TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १४०

ब्रह्मपुराणम् - अध्यायः १४०

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १४०
अन्विन्द्रात्रेयादितीर्थवर्णनम्
ब्रह्मोवाच
आत्रेयमिति विख्यातमन्विन्द्रं तीर्थमुत्तमम् ।
तस्य प्रभावं वक्ष्यामि भ्रष्टराज्यप्रदायकम् ॥१॥

गौतम्या उत्तरे तीर आत्रेयो भगवानृषिः ।
अन्वारेभेऽथ सत्राणि ऋत्विग्भिर्मुनिभिर्वृतः ॥२॥

तस्य होताऽभवत्त्वग्निर्हव्यवाहन एव च ।
एवं सत्रे तु संपूर्ण इष्टिं माहेश्वरीं पुनः ॥३॥

कृत्वैश्वर्यमगाद्विप्रः सर्वत्र गतिमेव च ।
इन्द्रस्य भवनं रम्यं स्वर्गलोकं रसातलम् ॥४॥

स्वेच्छया याति विप्रेन्द्रः प्रभावात्तपसः शुभात् ।
स कदाचिद्दिवं गत्वा इन्द्रलोकमगात्पुनः ॥५॥

तत्रापश्यत्सहस्राक्षं सुरैः परिवृतं शुभैः ।
स्तूयमानं सिद्धसाध्यैः प्रेक्षन्तं नृत्यमुत्तमम् ॥
श्रृण्वानं मधुरं गीतमप्सरोभिश्च वीजितम् ॥६॥

उपोपविष्टैः सुरनायकैस्तैः, संपूज्यमानं महदासनस्थम् ।
जयन्तमङ्के विनिधाय सूनुं, शच्या युतं प्राप्तरतिं महिष्ठम् ॥७॥

सतां शरण्यं वरदं महेन्द्रं, समीक्ष्य विप्राधिपतिर्महात्मा ।
विमोहितोऽसौ मुनिरिन्द्रलक्ष्म्या, समीहयामास तदिन्द्रराज्यम् ॥८॥

संपूजितो देवगणैर्यथावत्स्वमाश्रमं वै पुनराजगाम ।
समीक्ष्य तां शक्रपुरीं सुरम्यां, रत्नेर्युतां पुण्यगुणैः सुपूर्णाम् ॥९॥

स्वमाश्रमं निष्प्रभहेमवर्ज्यं समीक्ष्य विप्रो विरमं जगाम ।
समीहमानः सुरराज्यमाशु, प्रियां तदोवाच महात्रिपुत्रः ॥१०॥

आत्रेय उवाच
भोक्तुं न शक्तोऽस्मि फलानि मूलान्यनुत्तमान्यप्यतिसंस्कृतानि ।
स्मृत्वाऽमृतं पुण्यतमं च तत्र, भक्ष्यं च भोज्यं च वरासनानि ॥
स्तुतिं च दानं च सभां शुभां च, अस्त्रं च वासांसि पुरीं वनानि ॥११॥

ब्रह्मोवाच
ततो महात्मा तपसः प्रभावात्तवष्टारमाहूय वचो बभाषे ॥१२॥

आत्रेय उवाच
इच्छेयमिन्द्रत्वमहं महात्मन्कुरुष्व शीघ्रं पदमैन्द्रमत्र ।
ब्रुषेऽन्यथा चेन्मदुदीरितं त्वं, भस्मी करोम्येव न संशयोऽत्र ॥१३॥

ब्रह्मोवाच
तदत्रिवाक्यत्त्वरितः प्रजानां, स्रष्टा विभुर्विश्वकर्मा तदैव ।
चकार मेरुं च पूरीं सुराणां, कल्पद्रुमान्कल्पलतां च धेनुम् ॥१४॥

चकार वज्रादिविभूषितानि, गृहाणि शुभ्राण्यतिचित्रितानि ।
चकार सर्वावयवानवद्यं, शचीं स्मरस्येव विहारशालाम् ॥१५॥

सभां सुधर्माणमहो क्षणेन, तथा चकाराप्सरसो मनोज्ञाः ।
चकार चोच्चैःश्रवसं गजं च, वज्रादि चास्त्राणि सुरानशेषान् ॥१६॥

निवार्यमाणः प्रिययाऽत्रिपुत्रः, शचीसमामात्मवधूं चकार ।
तदाऽत्रिपुत्रोऽत्रिमुखैः समेतो, वज्रादिरूपं च चकार चास्त्रम् ॥१७॥

नृत्यादि गीतादि च सर्वमेव, चकार शक्रस्य पुरे च दृष्टम् ।
तत्सर्वमासाद्य तदा मुनीन्द्रः, प्रहृष्टचेताः सुतरां बभूव ॥१८॥

आपातरम्येष्वपि कस्य नाम, भवत्यपेक्षा न हि गोचरेषु ।
श्रुत्वा च दैत्या दनुजाः समेता, रक्षांसि कोपेन युतानि सद्यः ॥१९॥

स्वर्गं परित्यज्य कुतो हरिर्भुवं, समागतो न्वेष मिथः सुखाय ।
तस्माद्वयं याम इतो नु योद्‌धुं, वृत्रस्य हन्तारमदीर्घसत्रम् ॥२०॥

ततः समागत्य तदाऽत्रिपुत्रं, संवेष्टयामासुरथासुरास्ते ।॥

संवेष्टयित्वा पुरामत्रिपुत्रकृतं तथा चेन्द्रपुराभिधानम् ।
तैर्वघ्यमानः शस्त्रपातैर्महद्‌भिस्ततो भीतो वाक्यमिदं जगाद ॥२१॥

आत्रेय उवाच
यो जात एवं प्रथमो मनस्वान्देवो देवान्क्रतुना पर्यभूषत् ।
यस्य शुष्माद्रोदसी अभ्यसेतां, नृम्णस्य मह्‌ना सजना स इन्द्रः ॥२२॥

ब्रह्मोवाच
इत्यादिसूक्तेन रिपूनुवाच, हरिं च तुष्टाव तदाऽत्रिपुत्रः ॥२३॥

आत्रेय उवाच
नाहं हरिर्नैव शची मदीया, नेयं पुरी नैव वनं तदैन्द्रम् ।
स एव चेन्द्रो वृत्रहन्ता स वज्री, सहस्राक्षो गोत्रभिद्धज्रबाहुः ॥२४॥

अहं तु विप्रो वेदविद्‌ब्रह्मवृन्दैः, समाविष्टो गौतमीतीरसंस्थः ।
यत्राऽऽयत्यां नाद्य वा सौख्यहेतुस्तच्चाकार्ष कर्म दुर्दैवयोगात् ॥२५॥

असुरा ऊचुः
संहरस्वेदमात्रेय यदिन्द्रस्य विडम्बनम् ।
क्षेमस्ते भविता सत्यं नान्यथा मुनिसत्तम ॥२६॥

ब्रह्मोवाच
तदाऽऽत्रेयोऽब्रवीद्वाक्यं यथा वक्ष्यन्ति मामिह ।
करोम्येव महाभागाः सत्येनाग्निं समालभे ॥२७॥

एमुक्त्वा स दैतेयांस्त्वष्टारं पुनरब्रवीत् ॥२८॥

आत्रेय उवाच
यत्कृतं त्वत्र मत्प्रीत्या ऐन्द्रं त्वष्टः पदं त्वया ।
संहरस्व पुनः शीघ्रं रक्ष मां ब्राह्मणं मुनिम् ॥२९॥

पुनर्देहि पदं मह्यमाश्रमं मृगपक्षिणः ।
वृक्षाश्च वारि यत्राऽऽसीन्न मे दिव्यैः प्रजनम् ॥
सर्वमक्रममायातं न सुखाय मनीषिणाम् ॥३०॥

ब्रह्मोवाच
तथेत्युक्त्वा प्रजानाथस्त्वष्टा संहृतवांस्तदा ।
दैत्याश्च जग्मुः स्वस्थानं कृत्वा देशमकण्टकम् ॥३१॥

त्वष्टा चापि ययौ स्थानं स्वकं संप्रहसन्निव ।
आत्रेयोऽपि तदा शिष्यैः संवृतः सह भार्यया ॥३२॥

गौतमीतीरमाश्रित्य तपोनष्ठोऽखिलैर्वृतः ।
वर्तमाने महायज्ञे लज्जितो वाक्यमब्रवीत् ॥३३॥

आत्रेय उवाच
अहो मोहस्य महिमा ममापि भ्रान्तचित्तता ।
किं महेन्द्रपदं लब्धं किं मयाऽत्र पुरा कृतम् ॥३४॥

ब्रह्मोवाच
एवं वदन्तमात्रेयं लज्जिसं प्राब्रुवन्सुराः ॥३५॥

सुरा ऊचुः
लज्जां जहि महाबाहो भविता ख्यातिरुत्तमा ।
आत्रेयतीर्थे ये स्नानं प्राणिनः कुर्युरञ्जसा ॥३६॥

इन्द्रास्ते भवितारो वै स्मरणात्सुखभागिनः ।
तत्र पञ्च सहस्राणि तीर्थान्याहुर्मनीषिणः ॥३७॥

इन्द्रास्ते भवितारो वै स्मरणात्सुखभागिनः ।
तत्र पञ्च सहस्राणि तीर्थान्याहुर्मनीषिणः ॥३८॥

अन्विन्द्रात्रेयदैतेयनामभिः कीर्तितानि च ।
तेषु स्नानं च दानं च सर्वमक्षयपुण्यदम् ॥३९॥

ब्रह्मोवाच
इत्युक्त्वा विबुधा याताः संतुष्टश्चाभवन्मुनिः ॥४०॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्येऽन्विन्द्रात्रेयादिपञ्चसहस्रतीर्थवर्णनं नाम चत्वारिंशदधिकशततमोऽध्यायः ॥१४०॥

गौतमीमाहात्म्ये एकसप्ततितमोऽध्यायः ॥७१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:41.3030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Pay and Accounts Officer

  • अधिदान व लेखा अधिकारी 
RANDOM WORD

Did you know?

जेवण उष्टे सोडून अन्नाचा अपमान करणार्याला विविध शास्त्र, पुराणात काय शिक्षासांगितली आहे कृपाया संदर्भासह स्पष्ट करणे .
Category : Vedic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.