संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ९६

ब्रह्मपुराणम् - अध्यायः ९६

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ षण्णवतितमोऽध्यायः
पुण्यासिक्तासंगमेन्द्रतीर्थादिसप्तसहस्रतीर्थवर्णनम्
ब्रह्मोवाच
इन्द्रतीर्थमिति ख्यातं ब्रह्महत्याविनाशनम् ।
स्मरणादपि पापौघक्लेशसंघविनाशनम् ॥१॥

पुरा वृत्रवधे वृत्ते ब्रह्महत्या तु नारद ।
शचीपतिं चानुगता तां दृष्ट्वा भीतवद्धरिः ॥२॥

इन्द्रस्ततो वृत्रहन्ता इतश्चेतश्च धावति ॥
यत्र यत्र त्वसौ याति हत्या साऽपीन्द्रगामिनी ॥३॥

स महत्सर आविश्य पद्मनालमुपागमत् ।
तत्रासौ तन्तुवद्भूत्वा वासं चक्रे शचीपतिः ॥४॥

सरस्तीरेऽपि हत्याऽऽसीद्दिव्यं वर्षंसहस्रकम् ।
एतस्मिन्नन्तरे देवा निरिन्द्रा ह्यभवन्मुने ॥५॥

मन्त्रयामासुरव्यग्राः कथमिन्द्रो भवेदिति ।
तत्राहमवदं देवान्हत्यास्थानं प्रकल्प्य च ॥६॥

इन्द्रस्य पावनार्थाय गौतम्यामभिषिच्यताम् ।
यत्राभिषिक्तः पूतात्मा पुनरिन्द्रो भविष्यति ॥७॥

तथा ते निश्चयं कृत्वा गौतमीं शीघ्रमागमन् ।
तत्र स्नातं सुरपतिं देवाश्च ऋषयस्तथा ॥८॥

अभिषेक्तुकामास्ते सर्वे शचीकान्तं च तस्थिरे ।
अभिषिच्यमानमिन्द्रं तं प्रकोपाद् गौतमोऽब्रवीत् ॥९॥

गौतम उवाच
अभिषेक्ष्यन्ति पापिष्ठं महेन्द्रं गुरुतल्पगम् ।
तान्सर्वान्भस्मसात्कुर्यां शीघ्रं यान्त्वसुरारयः ॥१०॥?

ब्रह्मोवाच
तदुषेर्वचनं श्रुत्वा परिहृत्य च गौतमीम् ।
नर्मदामगमन्सर्व इन्द्रमादाय सत्वराः ॥११॥

उत्तरे नर्मदातीरे अभिषेकाय तस्थिरे ॥
अभिषेक्ष्यमाणमिन्द्रं तं माण्डव्यो भगवानृषिः ॥१२॥

अब्रवीद्भस्मसात्कुर्यां यदि स्यादभिचनम् ।
पूजयामासुरमरा माण्डव्यं युक्तिभिः स्तवैः ॥१३॥

देवा ऊचुः
अयमिन्द्रः सहस्राक्षो यस्मिन्देशेऽभिषिच्यते ।
तत्रातिदारुणं विघ्नं मुने समुपजायते ॥१४॥

तच्छान्तिं कुरु कल्याण प्रसीद वरदो भव ।
मलनिर्यातनं यस्मिन्कुर्मस्तस्मिन्वरान्बहून् ॥१५॥

देशे दास्यामहे सर्वे तदनुज्ञातुर्महसि ।
यस्मिन्देशे सुरेन्द्रस्य अभिषेको भविष्यति ॥१६॥

स सर्वकामदः पुंसां धान्यवृक्षफलैर्युतः ।
नानावृष्टिर्नदुर्भिक्षं भवेदत्र कदाचन ॥१७॥

ब्रह्मोवाच
मेने ततो मुनिश्रेष्ठो माण्डव्यो लोकपूजितः ।
अभिषेकः कृतस्तत्र मलनिर्यातनं तथा ॥१८॥

देवैस्तदोक्तो मुनिभिः स देशो मालवस्ततः ।
अभिषिक्ते सुरपतौ जाते च विमले तदा ॥१९॥

आनीय गौतमीं मङ्गं तं पुण्यायाभिषेचिरे ।
सुराश्च ऋषयश्चैव अहं विष्णुस्तथैव च ॥२०॥

वशिष्ठो गौतमश्चापि अगस्त्योऽत्रिश्च कस्यपः ।
एते चान्ये च ऋषयो देवा यक्षाः सपन्नगाः ॥२१॥

स्नानं तत्पुण्यतोयेन अकुर्वन्नभिषेचनम् ।
मया पुनः शचीभर्ता कमण्डलुभवेन च ॥२२॥

वारिणाऽप्यभिषिक्तश्च तत्र पुण्याऽभवन्नदी ॥
सिक्ता चेति च तत्राऽऽसीत्ते गङ्गायां च संगते ॥२३॥

संगमौ तत्र विख्यातौ सर्वदा मुनिसेवितौ ।
ततः प्रभृति तत्तीर्थं पुण्यासंगममुच्यते ॥२४॥

सिक्तायाः संगमे पुण्यमैन्द्रं तदभिधीयते ।
तत्र सप्त सहस्राणि तीर्थान्यासञ्शुभानि च ॥२५॥

तेषु स्नानं च दानं च विशेषेण तु संगमे ।
सर्वं तदक्षयं विद्यान्नात्र कार्या विचारणा ॥२६॥

यदेतत्पुण्यमाख्यानं यः पठेच्च शृणोति वा ।
सर्वपापैः स मुच्येते मनोवाक्कायकर्मजैः ॥२७॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये पुण्यासिक्तासंगमेन्द्रतीर्थादिसप्तसहस्रतीर्थवर्णनं नाम षण्णावतितमोऽध्यायः ॥९६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP