TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २३१

ब्रह्मपुराणम् - अध्यायः २३१

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २३१
व्यास-मुनिसंवादे द्वापरयुगान्तकथनम्
मुनय ऊचुः
आसन्नं विप्रकृष्टं वा यदि कालं न विद्‌महे ।
ततो द्वापरविध्वंसं युगान्तं स्पृहयामहे ॥१॥

प्राप्ता वयं हि तत्कालमनया धर्मतृष्णया ।
आदद्याम परं धर्म सुखमल्पेन कर्मणा ॥२॥

संत्रासोद्वेगजननं युगान्तं समुपस्थिकम् ।
प्रनष्टधर्मं धर्मज्ञ निमित्तैर्वक्तुमर्हसि ॥३॥

व्यास उवाच
अरक्षितारो हर्तारो बलिभागस्य पार्थिवाः ।
युगान्ते प्रभविष्यन्ति स्वरक्षणपरायणाः ॥४॥

अक्षत्रियाश्च राजानो विप्राः शूद्रोपजीविनः ।
शुद्राश्च ब्राह्मणाचारा भविष्यन्ति युगक्षये ॥५॥

श्रोत्रियाः काण्डपृष्ठाश्च निष्कर्माणि हवींषि च ।
एकापंक्त्‌यामशिष्यन्ति युगान्ते मुनिसत्तमाः ॥६॥

अशिष्टवन्तोऽर्थपरा नरा मद्यामिषप्रियाः ।
मित्रभार्यां भजिष्यन्ति युगान्ते पुरुषाधमाः ॥७॥

राजवृत्तिस्थिताश्चौरा राजानश्चौरशीलिनः ।
भृत्या ह्यनिर्दिष्टभुजो भविष्यन्ति युगक्षये ॥८॥

धनानि श्लाघनीयानि सतां वृत्तमपूजितम् ।
अकुत्सना च पतिते भविष्यति युगक्षये ॥९॥

प्रनष्टनासाः पुरुषा मुक्तकेशा विरूपिणः ।
ऊनषोडशवर्षाश्च प्रसोष्यन्ति तथा स्त्रियः ॥१०॥

अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।
प्रमदाः केशशूलाश्च भविष्यन्ति युगक्षये ॥११॥

सर्वे ब्रह्म वदिष्यन्ति द्विजा वाजसनेयिकाः ।
शूद्राभा वादिनश्चैव ब्राह्मणाश्चान्त्यवासिनः ॥१२॥

शुक्लदन्ता जिताक्षाश्च मुण्डाः काषायवाससः ।
शूद्रा दर्मं वदिष्यन्ति शाठ्यबुद्ध्योपजीविनः ॥१३॥

श्वापदप्रचुरत्वं च गवां चैव परिक्षयः ।
साधूनां परिवृत्तिश्च विद्यादन्तगते युगे ॥१४॥

अन्त्या मध्ये निवत्स्यन्ति मध्याश्चान्यनिवासिनः ।
निर्ह्रीकाश्च प्रजाः सर्वा नष्टास्तत्रयुगाक्षये ॥१५॥

तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः ।
ऋतवो विपरीताश्च भविष्यन्ति युगक्षये ॥१६॥

तथा द्विहायना दम्याः कलौ लाङ्गलधारिणः ।
चित्रवर्षी च पर्जन्यो युगे क्षीणे भविष्यति ॥१७॥

सर्वे शूरकुले जाताः क्षमानाथा भवन्ति हि ।
यथा निम्नाः प्रजाः सर्वा भविष्यन्ति युगक्षये ॥१८॥

पितृदेयानि दत्तानि भविष्यन्ति तथा सृताः ।
न च धर्म चरिष्यन्ति मानवा निर्गते युगे ॥१९॥

ऊषरा बहुला भूमिः पन्थानस्तस्करावृताः ।
सर्वे ........ वाणिकाश्चैव भविष्यन्ति युगक्षये ॥२०॥

पितृदायान्यदत्तानि विभजन्ति तथा सुताः ।
हरणे यत्नवन्तोऽपि लोभादिभिर्विरोधिनः ॥२१॥

सौकुमार्ये तथा रूपे रत्ने चोपक्षयं गते ।
भविष्यन्ति युगस्यान्ते नार्यः केशैरलंकृताः ॥२२॥

निर्वीर्यस्य रतिस्तत्र गृहस्थस्य भविष्यति ।
युगान्ते समनुप्राप्ते नान्या भार्यासमा रतिः ॥२३॥

कुशीलानार्यभूयिष्ठा वृथारूपसमन्विताः ।
पुरुषाल्पं बहुस्त्रीकं तद्‌युगान्तस्य लक्षणम् ॥२४॥

बहुयाचनको लोको न दास्यति परस्परम् ।
राजचौराग्निदण्डादिक्षीणः क्षयमुपैष्यति ॥२५  ।
अफलानि च सस्यानि तरुणा वृद्धशीलिनः ।
अशीलाः सुखिनो लोके भविष्यन्ति युगक्षये ॥२६॥

वर्षासु परुषा वाता नीचाः शर्करवर्षिणः ।
संदिग्धः परलोकश्च भविष्यति युगक्षये ॥२७॥

वैश्या इव च राजन्या धनधान्योपजीविनः ।
युगापक्रमणे पूर्वं भविष्यन्ति न बान्धवाः ॥२८॥

अप्रवृत्ताः प्रपश्यन्ति समयाः शपथास्तथा ।
ऋणं सविनयभ्रंशं युगे क्षीणे भविष्यति ॥२९॥

भविष्यत्यफलो हर्षः क्रोधश्च शफलो नृणाम् ।
अजाश्चापि निरोत्स्यन्ति पयसोऽर्थे युगक्षये ॥३०॥

अशास्त्राविहितो यज्ञ एवमेव भविष्यति ।
अप्रमाणं करिष्यन्ति नराः पण्डितमानिनः ॥३१॥

शास्त्रोक्तस्याप्रवक्तारो भविष्यन्ति न संशयः ।
सर्वः सर्वं विजानाति वृद्धाननुपसेव्य वै ॥३२॥

न कश्चिदकविर्नाम युगान्ते समुपस्थिते ।
नक्षत्राणि वियोगानि न कर्मस्था द्विजातयः ॥३३॥

चौरप्रायाश्च राजानो युगान्ते समुपस्थिते ।
कुण्डीवृषा नैकृतिकाः सुरापा ब्रह्मवादिनः ॥३४॥

अश्वमेधेन यक्ष्यन्ते युगान्ते द्विजसत्तमाः ।
याजयिष्यन्त्ययाज्यांस्तु तथाऽभक्ष्यस्य भक्षिणः ॥३५॥

ब्राह्मणा धनतृष्णार्ता युगान्ते समुपस्थिते ।
भोःशब्दमभिधास्यन्ति न च कश्चित्पठिष्यति ॥३६॥

एकशङ्खास्तथा नार्यो गवेधुकपिनद्धकाः(?) ।
नक्षत्राणि विवर्णानि विपरीता दिशो दश ॥३७॥

संध्यारागो विदग्धाङ्गो भविष्यति युगक्षये ।
प्रेषयन्ति पितृन्पुत्रा वधूः श्वश्रूः स्वकर्मसु ॥३८॥

युगेष्वेवं निवत्स्यन्ति प्रमदाश्च नरास्तथा ।
अकृत्वाऽग्राणि भोक्ष्यन्ति द्विजाश्चैवाहुताग्नयः ॥३९॥

भिक्षां बलिमदत्त्वा च भोक्ष्यन्ति पुरुषाः स्वयम् ।
वञ्चयित्वा पतीन्सुप्तान्गमिष्यन्ति स्त्रियोऽन्यतः ॥४०॥

न व्याधितान्नाप्यरूपान्नोद्यतान्नाप्यसूयकान् ।
कृते न प्रतिकर्ता च युगे क्षीर्णे भविष्यति ॥४१॥

मुनय ऊचुः
एवं विलम्बिते धर्मे मानुषाः करपीडिताः ।
कुत्र देशे निवत्स्यन्ति किमाहारविहारिणः ॥४२॥

किंकर्माणः किमीहन्तः किंप्रमाणाः किमायुषः ।
कां च काष्ठांसमासाद्य प्रपत्स्यन्ति कृतं युगम् ॥४३॥

व्यास उवाच
अत ऊर्ध्वं च्युते धर्मे गुणहीनाः प्रजास्तथा ।
शीलव्यसनमासाद्य प्राप्स्यन्ति ह्रासमायुषः ॥४४॥

आयुर्हानयावलग्नानिर्वलग्नान्या विवर्णता ।
वैवर्ण्याद्‌व्याधिसंपीडा निर्वेदो व्याधिपीडनात् ॥४५॥

निर्वेदादात्मसंबोधः संबोधाद्धर्मंशीलता ।
एवं गत्वा परां काष्ठां प्रपत्स्यन्ति कृतं युगम् ॥४६॥

उद्देशतो धर्मशीलाः केचिन्मध्यस्थतां गताः ।
किं धर्मशीलाः केचित्तु केचिदत्र कुतूहलाः ॥४७॥

प्रत्यक्षमनुमानं च प्रमाणमिति निश्चिताः ।
अप्रमाणं करिष्यन्ति सर्वमित्यपरे जनाः ॥४८॥

नास्तिक्यपरताश्चापि केचिद्धर्मविलोपकाः ।
भविष्यन्ति नरा मूढा द्विजाः पण्डितमानिनः ॥४९॥

तदात्वमात्रश्रद्धेया शास्त्रज्ञानबहिष्कृताः ।
दाम्भिकास्ते भविष्यन्ति नरा ज्ञानविलोपिताः ॥५०॥

तथा विलुलिते धर्मे जनाः श्रेष्ठपुरस्कृताः ।
शुभान्समाचरिष्यन्ति दानशीलपरायणाः ॥५१॥

सर्वभक्षाः स्वयंगुप्ता निर्घृणा निरपत्रपाः ।
भविष्यन्ति तदा लोके तत्कषायस्य लक्षणम् ॥५२॥

कषायोपप्लवे काले ज्ञाननिष्ठाप्रणाशने ।
सिद्धिमल्पेन कालेन प्राप्स्यन्ति निरुपस्कृताः ॥५३॥

विप्राणां शाश्वतीं वृत्तिं यदा वर्णावरे जनाः ।
संश्रयिष्यन्ति भो विप्रास्तत्कषायस्य लक्षणम् ॥५४॥

महायुद्धं महावर्षं महावातं महातपः ।
भविष्यति युगे क्षीणे तत्कषायस्य लक्षणम् ॥५५॥

विप्ररूपेण यक्षांसि राजानः कर्णवेदिनः ।
पृथिवीमुपक्षोक्ष्यन्ति युगान्ते समुपस्थिते ॥५६॥

निःस्वाध्यायवषट्काराः सुनेतारोऽभिमानिनः ।
क्रव्यादा ब्रह्मरूपेण सर्वभक्ष्या वृथाव्रताः ॥५७॥

मूर्खाश्चार्थपरालुब्धाः क्षुद्राः क्षुद्रपरिच्छदाः ।
व्यवहारोपवृत्ताश्च च्युता धर्माश्च शाश्वतात् ॥५८॥

हर्तारः पररत्नानां परदारप्रधर्षकाः ।
कामात्मानो दुरात्मानः सोपधाः प्रियसाहसाः ॥५९॥

तेषु प्रभवमाणेषु जनेष्वपि च सर्वशः ।
अभाविनो भविष्यन्ति मुनयो बहुरूपिणः ॥६०॥

कलौ युगे समुत्पन्नाः प्रधानपुरुषाश्च ये ।
कथायोगेन तान्सर्वान्पूजयिष्यन्ति मानवाः ॥६१॥

सस्यचौरा भविष्यन्ति तथा चैलापहारिणः ।
भोक्ष्यभोज्यहराश्चैव करण्डानां च हारिणः ॥६२॥

चौराश्चौरस्य हर्तारो हन्ता हन्तुर्भविष्यति ।
चौरैश्चौरक्षये चापि कृते क्षेमं भविष्यति ॥६३॥

निः सारे क्षुभिते काले निष्क्रिये संव्यवस्थिते ।
नरा वनं श्रियत्यन्ति करभारप्रपीडिताः ॥६४॥

यज्ञकर्मण्युपरते रक्षांसि स्वापदानि च ।
कीटमूषिकसर्पाश्च धर्षयिष्यन्ति मानवान् ॥६५॥

क्षेमं सुभिक्षमारोग्यं सामग्य्रं चैव बन्धुषु ।
उद्देशेषु नराः श्रेष्ठा भविष्यन्ति युगक्षये ॥६६॥

स्वयंपालाः स्वयं चौराः प्लवसंभारसंभृताः ।
मण्डलैः संभविष्यन्ति देशे देशे पृथक्पृथक् ॥६७॥

स्वदेशेभ्यः परिभ्रष्टा निःसाराः सह बन्धुभिः ।
नराः सर्वे भविष्यन्ति तदा कालपरिक्षयात् ॥६८॥

ततः सर्वे समादाय कुमारान्प्रद्रुता भयात् ।
कौशिकीं संतरिष्यन्ति नराः क्षुद्‌भयपीडिताः ॥६९॥

अङ्गान्वङ्गान्कलिङ्गांश्च काश्मीरानथ कोशलान् ।
ऋषिकान्तगिरिद्रोणीः संश्रयिष्यन्ति मानवाः ॥७०॥

कृत्स्नं च हिमवत्पार्श्वं कूलं च लवणाम्भसः ।
विविधं जीर्णपत्रं च वल्कलान्यजिनानि च ॥७१॥

सव्यं कृत्वा निवत्स्यन्ति तस्मिन्भुते युगक्षये ।
अरण्येषु च वत्स्यन्ति नरा म्लेच्छगणैः सह ॥७२॥

नैव शून्या नवारण्या भविष्यति वसुंधरा ।
अगोप्ताश्च गोप्तारो भविष्यन्ति नराधिपाः ॥७३॥

मृगैर्मत्स्यैर्विहङ्गैश्च श्वापदैः सर्पकीटकैः ।
मधुशाकफलैर्मूलैर्वर्तयिष्यन्ति मानवाः ॥७४॥

शीर्णपर्णफलाहारा वल्कलान्यजिनानि च ।
स्वयं कृत्वा निवत्स्यन्ति यथा मुनिजनस्तथा ॥७५॥

बीजानामकृतस्नेहा आहताः काष्ठशङ्कुभिः ।
अजैडकं खरोष्ट्रं च पालयिष्यन्ति नित्यशः ॥७६॥

नदीस्रोतांसि रोत्स्यन्ति तोयार्थं कूलमाश्रिताः ।
पक्वान्नव्यवहारेण विपणन्तः परस्परम् ॥७७॥

तनूरुहैर्यताजातैः समालान्तरसंभृतैः ।
बह्‌वपत्याः प्रजाहीनाः कुलशीलविवर्जिताः ॥७८॥

एवं भविष्यन्ति तदा नराश्चाधर्मजीविनः ।
हीना हीनं तथा धर्मं प्रजा समनुवत्स्यति ॥७९॥

आयुस्तत्र च मर्त्यानां परं त्रिंशद्‌भविष्यति ।
दुर्बला विषयग्लाना जराशोकैरभिप्लुताः ॥८०॥

भविष्यन्ति तदा तेषां रोगैरिन्द्रियसंक्ष्यः ।
आयुः प्रत्ययसंरोधाद्विषयादु(यैरु)परंस्यते ॥८१॥

शुश्रूषवो भविष्यन्ति साधूनां दर्शने रताः ।
सत्यं च प्रतिपत्स्यन्ति व्यवहारोपसंक्षयात् ॥८२॥

भविष्यन्ति च कामानामलाभाद्धर्मशीलिनः ।
करिष्यन्ति च संस्कारं स्वयं च क्षयपीडिताः ॥८३॥

एवं सुक्षूषवो दाने सत्ये प्राण्यभिरक्षणे ।
ततः पादप्रवृत्ते तु धर्मे श्रेयो निपत्स्यते ॥८४॥

तेषां लब्धानुमानानां गुणेषु परिवर्तताम् ।
स्वादु किंत्विति विज्ञाय धर्म एव च दृश्यते ॥८५॥

यथा हानिक्रमं प्राप्तास्तथा ऋद्धिक्रमं गताः ।
प्रगृहीते ततो धर्मे प्रपश्यन्ति कृतं युगम् ॥८६॥

साधुवृत्तिः कतयुगे कषाये हानिरुच्यते ।
एक एव तु कालोऽयं हीनवर्णो यथा शशी ॥८७॥

छन्नश्च तमसा सोमो यथा कलियुगं तथा ।
मुक्तश्च तमसा सोम एवं कृतयुगं च तत् ॥८८॥

अर्थवादः परं ब्रह्म वेदार्थ इति तं विदुः ।
अविविक्तमविज्ञातं दायाद्यमिह धार्यते ॥८९॥

इष्टवादस्तपो नाम तपो हि स्थविरीकृतः ।
गुणैः कर्माभिनिर्वृत्तिर्गुणाः शुध्यन्ति कर्मणा ॥९०॥

आशीस्तु पुरुषं दृष्ट्वा देशकालानुवर्तिनी ।
युगे युगे यथा कालमृषिभिः समुदाहृता ॥९१॥

धर्मार्थकाममोक्षाणां देवानां च प्रतिक्रिया ।
आशिषश्च शिवाः पुण्यास्तथैवाऽऽयुर्युगे युगे ॥९२॥

तथा युगानां परिवर्तनानि, चिरप्रवृत्तानि विधिस्वभावात् ।
क्षणं न संतिष्ठति जीवलोकः, श्रयोदयाभ्यां परिवर्तमानः ॥९३॥

इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे भविष्यकथनं नाम एक त्रिंशदधिकद्विशततमोऽध्यायः ॥२३१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:46.3970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

प्रोति (कौशांबेय), प्रोति (कौसुरुबिन्दि)

  • n. एक आचार्य, जो उद्दालक ऋषि का शिष्य और उसका समकालीन था [श.ब्रा.१२.२.२.१३] । गोपथ ब्राह्मण में इसे ‘प्रेदि कौशाम्बेय कौसुरविन्द’ कहा गया है [गो. ब्रा.१.२.२४] । किसी कुसुरुविन्द का वंशज होने के कारण, इसे यह नाम प्राप्त हुआ होगा । तैत्तिरीय संहिता में इसे औद्यालकि (उद्दालक का वंशज) कहा गया है [तै.सं.७.२.२.१] । इससे प्रतीत होता है कि, इसके पैतृक नाम एवं समकालीनता से सम्बन्धित वक्तव्यों को अधिक महत्त्व न देना चाहिये । 
RANDOM WORD

Did you know?

"Maruti namaskar"
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site