TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २२२

ब्रह्मपुराणम् - अध्यायः २२२

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २२२
वर्णाश्रमधर्मवर्णनम्
मुनय ऊचुः
श्रोतुमिच्छामहे ब्रह्मन्वर्णधर्मान्विशेषतः ।
चतुराश्रमधर्मांश्च द्विजवर्य ब्रवीहि तान् ॥१॥

व्यास उवाच
ब्राह्मणक्षत्रियविशां शूद्राणां च यथाक्रमम् ।
श्रृणुध्वं संयता भूत्वा वर्णधर्मान्मयोदितान् ॥२॥

दानदयातपोदेवयज्ञस्वाध्यायतत्परैः ।
नित्योदकी भवेद्विप्रः कुर्याच्चाग्निपरिग्रहम् ॥३॥

वृत्त्यर्थं याजयेत्त्वन्यान्द्विजानध्यापयेत्तथा ।
कुर्यात्प्रतिग्रहादानं यज्ञार्थं ज्ञानतो द्विजाः ॥४॥

सर्वलोकहितं कुर्यान्नाहितं कस्यचिद्द्विजाः ।
मैत्री समस्तसत्त्वेषु ब्राह्मणस्योत्तमं धनम् ॥५॥

गवि रत्ने च पारक्ये समबुद्धिर्भवेद्द्विजाः ।
ऋतावभिगमः पत्न्यां शस्यते वाऽस्य भो द्विजाः ॥६॥

दानानि दद्यादिच्छातो द्विजेभ्यः क्षत्रियोऽपि हि ।
यजेच्च विविधैर्यज्ञैरधीयीत च भो द्विजाः ॥७॥

शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका ।
तस्यापि प्रथमे कल्पे पृथिवीपरिपालनम् ॥८॥

धरित्रीपालनेनैव कृतकृत्या नराधिपाः ।
भवन्ति नृपते रक्षा यतो यज्ञादिकर्मणाम् ॥९॥

दुष्टानां शासनाद्राजा शिष्टानां परिपालनात् ।
प्राप्नोत्यभिमतांल्लोकान्वर्णसंस्थापको नृपः ॥१०॥

पाशुपाल्यं वणिज्यां च कृषिं च मुनिसत्तमाः ।
वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः ॥११॥

तस्याप्यध्ययनं यज्ञो दानं धर्मश्च शस्यते ।
नित्यनैमित्तिकादीनामनुष्ठानं च कर्मणाम् ॥१२॥

द्विजातिसंश्रयं कर्म तदर्थं तेन पोषणम् ।
क्रयविक्रयजैर्वाऽपि धनैः कारुभवैस्तु वा ॥१३॥

दानं दद्याच्च शूद्रोऽपि पाकयज्ञैर्यजेत च ।
पित्र्यादिकं च वै सर्वं शूद्रः कुर्वीत तेन वै ॥१४॥

भृत्यादिभरणार्थाय सर्वेषां च परिग्रहाः ।
ऋतुकालाभिगमनं स्वदारेषु द्विजोत्तमाः ॥१५॥

दया समस्तभूतेषु तितिक्षा नाभिमानिता ॥
सत्यं शौचमनायासो मङ्गलं प्रियवादिता ॥१६॥

मैत्री चैवास्पृहा तद्वदकार्पण्यं द्विजोत्तमाः ॥
अनसूया च सामान्या वर्णानां कथिता गुणाः ॥१७॥

आश्रमाणां च सर्वेषामेते सामान्यलक्षणाः ।
गुणास्तथोपधर्माश्च विप्रादीनामिमे द्विजाः ॥१८॥

क्षात्रं कर्म द्विजस्योक्तं वैश्यकर्म तथाऽऽपदि ।
राजन्यस्य च वैश्योक्तं शूद्रकर्माणि चैतयोः ॥१९॥

स(अ)सामर्थ्ये सति त्याज्यमुभाभ्यामपि च द्विजाः ।
तदेवाऽऽपदि कर्तव्यं न कुर्यात्कर्मसंकरम् ॥२०॥

इत्येते कथिता विप्रा वर्णधर्मा मयाऽद्य वै ।
धर्ममाश्रमिणां सम्यग्ब्रुवतोऽपि निबोधत ॥२१॥

बालः कृतोपनयनो वेदाहरणतत्परः ।
गुरोर्गेहे वसन्विप्रा ब्रह्मचारी समाहितः ॥२२॥

शौचाचाररतस्तत्र कार्यं शुश्रूषणं गुरोः ।
व्रतानि चरता ग्राह्ये वेदश्च कृतबुद्धिना ॥२३॥

उभे संध्ये रविं विप्रास्तथैवाग्निं समाहितः ।
उपतिष्ठेत्तथा कुर्याद्गुरोरप्यभिवादनम् ॥२४॥

स्थिते तिष्ठेद्वव्रजेद्याति नीचैरासीत चाऽऽसिते ।
शिष्यो गुरौ द्विजश्रेष्ठाः प्रतिकूलं च संत्यजेत् ॥२५॥

तेनैवोक्तं पठेद्वेदं नान्यचित्तः पुरस्थितः ।
अनुज्ञातं च भिक्षान्नमश्नीयाद्‌गुरुणा ततः ॥२६॥

अवगाहेदपः पूर्वमाचार्येणावगाहिताः ।
समिज्जलादिकं चास्य कल्पकल्पमुपानयेत् ॥२७॥

गृहीतग्राह्यवेदश्च ततोऽनुज्ञामवाप्य वै ।
गार्हस्थ्यकार्यमखिलं कुर्याद्विप्राः स्वशक्तितः ॥२८॥

विधिनाऽवाप्तदारस्तु धनं प्राप्य स्वकर्मणा ।
गृहस्थकार्यमखिलं कुर्याद्विप्राः स्वशक्तितः ॥२९॥

निर्वापेण पितॄनर्त्य यज्ञैर्दैवास्तथाऽतिथीन् ।
अन्नैर्मुनींश्च स्वाध्यायैयपत्येन प्रजापतिम् ॥३०॥

बलिकर्मणा भूतानि वाक्सत्येनाखिलं जगत् ।
प्राप्नोति लोकान्पुरुषो निजकर्मसमार्जितान् ॥३१॥

भिक्षाभुजश्च ये केचित्परिव्राड्ब्रह्मचारिणः ।
तेऽप्यत्र प्रतितिष्ठन्ति गार्हस्थ्यं तेन वै परम् ॥३२॥

वेदाहरणकार्येण तीर्थस्नानाय च द्विजाः ।
अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च ॥३३॥

अनिकेता ह्यनाहारा ये तु सायं गृहास्तु ते ।
तेषां गृहस्थः सततं प्रतिष्ठा योनिरुच्यते ॥३४॥

तेषां स्वागतदानानि वक्तव्यं मधुरं सदा ।
गृहागतानां दद्याच्च शयनासनभोजनम् ॥३५॥

अतिथिर्यस्य भग्नोशो गृहात्प्रतिनिवर्तते ।
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥३६॥

अवज्ञानमहंकारो दम्भश्चापि गृहे सतः ।
परिवादोपघातौ च पारुष्यं च न शस्यते ॥३७॥

यश्च सम्यक्करोत्येवं गृहस्थः परमं विधिम् ।
सर्वबन्धविनिर्मुक्तो लोकानाप्नोति चोत्तमान् ॥३८॥

वयः परिणतौ विप्राः कृतकृत्यो गृहाश्रमी ।
पुत्रेषु भार्यां निक्षिप्त वनं गच्छेत्सहैव वा ॥३९॥

पर्णमूलफलाहारः केशश्मश्रुजटाधरः ।
भूमिशायि भवेत्तत्र मुनिः सर्वातिथिर्द्विजाः ॥४०॥

चर्मकाशकुशैः कुर्यात्परिधानोत्तरीयके ।
तद्वत्त्रिषवणं स्नानं शस्तमस्य द्विजोत्तमाः ॥४१॥

देवताभ्यर्चनं होमः सर्वाभ्यागतपूजनम् ।
भिक्षा बलिप्रदानं तु शस्तमस्य प्रशस्यते ॥४२॥

वन्यस्नेहेन गात्रणामभ्यङ्गश्चापि शस्यते ।
तपस्या तस्य विप्रेन्द्राः शीतोष्णादिसहिष्णुता ॥४३॥

यस्त्वेता नियतश्चर्या वानप्रस्थश्चरेन्मुनिः ।
स दहत्यग्निवद्‌दोषाञ्जयेल्लोकांश्च शाश्वतान् ॥४४॥

चतुर्थश्चाऽऽश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः ।
तस्य स्वरूपं गदतो बुद्धयध्वं मम सत्तमाः ॥४५॥

पुत्रद्रव्यकलत्रेषु त्यजेत्स्नेहं द्विजोत्तमाः ।
चतुर्थमाश्रमस्थानं गच्छेन्निर्धूतमत्सरः ॥४६॥

त्रैवर्णिकांस्त्यजेत्सर्वानारम्भान्द्विजसत्तमाः ।
मित्रादिषु समो मैत्राः समस्तेष्वेव जन्तुषु ॥४७॥

जरायुजाण्डजादीनां वाङ्मनःकर्मभिः क्वचित् ।
युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश्च वर्जयेत् ॥४८॥

एकरात्रस्थितर्ग्रामे पञ्चरात्रस्थितिः पुरे ।
तथा प्रीतिर्न तिर्यक्षु द्वेषा वा नास्य जायते ॥४९॥

प्राणयात्रानिमित्तं च व्यङ्गारेऽभुक्तवज्जने ।
काले प्रशस्तवर्णानां भिक्षार्थी पर्यटेद्‌गृहान् ॥५०॥

अलाभे न विषादी स्याल्लाभे नैव च हर्षयेत् ।
प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ॥५१॥

अतिपूजितलाभांस्तु जुगुप्सं चै(प्सेच्चै)व सर्वतः ।
अतिपूजितलाभैस्तु यतिर्मुक्तोऽपि बध्यते ॥५२॥

कामः क्रोधस्तथा दर्पो लोभमोहादयश्च ये ।
तांस्तु दोषान्परित्यज्य परिव्राण्निर्ममो भवेत् ॥५३॥

अभयं सर्पसत्त्वेभ्यो दत्त्वा यश्चरते महीम् ।
तस्य देहाद्विमुक्तस्य भयं नोत्पद्यते क्वचित् ॥५४॥

कृत्वाऽग्निहोत्रं स्वशरीरसंस्थं, शरीरमग्निं स्वमुखे जुहोति ।
विप्रस्तु भिक्षोपगतैर्हविर्भिश्चिताग्निना स व्रजति स्म लोकान् ॥५५॥

मोक्षाश्रमं यश्चरते यथोक्तं, शुचिश्च संकल्पितबुद्धियुक्तः ।
अनिन्धनं ज्योतिरिव प्रशान्तं, स ब्रह्मलोकं व्रजति द्विजातिः ॥५६॥

इति श्रीमहापुराणे आदिब्राह्मे व्यासब्राह्मे व्यासर्षिसंवादे वर्णाश्रमधर्मवर्णनं नाम द्वाविंशत्यधिकद्विशततमोऽध्यायः ॥२२२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:45.9130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

orgy

  • उच्छृंखल उत्सव, हैदोस 
RANDOM WORD

Did you know?

लग्न ठरवितांना पत्रिका पाहणे किती योग्य आहे? पत्रिका पाहूनही कांही विवाह अयशस्वी कां होतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.