संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ६०

ब्रह्मपुराणम् - अध्यायः ६०

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ षष्टितमोऽध्यायः
समुद्रस्नानविधिवर्णनम्
ब्रह्मोवाच
श्वेतमाधवमालोक्य समीपे मत्स्यमाधवम् ।
एकार्णवजले पूर्वं रोहितं रूपमास्थितम् ॥१॥

वेदानां हरणार्थाय रसातलतले स्थितम् ।
चिन्तयित्वा क्षितिं सम्यक्तस्मिन्स्थाने प्रतिष्ठितम् ॥२॥

आद्यावतरणं रूपं माधवं मत्स्यरूपिणम् ।
प्रणम्य प्रणतो भूत्वा सर्वदुःखाद्विमुच्यते ॥३॥

प्रयाति परमं स्थानं यत्र देवो हरिः स्वयम् ।
काले पुनरिहाऽऽयातो राजा स्यात्पृथिवीतले ॥४॥

वत्समाधवमासाद्य दुराधर्षो भवेन्नरः ।
दाता भोक्ता भवेद्यज्वा वैष्णवः सत्यसंगरः ॥५॥

योगं प्राप्य हरेः पश्चात्ततो मोक्षमवाप्नुयात् ।
मत्स्यमाधवमाहात्मयं मया संपरिकीर्तितम्॥
यं दृष्ट्वा मुनिशार्दूलाः सर्वान्कामानवाप्नुयात् ॥६॥

मुनय ऊचुः
भगवञ्श्रोतुमिच्छामो मार्जनं वरुणालये ।
क्रियते स्नानदानादि तस्याशेषफलं वद ॥७॥

ब्रह्मोवाच
श्रृणुध्वं मुनिशार्दूला मार्जनस्य यथाविधि ।
भक्त्या तु तन्मना भूत्वा संप्राप्य पुण्यमुत्तमम् ॥८॥

मार्कण्डेयह्रदे स्नानं पूर्वकाले प्रशस्यते ।
चतुर्दश्यां विशेषेण सर्वपापप्रणाशनम् ॥९॥

तद्वत्स्नानं समुद्रस्य सर्वकालं प्रशस्यते ।
पौर्णमास्यां विशेषेण हयमेधफलं लभेत् ॥१०॥

मार्कण्डेयं वटं कृष्णं रौहिणेयं महोदधिम् ।
इन्द्रद्युम्नसरश्चैव पञ्चतीर्थोविधिः स्मृतः(?) ॥११॥

पूर्णिमा ज्येष्ठमासस्य ज्येष्ठा ऋक्षं यदा भवेत् ।
तदा गच्छेद्विशेषेण तीर्थराजं परं शुभम् ॥१२॥

कायवाङ्मानसैः शुद्धस्तद्भावो नान्यमानसः ।
सर्वद्वंद्वविनिर्मुक्तो वीतरागो विमत्सरः ॥१३॥

कल्पवृक्षवटं रम्यं तत्र स्नात्वा जनार्दनम् ।
प्रदक्षिणं प्रकुर्वीत त्रिवारं सुसमाहितः ॥१४॥

यं दृष्ट्वा मुच्यते पापात्सप्तजन्मसमुद्भवात् ।
पुण्यं चाऽऽप्नोति विपुलं गतिमिष्टां च भो द्विजाः ॥१५॥

तस्य नामानि वक्ष्यामि प्रमाणं च युगे युगे ।
यथासंख्यं च भो विप्राः कृतादिषु यथाक्रमम् ॥१६॥

वटं वटेश्वरं कृष्णं पुराणपुरुषं द्विजाः ।
वटस्यैतानि नामानि कीर्तितानि कृतादिषुः ॥१७॥

योजनं पादहीनं च योजनार्धं तदर्धकम् ।
प्रमाणं कल्पवृक्षस्य कृतादौ परिकीर्तितम् ॥१८॥

यथोक्तेन तु मन्त्रेण नमस्कृत्वा तु तं वटम् ।
दक्षिणाभिमुखो गच्छेद्धन्वन्तरशतत्रयम् ॥१९॥

यत्रासौ दृश्यते विष्णुः स्वर्गद्वारं मनोरमम् ।
सागराम्भः समाकृष्टं काष्ठं सर्वगुणान्वितम् ॥२०॥

प्रणिपत्य ततस्तं भो परिपूज्य ततः पुनः ।
मुच्यते सर्वरोगाद्यैस्तथा पापैर्ग्रहादिभिः ॥२१॥

उग्रसेनं पुरा दृष्ट्वा स्रवर्गद्वारेण सागरम् ।
गत्वाऽऽचम्य शुचिस्तत्र ध्यात्वा नारायणं परम् ॥२२॥

न्यसेदष्टाक्षरं मन्त्रं पश्चाद्धस्तशरीरयोः ।
ॐ नमो नारायणायेति यं वदन्ति मनीषिणः ॥२३॥

किं कार्यं बहुभिमन्त्रर्मनोविभ्रमकारकैः ।
ॐ नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥२४॥

आपो नरस्य सूनुत्वान्नारा इतीह कीर्तिताः ।
विष्णोस्तास्त्वयनं पूर्वं तेन नारायणः स्मृतः ॥२५॥

नारायणपरा वेदा नारायणपरा द्विजाः ।
नारायणपरा यज्ञा नारायणपराः क्रियाः ॥२६॥

नारायणपरा पृथ्वी नारायणपरं जलम् ।
नारायणपरो वह्निर्नारायणपरं नभः ॥२७॥

नारायणपरो वायुर्नारायणपरं मनः ।
अहंकारश्च बुद्धिश्च उभे नारायणात्मके ॥२८॥

भूतं भव्यं भविष्यं च यत्किंचिज्जीवसंज्ञितम् ।
स्थूल सूक्ष्मं परं चैव सर्वं नारायणात्मकम् ॥२९॥

शब्दाद्य विषयाः सर्वे श्रोत्रादीनीन्द्रियाणि च ।
प्रकृतिः पुरुषश्चैव सर्वे नारायणात्मकाः ॥३०॥

जले स्थले च पाताले स्वर्गलोकेऽम्बरे नगे ।
अवष्टभ्य इदं सर्वमास्ते नारायणः प्रभुः ॥३१॥

किं चात्र बहुनोक्तेन जगदेतच्चराचरम् ।
ब्रह्मादिस्तम्बपर्यन्तं सर्वं नारायणात्मकम् ॥३२॥

नारायणात्पर किंचिन्नेह पश्यामि भो द्विजाः ।
तेन व्याप्तमिदं सर्वं दृश्यादृश्यं चराचरम् ॥३३॥

आपो ह्यायतनं विष्णोः स च एवाम्भसां पतिः ।
तस्मादप्सु स्मरेन्नित्यं नारायणमघापहम् ॥३४॥

स्नानकाले विशेषेण चोपस्थाय जले शुचिः ।
स्मरेन्नारायणं ध्यायेद्धस्ते काये च विन्यसेत् ॥३५॥

ओंकारं च नकारं च अङ्गुष्ठे हस्तयोर्न्यसेत् ।
शेषैर्हं(षान्ह)स्ततलं(ले)यावत्तर्जन्यादिषु विन्यसेत् ॥३६॥

ओंकारं वामपादे तु नकारं दक्षिणे न्यसेत् ।
मोकारं वामकट्यां तु नाकारं दक्षिणे न्यसेत् ॥३७॥

राकारं नाभिदेशे तु यकारं वामबाहुके ।
णाकारं दक्षिणे न्यस्य यकारं मूर्ध्नि विन्यसेत् ॥३८॥

अधश्चोर्ध्वं च हृदये पार्श्वतः पृष्ठतोऽग्रतः ।
ध्यात्वा नारायणं पश्चादारभेत्कवचं बुधः ॥३९॥

पूर्वे मां पातु गोविन्दो दक्षिणे मधुसूदनः ।
पश्चिमे श्रीधरो देवः केशवस्तु तथोत्तरे ॥४०॥

पातु विष्णुस्तथाऽऽग्नेये नैर्ऋते माधवोऽव्ययः ।
वायव्ये तु हृषीकेशस्तथेशाने च वामनः ॥४१॥

भूतले पातु वाराहस्तथोर्ध्वं च त्रिविक्रमः ।
कृत्वैवं कवचं पश्चादात्मानं चिन्तयेत्ततः ॥४२॥

अहं नारायणो देवः शङ्खचक्रगदाधरः ।
एवं ध्यात्वा तदाऽऽत्मानमिमं मन्त्रमुदीरयेत् ॥४३॥

त्वमग्निर्द्विपदां नाथ रेतोधाः कामदीपनः ।
प्रधानः सर्वभुतानां जीवानां प्रभुरव्ययः ॥४४॥

अमृतस्यारणिस्त्वं हि देवयोनिरपां पते ।
वृजिनं हर मे सर्वं तीर्थराज नमोऽस्तु ते ॥४५॥

एवमुच्चार्य विधिवत्ततः स्नानं समाचरेत् ।
अन्यथा भो द्विजश्रेष्ठाः स्नानं तत्र न शस्यते ॥४६॥

कृत्वा तु वैदिकैर्मन्त्रैभिषेकं च मार्जनम् ।
अन्तर्जले जपेत्पश्चात्त्रिरावृत्त्याऽघमर्षणम् ॥४७॥

हयमेधो यथा विप्राः सर्वपापहरः क्रतुः ।
तथाऽघमर्षणं चात्र सूक्तं सर्वाघनाशनम् ॥४८॥

उत्तीर्य वाससी धौते निर्मले परिधाय वै ।
प्राणानायम्य चाऽऽचम्य संध्यां चोपास्य भास्करम् ॥४९॥

उपतिष्ठेत्ततश्चोर्ध्वं क्षिप्त्वा पुष्पजलाञ्जलिम् ।
उपस्थायोर्ध्वबाहुश्च तल्लिङ्गैर्भास्करं ततः ॥५०॥

गायत्रीं पावनीं देवीं जपेदष्टोत्तरं शतम् ।
अन्यांश्च सौरमन्त्रांश्च जप्त्वा तिष्ठन्समाहितः ॥५१॥

कृत्वा प्रदक्षिणं सूर्यं नमस्कृत्योपविश्य च ।
स्वाध्यायं प्राङ्मुखः कृत्वा तर्पर्येद्दैवतान्यृषीन् ॥५२॥

मनुष्यांश्च पितॄँश्चान्यान्नामगोत्रेण मन्त्रवित् ।
तोयेन तिलमिश्रेण विधिवत्सुसमाहितः ॥५३॥

तर्पणं देवतानां च पूर्वं कृत्वा समाहितः ।
अधिकारी भवेत्पश्चात्पितॄणां तर्पणे द्विजः ॥५४॥

श्राद्धे हवनकाले च पाणिनैकेन निर्वपेत् ।
तर्पणे तूभयं कुर्यादेष एव विधिः सदा ॥५५॥

अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ।
तृप्यतामिति सिञ्चेत्तु नामगोत्रेण वाग्यतः ॥५६॥

कायस्थैर्यस्तिलैर्मोहात्करोति पितृतर्पणम् ।
तर्पितास्तेन पितरस्त्वङ्मांसरुधिरास्थिभिः ॥५७॥

अङ्गस्थैर्न तिलैः कुर्याद्देवतापितृतर्पणम् ।
रुधिरं तद्भवेत्तोयं प्रदाता किल्बिषी भवेत् ॥५८॥

भूम्यां यद्दीयते तोयं दाता चैव जले स्थितः ।
वृथा तन्मुनिशार्दूला नोपतिष्ठति कस्यचित् ॥५९॥

स्थले स्थित्वा जले यस्तु प्रयच्छेदुदकं नरः ।
पितॄणां नोपतिष्ठेत सलिलं तन्निरर्थकम् ॥६०॥

उदके नोदकं कुर्यात्पितृभ्यश्च कदाचन ।
उत्तीर्य तु शुचौ देशे कुर्यादुदकतपेणम् ॥६१॥

नोदकेषु न पात्रेषु न क्रुद्धो नैकपाणिना ।
नोपतिष्ठति तत्तोयं यद्भूम्यां न प्रदीयते ॥६२॥

पितॄणामक्षयं स्थानं मही दत्ता मया द्विजाः ।
तस्मात्तत्रैव दातव्यं पितृणां प्रीतिमिच्छता ॥६३॥

भूमिपृष्ठे समुत्पन्ना भूम्यां चैव च संस्थिताः ।
भूम्यां चैव लयं याता भूमौ दद्यात्ततो जलम् ॥६४॥

आस्तीर्य च कुशान्साग्रांस्तानावाह्य स्वमन्त्रतः ।
प्राचीनाग्रेषु वै देवान्याम्याग्रेषु तथा पितॄन् ॥६५॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे समुद्रस्नानविधिनिरूपणं नाम षष्टितमोऽध्यायः ॥६०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP