमेश्वराख्यः ॥७४॥

संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् ।
संदृश्यते वाऽऽप्यथ गम्यते वा,तज्ज्ञानमज्ञानमतोऽन्यदुक्तम् ॥७५॥

इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवाद आत्यन्तिकलयनिरूपणं नाम चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥२३४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:46.5530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सकंकण

  • वि. कंकणासहित ; हातांत कंकण असलेला . तेव्हां सांवळा सकंकण । चारी बाह्या पसरूनि श्रीकृष्ण । - एभा ३१ . ५२९ . [ सं . स + कंकण ] 
RANDOM WORD

Did you know?

जर सर्व प्राण्य़ांचा आत्मा एकच असेल तर प्राणी पक्ष्यांची भुते होतात काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site