TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १२९

ब्रह्मपुराणम् - अध्यायः १२९

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १२९
इन्द्रतीर्थवर्णनम्
ब्रह्मोवाच
इन्द्रतीर्थमिति ख्यातं तत्रैव च वृषाकपम् ।
फेनायाः संगमो यत्र हनूमतं तथैव च ॥१॥

अब्जकं चापि यत्प्रोक्तं यत्र देवस्त्रिविक्रमः ।
तत्र स्नानं च दानं च पुनरावृत्तिदुर्लभम् ॥२॥

तत्र वृत्तान्यथाऽऽख्यास्ये गङ्गाया दक्षिणे तटे ।
इन्द्रश्वरं चोत्तरे च श्रृणु भक्त्या यतव्रतः ॥३॥

नमुचिर्बलवानासीदिन्द्रशत्रुर्मदोत्कटः ।
तस्येन्द्रेणाभवद्युद्धं फेनेनेन्द्रोऽहरच्छिरः ॥४॥

अपां च नमुचेः शत्रोस्तत्फेनवज्ररूपधृक् ।
शिरश्छित्वा तच्च फेनं गङ्गाया दक्षिणे तटे ॥५॥

न्यपतद्‌भूमिं भित्त्वा तु रसातलमथाऽऽविशत् ।
रसातलभवं गाङ्गं वारि यद्विश्वपावनम् ॥६॥

वज्रादिष्टेन मार्गेण व्यागमद्‌भूमिमण्डलम् ।
तज्जलं फेननाम्ना तु नदी फेनेति गद्यते ॥७॥

तस्यास्तु संगमः पुण्यो गङ्गया लोकविश्रुतः ।
सर्वपापक्षयकरो गङ्गायमुनयोरिव ॥८॥

हनूमदुपमाता वै यत्राऽऽप्लवनमात्रतः ।
मार्जारत्वादभून्मुक्ता विष्णुगङ्गाप्रसादतः ॥९॥

मार्जारं चेति तत्तीर्थं पुरा प्रोक्तं मया तव ।
हनूमतं च तत्प्रोक्तं तत्राऽऽख्यानं पुरोदितम् ॥१०॥

वृषाकपं चाब्जकं च तत्रेदं प्रयतः श्रृणु ।
हिरण्य इति विख्यातो दैत्यानां पूर्वजो बली ॥११॥

तपस्तप्त्वा सुरैः सर्वैरजेयोऽभूत्सुदारुणः ।
तस्यापि बलवान्पुत्रो देवानां दुर्जयः सदा ॥१२॥

महाशनिरिति ख्यातस्तस्य भार्या पराजिता ।
तेनेन्द्रस्याभवद्युद्धं बहुकालं निरन्तरम् ॥१३॥

महाशनिर्महीवीर्यः सततं रणमूर्धनि ।
जित्वा नागेन सहितं शक्रं पित्रे न्यवेदयत् ॥१४॥

बद्ध्वा हस्तिसमायुक्तं स्वसारं वीक्ष्य तां तदा ।
विहाय क्रूरतां दैत्यो हिरण्याय न्यवेदयत् ॥१५॥

महाशनिपिता दैत्यः पूर्वेषां पूर्ववत्तरः ।
शचीकान्तं तले स्थाप्य तस्य रक्षामथाकरोत् ॥१६॥

महाशनिर्हरिं जित्वा जेतुं वरुणमभ्यगात् ।
वरुणोऽपि महाबुद्धिः प्रादात्कन्यां महाशनेः ॥१७॥

उदधिं स्वालयं प्रादाद्वरुणस्तु महाशनेः ।
तयोश्च सख्यमभवद्वरुणस्य महाशनेः ॥१८॥

वारुणी चापि या कन्या सा प्रियाऽभून्महाशनेः ।
वीर्येण यशसा चापि शौर्येण च बलेन च ॥१९॥

महाशनिर्महादैत्यस्त्रैलोक्ये नोपमीयते ।
निरिन्द्रत्वं गते लोके देवाः सर्वे न्यमन्त्रयन् ॥२०॥

देवा ऊचुः
विष्णुरेवेन्द्रदाता स्याद्दैत्यहन्ता स एव च ।
मन्त्रदृग्वा स एव स्यादिन्द्रं चान्यं करिष्यति ॥२१॥

ब्रह्मोवाच
एवं संमन्त्र्य ते देवा विष्णोर्मन्त्रं न्यवेदयन् ।
ममावध्यो महादैत्यो महाशनिरिति ब्रुवन् ॥२२॥

प्रायाद्वारीश्वरं विष्णुः श्वशुरं वरुणं तदा ।
केशवो वरुणं गत्वा प्राहेन्द्रस्य पराभवम् ॥२३॥

तथा त्वयैतत्कर्तव्यं यथाऽऽयाति पुरंदरः ।
तद्विष्णुवचनाच्छीघ्रं ययौ जलपतिर्मुने ॥२४॥

सुतापतिं हिरण्यसुतं विक्रान्तं तं महाशनिम् ।
अतिसंमानितस्तेन जामात्रा वरुणः प्रभुः ॥२५॥

पप्रच्छाऽऽगमनं दैत्यो विनयाच्छ्वशुरं तदा ।
वरुणः प्राह तं दैत्यं यदागमनकारणम् ॥२६॥

वरुण उवाच
इन्द्रं देहि महाबाहो यस्त्वया निर्जितः पुरा ।
बद्धं रसातलस्थं तं देवानामधिपं सखे ॥२७॥

अस्माकं सर्वदा मान्यं देहि त्वं मम शत्रुहन् ।
बद्‌ध्वा विमोक्षणं शत्रोर्महते यशसे सताम् ॥२८॥

ब्रह्मोवाच
तथेत्युक्ता कथंचित्स दैत्येशो वरुणाय तम् ।
प्रादादिन्द्रं शचीकान्तं वारणेन समन्वितम् ॥२९॥

स दैत्यमध्येऽतिविराजमानो, हरिं तदोवाच जलेशसंनिधौ ।
संपूज्य चैवाथ महापचारैर्महाशनिर्मघवन्तं बभाषे ॥३०॥

महाशनिरुवाच
केन त्वमिन्द्रोऽद्य कृतोऽसि केन, वीर्यं तवेदृग्बहु भाषसे च ।
त्वं संगरे शत्रुभिर्बाध्यसे च, तथाऽपि चेन्द्रो भवसीति चित्रम् ॥३१॥

अथापि बद्धा पुरुषेण काचित्तस्याः पतिस्तां मोचयतीति युक्तम् ।
स्त्रिंयोऽस्वतन्त्राः पुरुषप्रधानास्त्वं, वै पुमान्भविता शक्र साधो ॥३२॥

बद्धो मया संगरे वाहनेन, क्वाप्यस्त्रं ते वज्रमुद्दामशक्ति ।
चिन्तारत्नं नन्दनं योषितस्ता, यशो बलं देवराजोपभोग्यम् ॥
सर्वं हित्वा(त्वं)किंतु मुक्तो जलेशादाकाङ्क्षसे जीवितं धिक्तवेदम् ॥३३॥

तज्जीवनं यत्तु यशोनिधानं, स एव मृत्युर्यशसो यद्विरोधि ।
एवं जानञ्शक्र कथं जलेशान्मुक्तिं प्राप्तो नैव लज्जां भजेथाः ॥३४॥

त्रिविष्टपस्थः परवेष्टितः सन्सर्वैः सुरैः कान्तया वीज्यमानः ।
संस्तूयमानश्च तथाऽऽप्सरोभिर्नूनं लज्जा ते बिभेतीति मन्ये ॥३५॥

त्वं वृत्रहा नमुचेश्चापि हन्ता, पुरां भेत्ता गोत्रभिद्वज्रबाहुः ।
एवं सुरास्तवां परिपूजयन्तीत्यतो जिष्णो सर्वमेतत्त्यजस्व ॥३६॥

विकारमाप्याप्यहितोद्‌भवं ये, जीवन्ति लोकाननुसंविशन्ति ।
भवादृशां दुश्चयवनाब्जजन्मा, कथं न हृद्‌भेदमवाप कर्ता ॥३७॥

ब्रह्मोवाच
एवमुक्त्वा तु दैत्येशो वरुणाय महात्मने ।
प्रादादिन्द्रं पुनश्चेदं वचनं तदभाषत ॥३८॥

महाशनिरुवाच
अद्य प्रभृत्यसौ शिष्य इन्द्रः स्याद्वरुणो गुरुः ।
श्वशुरो मम येन त्वं मुक्तिमाप्तोऽसि वासव ॥३९॥

तथा त्वं भृत्यभावेन वर्तेथा वरुणं प्रति ।
नो चेद्‌बद्‌ध्वा पुनस्त्वां वै क्षेप्स्ये चैव रसातलम् ॥४०॥

ब्रह्मोवाच
एवं निर्भर्त्स्य तं शक्रं हसंश्चापि पुनः पुनः ।
अब्रवीद्‌गच्छ गच्छेति वरुणं चानुमन्यतु ॥४१॥

स तु प्राप्तः स्वनिलयं लज्जया कलुषीकृतः ।
पौलोम्यां प्राह तत्सर्वं यत्तच्छत्रुपराभवम् ॥४२॥

इन्द्र उवाच
एवमुक्तः कृतश्चैव शत्रुणाऽहं वरानने ।
निर्वापयामि येन स्वमात्मानं सुभगे वद ॥४३॥

इन्द्राण्युवाच
दानवानामथोद्‌भूतिं शक्र मायां पराभवम् ।
वरदानं तथा मृत्युं जानेऽहं बलसूदन ॥४४॥

तस्माद्यस्मात्तस्य मृत्युरथवापि पराभवः ।
जायेत श्रृणु तत्सर्वं वक्ष्येऽहं प्रीतये तव ॥४५॥

हिरण्यस्य सुतो वीरः पितृव्यस्य सुतो बली ।
तस्मान्मम स्यात्स भ्राता वरदानाच्च दर्पितः ॥४६॥

ब्रह्माणं तोषयामास तपसा नियमेन च ।
ईदृशं बलमापन्नं तपसा किं न सिध्यति ॥४७॥

तस्मात्त्वया चित्तरागो विस्मयो वा कथंचन ।
न कार्यः श्रृणु तत्रेदं कार्यं यत्तु क्रमागतम् ॥४८॥

ब्रह्मोवाच
एवमुक्त्वा तु पौलोमी प्राहेन्द्रं विनयान्विता ॥४९॥

इन्द्राण्युवाच
नासाध्यमस्ति तपसो नासाध्यं यज्ञकर्मणः ।
नासाध्यं लोकनाथस्य विष्णोर्भक्त्या हरस्य च ॥५०॥

पुनश्चेदं मया कान्त श्रुतमस्त्यतिशोभनम् ।
स्त्रीणां स्वभावं जानन्ति स्त्रिय एव सुराधिप ॥५१॥

तस्माद्‌भूमेस्तथा चापां नासाध्यं विद्यते प्रभो ।
तपो वा यज्ञकर्मादि ताभ्यामेव यतो भवेत् ॥५२॥

तत्रापि तीर्थभूता तु या भूमिस्तां व्रजेद् भवान् ।
तत्र विष्णुं शिवं पूज्य सर्वान्कामानवाप्स्यसि ॥५३॥

श्रुतमस्ति पुनश्चेदं स्त्रियो याश्च पतिव्रताः ।
ता एव सर्वं जानन्ति धृतं ताभिश्चाराचरम् ॥५४॥

पृथिव्यां सारभूतं स्यात्तन्मध्ये दण्डकं वनम् ।
तत्र गङ्गा जगद्धात्री तत्रेशं पूजय प्रभो ॥५५॥

विष्णुं वा जगतामीशं दीनार्तार्तिहरं विभुम् ।
अनाथानामिह नृणां मज्जतां दुःखसागरे ॥५६॥

हरो हरिर्वा गङ्गा वा क्वाप्यन्यच्छरणं नहि ।
तस्मात्सर्वप्रयत्नेन तोषयैतान्समाहितः ॥५७॥

भक्त्या स्तोत्रैश्च तपसा कुरु चैव मया सह ।
ततः प्राप्स्यसि कल्याणमीशविष्णुप्रसादजम् ॥५८॥

अज्ञात्वैकगुणं कर्म फलं दास्यति कर्मिणः ।
ज्ञात्वा शतगुणां तत्स्याद्भार्यया च तदक्षयम् ॥५९॥

पुंसः सर्वेषु कार्येषु भार्येवेह सहायिनी ।
स्वल्पानामपि कार्याणां नहि सिद्धिस्तया विना ॥६०॥

एकेन यत्कृतं कर्म तस्मादर्धफलं भवेत् ।
जायया तु कृतं नाथ पुष्कलं पुरुषो लभेत् ॥६१॥

तस्मादेतत्सुविदितमर्धो जाया इति श्रुतेः ।
श्रूयते दण्डकारण्ये सरिच्छ्रेष्ठाऽस्ति गौतमी ॥६२॥

अशेषाघप्रशमनी सर्वाभीष्टप्रदायिनी ।
तस्माद्‌गच्छ मया तत्र कुरु पुण्यं महाफलम् ॥६३॥

ततः शत्रून्निहत्याऽऽजौ महत्सुखमवाप्स्यसि ॥६४॥

ब्रह्मोवाच
तथेत्यक्त्वा स गुरुणा भार्यया च शतक्रतुः ।
ययौ गङ्गां जगद्धात्रीं गौतमीं चेति विश्रुताम् ॥६५॥

दण्डकारण्यमध्यस्थां ययौ स (दृष्ट्वा तां) प्रीतिमान्हरिः ।
तपः कर्तुं मनश्चक्रे देवदेवाय शंभवे ॥६६॥

गङ्गां नत्वा तु प्रथमं स्नात्वा च स कृताञ्जलिः ।
शिवैकशरणो भूत्वा स्तोत्रं चेदं ततोऽब्रवीत् ॥६७॥

इन्द्र उवाच
स्वमायया यो ह्यखिलं चराचरं, सृजत्यवत्यत्ति न सज्जतेऽस्मिन् ।
एकः स्वतन्त्रोऽद्वयचित्सुखात्मकः, स नः प्रसन्नोऽस्तु पिनाकपाणिः ॥६८॥

न यस्य तत्त्वं सनकादयोऽपि, जानन्ति वेदान्तरहस्यविज्ञाः ।
स पार्वतीशः सकलाभिलाषदाता प्रसन्नोऽस्तु ममान्धकारिः ॥६९॥

सृष्ट्वा स्वयंभूर्भगवान्विरिञ्चि, भयंकरं चास्य शिरोऽन्वपश्यत् ।
छित्त्वा नखाग्रैर्नखसक्तमेतच्चिक्षेप तस्मादभवत्त्रिवर्गः ॥७०॥

पापं दरिद्रं त्वथ लोभयाच्ञे मोहो विपच्छेति ततोऽप्यनन्तम् ।
जातप्रभावं भवदुःखरूपं, बभूव तैर्व्याप्तमिदं समस्तम् ॥७१॥

अवेक्ष्य सर्वं चकितः सुरेशो, देवीमवोच्ज्जगदस्तमेति ।
त्वं पाहि लोकेश्वरि लोकमातरुमे शरण्ये सुभगे सुभद्रे ॥७२॥

जगत्प्रतिष्ठे वरदे जय त्वं, भुक्तिः समाधिः परमा च मुक्तिः ।
स्वाहा स्वधा स्वस्तिरनादिसिद्धिर्बुद्धिरासीरजरामरे त्वम् ॥७३॥

विद्यादिरूपेण जगत्त्रये त्वं, रक्षां करोष्येव मदाज्ञया च ।
त्वयैव सृष्टं भुवनत्रयं स्याद्यतः प्रकृत्यैव तथैव चित्रम् ॥७४॥

इत्येवमुक्ता दयिता हरेण, संश्लेषसंलापपरा बभूव ।
श्रान्ता भवस्यार्धतनौ सुलग्ना, चिक्षेप च स्वेदजलं कराग्रैः ॥७५॥

तस्माद्बभूव प्रथमं स धर्मो, लक्ष्मीरथो दानमथो सुवृष्टिः ।
सत्त्वं सुसंपन्नधरं सरांसि, धान्यानि पुष्पाणि फलानि चैव ॥७६॥

सौभाग्यवस्तूनि वपुः सुवेषः, श्रृङ्गारभाजीनि महौषधानि ।
नृत्यानि गीतान्यमृतं पुराणं, श्रुतिस्मृती नीतिरथान्नपाने ॥७७॥

शस्त्राणि शास्त्राणि गृहोपयोग्यन्यस्त्राणि तीर्थानि च काननानि ।
इष्टानि पूर्तानि च मङ्गलानि, यानानि शुभ्राभरणासनानि ॥७८॥

भवाङ्गसंसर्गसुसंप्रहाससुस्वेदसंलापरहःप्रकारैः ।
तथैव जातं सचराचरं च, अपापकं देवि ततश्च जातम् ॥७९॥

सुखं प्रभूतं च शुभं च नित्यं, विराजि चैतत्तव देवि भावात् ।
तस्मात्तु मां रक्ष जगज्जनित्रि, भीतं भयेभ्यो जगतां प्रधाने ॥८०॥

एके तर्के विमुह्यन्ति लीयन्ते तत्र चापरे ।
शिवशक्त्योस्तदाऽद्वैतं सुन्दरं नौमि विग्रहम् ॥८१॥

ब्रह्मोवाच
एवं तु स्तुवतस्तस्य पुरस्तादभवच्छिवः ॥८२॥

शिव उवाच
किमभीष्टं वरयसे हरे वद परायणम् ॥८३॥

इन्द्र उवाच
बलवान्मे रिपुश्चाऽऽसी द्दर्शनैश्च शनिर्यथा ।
तेन बद्धस्तलं नीतः परिभूतस्त्वनेकधा ॥८४॥

वाक्सायकस्तथा विद्धस्तद्वधाय त्वियं कृतिः ।
तदर्थं जगतामीश येन जेष्ये रिपुं प्रभो ॥८५॥

तदेव देहि वीर्यं मे यच्चान्यद्रिपुनाशनम् ।
जातः पराभवो यस्मात्तद्विनाशे कृते सति ॥
पुनर्जातमहं मन्ये वरं कीर्तिर्जयश्रियोः ॥८६॥

ब्रह्मोवाच
स शिवः शक्रमाहेदं न मयैकेन ते रिपुः ।
वधमाप्नोति तस्मात्त्वं विष्णुमप्यव्ययं हरिम् ॥८७॥

आराधयस्व पौलोम्या सह देवं जनार्दनम् ।
लोकत्रयैकशरणं नारायणमनन्यधीः ॥८८॥

ततः प्राप्स्यसि तस्माच्च मत्तश्चापि प्रियं हरे ।
पुनश्चोवाच भगवानादिकर्ता महेश्वरः ॥८९॥

मन्त्राभ्यासस्तपो वापि योगाभ्यसनमेव च ।
संगमे यत्र कुत्रापि सिद्धिदं मुनयो विदुः ॥९०॥

कि पुनः संगमे विप्र गौतमीसिन्धुफेनयोः ।
गिरीणां गह्‌वरे यद्वा सरितामथ संगमे ॥९१॥

विप्रो धियैव भवति मुकुन्दाङघ्रिनिविष्टया ।
गङ्गाया दक्षिणे तीर आपस्तम्बो मुनीश्वरः ॥९२॥

आस्ते तस्याप्यहं तोषमगमं बलसूदन ।
तेन त्वं भार्यया चैव तोषयस्व गदाधरम् ॥९३॥

ब्रह्मोवाच
आपस्तम्बेन सहितो गङ्गाया दक्षिणे तटे ।
तुष्टाव देव प्रयतः स्नात्वा पुण्येऽथ संगमे ॥९४॥

फेनायाश्चैव गङ्गायास्तत्र देवं जनार्दनम् ।
वैदिकैर्विविधैर्मन्त्रैस्तपसाऽतोषयत्तदा ॥९५॥

ततस्तुष्टोऽभवद्विष्णुः किं देयं चेत्यभाषत ।
देहि मे शत्रुहन्तारमित्याह भगवान्हरिः ॥९६॥

दत्तमित्येव जानीहि तमुवाच जनार्दनः ।
तत्राभवच्छिवस्यैव गङ्गाविष्ण्वोः प्रसादतः ॥९७॥

अम्भसा पुरुषो जातः शिवविष्णुस्वरूपधृक् ।
चक्रपाणिः शूलधरः स गत्वा तु रसातलम् ॥९८॥

निजघान तदा दैत्यमिन्द्रशत्रुं महाशनिम् ।
सखाऽभवत्स चेन्द्रस्य अब्जकः स वृषाकपिः ॥९९॥

दिविस्थोऽपि सदा चेन्द्रस्तमन्वेति वृषाकपिम् ।
कुपिता प्रणयेनाभूदन्यासक्तं विलोक्य तम् ॥
शचीं तां सान्त्वयन्नाह शतमन्युर्हसन्निदम् ॥१००॥

इन्द्र उवाच
नाहमिन्द्राणि शरणमृते सख्युर्वृषाकपेः ।
वारि वाऽपि हविर्यस्य अग्नेः प्रियकरं सदा ॥१०१॥

नाहमन्यत्र गन्ताऽस्मि प्रिये चाङ्गेन ते शपे ।
तस्मान्नार्हसि मां वक्तुं शङ्कयाऽन्यत्र भामिनि ॥१०२॥

पतिव्रता प्रिया मे त्वं धर्मे मन्त्रे सहायिनी ।
सापत्या च कुलीना च त्वत्तोऽन्या का प्रिया मम ॥१०३॥

तस्मात्तवोपदेशेन गङ्गां प्राप्य महानदीम् ।
प्रसादाद्देवदेवस्य विष्णोर्वै चक्रपाणिनः ॥१०४॥

तथा शिवस्य देवस्य प्रसादाच्च वृषाकपेः ।
जलोद्‌भवाच्च मे मित्रादब्जकाल्लोकविश्रुतात् ॥१०५॥

उत्तीर्णदुःखः सुभगे इत इन्द्रोऽहमच्युतः ।
किं न साध्यं यत्र भार्या भर्तृचित्तानुगमिनी ॥१०६॥

दुष्करा तत्र नो मुक्तिः किंत्वर्थादित्रयं शुभे ।
जायैव परमं मित्रं लोकद्वयहितैषिणी ॥१०७॥

सा चेत्कुलीना प्रियभाषिणी च, पतिव्रता रूपवती गुणाढ्या ।
संपत्सु चाऽऽपत्सु समानरूपा, तया ह्यसाध्यं किमिह त्रिलोक्याम् ॥१०८॥

तस्मात्तव धिवा कान्ते ममेदं शुभमागतम् ।
इतस्तवोदितं चैव कर्तव्यं नान्यदस्ति मे ॥१०९॥

परलोके च धर्मे च सत्पुत्रसदृशं न च ।
आर्तस्य पुरुषस्येह भार्यावद्भेषजं न हि ॥११०॥

निःश्रेसपदप्राप्त्यै तथा पापस्य मुक्तये ।
गङ्गाय सदृशं नास्ति श्रुणु चान्यद्वरानने ॥१११॥

धर्मार्थकाममोक्षाणां प्राप्तये पापमुक्तये ।
शिवविष्ण्वोरनन्यत्वज्ञानान्नास्त्यत्र मुक्तये ॥११२॥

तस्मात्तव धिया साध्वि सर्वमेतन्मनोगतम् ।
अवाप्तं च शिवाद्विष्णोर्गङ्गायाश्च प्रसादतः ॥११३॥

इन्द्रत्वं मे स्थिरं चेतो मन्ये मित्रबालात्पुनः ।
वृषाकपिर्मम सखा यो जातस्त्वप्सु भामिनि ॥११४॥

त्वं च प्रियसखी नित्यं नान्यत्प्रियतरं मम ।
तीर्थानां गौतमी गङ्गा देवानां हरिशंकरौ ॥११५॥

तस्मादेभ्यः प्रसादेन सर्वं चेप्सितमाप्तवान् ।
मम प्रीतिकरं चेदं तीर्थं त्रैलोक्यविश्रुतम् ॥११६॥

तस्मादेतद्धि याचिष्ये देवान्सर्वाननुक्रमात् ॥
अनुमन्यन्तु ऋषयो गङ्गा च हरिशंकरौ ॥११७॥

इन्द्रेश्वरे चाब्जके च उभयोस्तीरयोः सुराः ।
एकत्र शंकरो देवो ह्यपरत्र जनार्दनः ॥११८॥

पावयन्दण्डकारण्यं साक्षाद्विष्णुस्त्रिविक्रमः ।
अन्तरे यानि तीर्थानि सर्वपुण्यप्रदानि च ॥११९॥

अत्र तु स्नानमात्रेण सर्वे ते मुक्तिमाप्नुयुः ।
पापिष्ठाः पापतो मुक्तिमाप्नुयुर्ये च धर्मिणः ॥१२०॥

तेषां तु परमा मुक्तिः पितृभिः पञ्चपञ्चभिः ।
अत्र किंचिच्च ये दद्युरर्थिभ्यस्तिलमात्रकम् ॥१२१॥

दातृभ्यो ह्यक्षयं तत्स्यात्कामदं मोक्षदं तथा ।
धन्यं यशस्यमायुष्यमारोग्यं पुण्यवर्धनम् ॥१२२॥

आख्यानं विष्णुशंभ्वोश्च ज्ञात्वा स्नानाच्च मुक्तिदम् ।
अस्य तीर्थस्य माहात्म्यंये श्रृण्वन्ति पठन्ति च ॥१२३॥

पुण्यभाजो भवेयुस्ते तेभ्योऽत्रैव स्मृतिर्भवेत् ।
शिवविष्ण्‌वोरशेषाघसंविच्छेदकारिणी ॥
यां प्रार्थयन्ति मुनयो विजितेन्द्रियमानसाः ॥१२४॥

ब्रह्मोवाच
भविष्यत्येवमेवेति तं देवा ऋषयोऽब्रुवन् ।
गौतम्या उत्तरे पारे तीर्थानां मोक्षदायिनाम् ॥१२५॥

देवर्षिसिद्धसेव्यानां सहस्राण्यथ सप्त वै ।
तथैव दक्षिणे तीरे तीर्थान्येकादशैव तु ॥१२६॥

अब्जकं हृदयं प्रोक्तं गोदावर्या मुनीश्वरैः ।
विश्रामस्थानमीशस्य विष्णोर्ब्रह्मण एव च ॥१२७॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये
गौतम्युत्तरकूलस्थेन्द्रेश्वरादिसप्तसहस्रतीर्थदक्षिणकूलस्थापस्तम्बसोमेश्वरफेनासंगमवृषाकपाब्जकवैष्णवहनूमत्तीर्थमार्जारेत्याद्येकादशतीर्थवर्णनं नामैकोनत्रिंशदधिकशततमोऽध्यायः ॥१२९॥

गौतमीमाहात्म्ये षष्टितमोऽध्यायः ॥६०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:40.7230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Einstein Bose statistics

  • = Bose-Einstein statistics 
RANDOM WORD

Did you know?

हिंदू धर्मात ३३ कोटी देवता आहेत काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.