TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १६९

ब्रह्मपुराणम् - अध्यायः १६९

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १६९
भिल्लतीर्थवर्णनम्
ब्रह्मोवाच
भिल्लतीर्थमिति ख्यातं रोगघ्नं पापनाशनम् ।
महादेवपदाम्भोजयुगभक्तिप्रदायकम् ॥१॥

तत्राप्येवंविधां पुण्यां कथां श्रृणु महामते ।
गङ्गाया दक्षिणे तीरे श्रीगिरेरुत्तरे तटे ॥२॥

आदिकेश इति ख्यात ऋषिभिः परिपूजितः ।
महादेवा लिङ्रूपी सदाऽऽस्ते सर्वकामदः ॥३॥

सिन्धुद्वीप इति ख्यातो मुनिः परमधार्मिकः ।
तस्य भ्राता वेद इति स चापि परमो ऋषिः ॥४॥

तमादिकेशं वै देवं त्रिपुरारिं त्रिलोचनम् ।
नित्यं पूजयते भक्त्या प्राप्ते मध्यन्दिने रवौ ॥५॥

भिक्षाटनाय वेदोऽपि याति ग्रामं विचक्षणः ।
याते तस्मिन्द्विजवरे व्याधः परमधार्मिकः ॥६॥

तस्मिन्गिरिवरे पुण्ये मृगयां याति नित्यशः ।
अटित्वा विविधान्देशान्मृगान्हत्वा यथासुखम् ॥७॥

मुखे गृहीत्वा पानीयमभिषेकाय शूलिनः ।
न्यस्य मांसं धनुष्कोट्यां श्रान्तो व्याधः शिवं प्रभुम् ॥८॥

आदिकेशं समागत्य न्यस्य मांसं ततो बहिः ।
गङ्गां गत्वा मुखे वारिगृहीत्वाऽऽगत्य तं शिवम् ॥९॥

यस्य कस्यापि पत्राणि करेणाऽऽदाय भक्तितः ।
अपरेण च मांसानि नैवेद्यार्थं च तन्मनाः ॥१०॥

आदिकेशं समागत्य वेदेनार्चितमोजसा ।
पादेनाऽऽहत्य तां पूजां मुखानीतेन वारिणा ॥११॥

स्नापयित्वा शिवंदेवमर्चयित्वा तु पत्रकैः ।
कल्पयित्वा तु(समर्पयति)तन्मांसं शिवो मे प्रीयतामिति ॥१२॥

नैव किंचित्स जानाति शिवभक्तिंविना शुभाम् ।
ततो याति स्वकं स्थानं मांसेन तु यथागतम् ॥१३॥

करोत्येतादृ गागत्याऽऽगत्य प्रत्यहमेव सः ।
तथाऽपीशस्तुतोषास्य विचित्रा हीश्वरस्थितिः ॥१४॥

यावन्नायात्यसौ भिल्लः शिवस्तावन्न सौख्यभाक् ।
भक्तानुकम्पितां शंभोर्मानातीतां तु वेत्ति कः ॥१५॥

संपूजयत्यादिकेशमुमया प्रत्यहं शिवम् ।
एवं बहुतिथे काले याते वेदश्चुकोप ह ॥१६॥

पूजां मन्त्रवतीं चित्रां शिवभक्तिसमन्विताम् ।
कोनु विध्वंसते पापो मत्तः स वधमाप्नुयात् ॥१७॥

गुरुदेवद्विजस्वामिद्रोही वध्यो मुनेरपि ।
सर्वस्यापि वधार्होऽसौ शिवस्य द्रोहकृन्नरः ॥१८॥

एवं निश्चित्य मेधावी वेदः सिन्धोस्तथाऽनुजः ।
कस्येयं पापचेष्टा स्यात्पापिष्ठस्य दुरात्मनः ॥१९॥

पुष्पैर्वन्यभवैर्दिव्यैः कन्दैर्मूलफलैः शुभैः ।
कृतां पूजां स विध्वस्य ह्यन्यां पूजां करोति यः ॥२०॥

मांसेन तरुपत्रैश्च स च वध्यो भवेन्मम ।
एवं संचिन्त्य मेधावी गोपयित्वा तनुं तदा ॥२१॥

तं पश्येयमहं पापं पूजाकर्तारमीश्वरे ।
एतस्मिन्नन्तरे प्रायाद्व्याधो देवं यथा पुरा ॥२२॥

नित्यवत्पूजयन्तं तमादिकेशस्तदाऽब्रवीत् ॥२३॥

आदिकेश उवाच
भो भो व्याध महाबुद्धे श्रान्तोऽसीति पुनः पुनः ।
चिराय कथमायात्स्त्वां विना तात दुःखितः ॥
न विन्दामि सुखं किंचित्समाश्वसिहि पुत्रक ॥२४॥

ब्रह्मोवाच
तमेवं वादिनं देवं वेदः श्रुत्वा विलोक्य तु ।
चुकोप विस्मयाविष्टो न च किंचिदुवाच ह ॥२५॥

व्याधश्च नित्यवत्पूजां कृत्वा स्वभवनं ययौ ।
वेदश्च कुपितो भूत्वा आगत्येशमुवाच ह ॥२६॥

वेद उवाच
अयं व्याधः पापरतः क्रियाज्ञानविवर्जितः ।
प्राणिहिंसारतः क्रूरो निर्दयः सर्वजन्तुषु ॥२७॥

हीनजातिरकिंचिज्ज्ञो गुरुक्रमविवर्जितः ।
सदाऽनुचितकारी चानिर्जिताखिलगोगणः ॥२८॥

तस्याऽऽत्मानं दर्शितवान्न मां किंचन वक्ष्यसि ।
पूजां मन्त्रविधानेन करोमीश यतव्रतः ॥२९॥

त्वदेकशरणो नित्यं भार्यापुत्रविवर्जितः ।
व्याधो मांसेन दुष्टेन पूजां तव करोत्यसौ ॥३०॥

तस्य प्रसन्नो भगवान्न ममेति महाद्‌भुतम् ।
शास्तिमस्य करिष्यामि भिल्लस्य ह्यपकारिणः ॥३१॥

मृदोः कोऽपि भवेत्प्रीतः कोऽपि तद्वद्‌दुरात्मनः ।
तस्मादहं मूर्ध्नि शिलः पातयेयमसंशयम् ॥३२॥

ब्रह्मोवाच
इत्युक्तवति वै वेदे विहस्येशोऽब्रवीदिदम् ॥३३॥

आदिकेश उवाच
श्वः प्रतीक्षस्व पश्चान्मे शिला पातय मूर्धनि ॥३४॥

ब्रह्मोवाच
तथेत्युक्त्वा स वेदोऽपि शिलां संत्यज्य बाहुना ।
उपसंहृत्य तं कोपं श्वः करोमीत्युवाच ह ॥३५॥

ततः प्रातः समागत्य कृत्वा स्नानादिकर्म च ।
वेदोऽपि नित्यवत्पूजां कुर्वन्पश्यति मस्तके ॥३६॥

लिङ्गस्य सव्रणां भीमां धारां च रुधिरप्लुताम् ।
वेदः स विस्मितो भूत्वा किमिदं लिङ्गमूर्धनि ॥३७॥

महोत्पातो भवेत्कस्य सूचयेदित्यचिन्तयत् ।
मृद्‌भिश्च गोमयेनापि कुशैस्तं गाङ्वारिभिः ॥३८॥

प्रक्षालयित्वा तां पूजां कृतवान्नित्यवत्तदा ।
एतस्मिन्नन्तरे प्रायाद्‌व्याधो विगतकल्मषः ॥३९॥

मूर्धानं व्रणसंयुक्तं सरक्तं लिङ्गमस्तके ।
शंकरस्याऽऽदिकेशस्य ददृशेऽन्तर्गतस्तदा ॥४०॥

द्वष्ट्वैव किमिदं चित्रमित्युक्ताव निशितैः शरैः ।
आत्मानं भेदयामास शतधा च सहस्रधा ॥४१॥

स्वामिनो वैकृतं दृष्ट्वा कः क्षमेतोत्तमाशयः ।
मुहुर्निनिन्द चाऽऽत्मानं मयि जीवत्यभूदिदम् ॥४२॥

कष्टमापतितं कीदृगहो दुर्विधिवैशसात् ।
तत्कर्म तस्य संवीक्ष्य महादेवोऽतिविस्मितः ॥
ततः प्रोवाच भगवान्वेदं वेदविदां वरम् ॥४३॥

आदिकेश उवाच
पश्य व्याधं महाबुद्धे भक्तं भावेन संयुतम् ।
त्वं तु मृद्‌भिः कुशैर्वार्भिर्मूर्धानं स्पृष्टवानसि ॥४४॥

अनेन सहसा ब्रह्मन्ममाऽऽत्माऽपि निवेदितः ।
भक्तिः प्रेमाथवा शक्तिर्विचारो यत्र विद्यते ॥
तस्मादस्मै वरान्दास्ये पश्चात्तुभ्यं द्विजोत्तम ॥४५॥

ब्रह्मोवाच
वरेण च्छन्दयामास व्याधं देवो महेश्वरः ।
व्याधः प्रोवाच देवेशं निर्माल्यं तव यद्भवेत् ॥४६॥

तदस्माकं भवेन्नाथ मन्नाम्ना तीर्थमुच्यताम् ।
सर्वक्रतुफलं तीर्थं स्मरणादेव जायताम् ॥४७॥

ब्रह्मोवाच
तथेत्युवाच देवेशस्ततस्तत्तीर्थमुत्तमम् ।
भिल्लतीर्थं समस्ताघसंघविच्छेदकारणम् ॥४८॥

श्रीमहादेवचरणमहाभक्तिविधायकम् ।
अभवत्स्नानदानाद्यैर्भुक्तिमुक्तिप्रदायकम् ॥
वेदस्यापि वरान्प्रादाच्छिवो नानाविधान्बहून् ॥४९॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये भिल्लतीर्थमहिमवर्णनं नामैकोनसप्तत्यधिकशततमोऽध्यायः ॥१६९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:43.1630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Did you know?

सोळा वर्षाखालील मुलांना शनिची साडेसाती कां त्रस्त करत नाही?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.