संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १७

ब्रह्मपुराणम् - अध्यायः १७

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


स्यमन्तकोपाख्यानवर्मनम्
लोमहर्षण उवाच
यत्तु सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम् ।
ददावहारयद्‌बभ्रुर्भोजेन शतधन्वना ॥१॥

सदा हि प्रार्थयामास सत्यभामामनिन्दिताम् ।
अक्रूरोऽन्तरमन्विषयन्मणिं चैव स्यमन्तकम् ॥२॥

सत्राजितं ततो हत्वा शतधन्वा महाबलः ।
रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान् ॥३॥

अक्रूरस्तु तदा विप्रा रत्नमादाय चोत्तमम् ।
समयं कारयाञ्चक्रे नावेद्योऽहं त्वयेत्युत ॥४॥

वयमभ्युत्‌प्रपत्‌स्यामः कृष्णेन त्वां प्रधर्षितम् ।
ममाद्य द्वारका सर्व्व वसे तिष्ठत्यसंशयम् ॥५॥

हते पितरि दुःखार्त्ता सत्यभामा मनस्विनी ।
प्रययौ रथमारुह्य नगरं वारणावतम् ॥६॥

सत्यभामा तु तद्‌वृत्तं भोजस्य शतधन्वनः ।
भर्त्तुर्निवेद्य दुःखार्त्ता पार्श्वस्थाश्रूण्यवर्त्तयत् ॥७॥

पाण्डवानां च दग्धानां हरिः कृत्वोदकक्रियाम् ।
कुल्यार्थे चापि पाण्डूनां न्ययोजयत सात्यकिम् ॥८॥

ततस्त्वरितमागम्य द्वारकां मधुसूदनः ।
पूर्व्वजं हलिनं श्रीमानिदं वचनमब्रवीत् ॥९॥

श्रीकृष्ण उवाच
हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना ।
स्यमन्तकस्तु मद्गामी तस्य प्रभुरहं विभो ॥१०॥

तदारोह रथं शीघ्रं भोजं हत्वा महारथम् ।
स्यमन्तको महाबाहो अस्माकं स भविष्यति ॥११॥

लोमहर्षण उवाच॥
ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः ।
शतधन्वा ततोऽक्रूरं सर्व्वतोदिशमैक्षत ॥१२॥

संरब्धौ तावुभौ तत्र दृष्ट्वा भोजजनार्दनौ ।
शक्तोऽपि सापाद्धार्दिक्यमक्रूरो नान्वपद्यत ॥१३॥

अपयाने ततो बुद्धिं भोजश्चक्रे भयार्दितः ।
योजनानां शतं साग्रं हृदया प्रत्यपद्यत ॥१४॥

विख्याता हृदया नाम शतयोजनगामिनी ।
भोजस्य वडवा विप्रा यया शतधन्वानमद्‌र्दयत्  ॥१५॥

क्षीणां जवेन हृदयामध्वनः शतयोजने ।
दृष्ट्वा रथस्य स्वां वृद्धिं शतधन्वानमद्‌र्दयत् ॥१६॥

ततस्तस्या हतायास्तु श्रमात् खेदाच्च भो द्विजाः ।
खमुत्पेतुरथ प्राणाः कुष्णो राममथाब्रवीत् ॥१७॥

श्रीकृष्ण उवाच॥
तिष्ठेह त्वं महाबाहो दृष्टदोषा हया मया ।
पद्‌भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ॥१८॥

पद्‌भ्यामेव ततो गत्वा शतधन्वानमच्युतः ।
मिथिलामभितो विप्रा जघान परमास्त्रवित् ॥१९॥

स्यमन्तकं च नापश्यद्धत्वा भोजं महाबलम् ।
निवृत्तं चाब्रवीत् कृष्णं मणिं चदेहीति लाङ्गली ॥२०॥

नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः ।
धिक्‌शब्दपूर्व्वमसकृत् प्रत्युवाच जनाद्‌र्दनम् ॥२१॥

बलराम उवाच
भ्रातृत्वान्मर्षयाम्येष स्वस्ति तेऽस्तु व्रजाम्यहम् ।
कृत्यं न मे द्वारकया नत्वया न च वृष्णिभिः ॥२२॥

प्रविवेश ततो रामो मिथिलामरिमद्‌र्दनः ।
सर्व्वकामैरुपहृतैर्मिथिलेनाभिपूजितः ॥२३॥

एतस्मिन्नेव काले तु बभ्रुर्मतिमतां वरः ।
नानारूपान् क्रतून् सर्व्वानाजहार निरर्गलान् ॥२४॥

दीक्षामयं स कवचं रक्षार्थं प्रविवेश ह ।
स्यमन्तककृते प्राज्ञो गान्दीपुत्रो महायशा ॥२५॥

अथ रत्नानि चान्यानि धनानि विविधानि च ।
षष्टिं वर्षाणि धर्म्मात्मा यज्ञेष्वेव न्ययोजयत् ॥२६॥

अक्रूरयज्ञा इति ते ख्यातास्तस्य महात्मनः ।
बह्वन्नदक्षिणाः सर्व्वे सर्व्वकामप्रदायिन ॥२७॥

अथ दुर्य्योधनो राजा गत्वा स मिथिलां प्रभुः ।
गदाशिक्षां ततो दिव्यां बलदेवादवाप्तवान् ॥२८॥

सप्प्रसाद्य ततो रामो वृष्णयन्धकमहार्थैः ।
आनीतो द्वारकामेव कृष्णेन च महात्मना ॥२९॥

अक्रूरश्चान्धकैः सार्द्धमायातः पुरुषर्षभः ।
हत्वा सत्राजितं सुप्तं सहबन्धुं महाबलः ॥३०॥

ज्ञातिभेदभयात्कृषणस्तमुपेक्षितवांस्तदा ।
अपयाते तदाक्रूरे नावर्षत्पाकशासनः ॥३१॥

अनावृष्ट्या तदा राष्ट्रमभवद्बहुधा कृशम् ।
ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः ॥३२॥

पुनर्द्वारवतीं प्राप्ते तस्मिन् दानपतौ ततः ।
प्रववर्ष सहस्राक्षः कक्षे जलनिधेस्तदा ॥३३॥

कन्यां च वासुदेवाय स्वसारं शीलसम्मताम् ।
अक्रूरः प्रददौ धीमान् प्रीत्यर्थ मुनिसत्तमाः ॥३४॥

अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम् ।
सभामध्यगतः प्राह तमक्रूरं जनद्‌र्दनः ॥३५॥

श्रीकृष्ण उवाच
यत्तद्रत्नं मणिवरं तव हस्तगतं विभो ।
तत्प्रयच्छ च मानार्ह मयि मानार्य्यकं कृथाः ॥३६॥

षष्टिवर्षगते काले यो रोषोऽभून्ममानघ ।
स संरुढोऽसकृत् प्राप्तस्ततः कालात्ययो महान् ॥३७॥

स ततः कृष्णवचनात् सर्व्वसात्तवतसंसदि ।
प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः ॥३८॥

ततस्तमार्जवात् प्राप्तं बभ्रोर्हस्तादरिन्दमः ।
ददौ हृष्टमनाः कृष्णस्तं मणिं बभ्रवे पुनः ॥३९॥

स कृष्णहस्तान् सम्प्राप्तं मणिरत्नं स्यमन्तकम् ।
आबध्य गान्दिनीपुत्रो विरराजशुंमानिव ॥४०॥

इति श्रब्राह्मे महापुराणे सोमवंशकथनं नाम सप्तदशोऽध्यायः॥१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP