TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १७३

ब्रह्मपुराणम् - अध्यायः १७३

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १७३
भीमेश्वरतीर्थवर्णनम्
ब्रह्मोवाच
ऋषिसत्रमिति ख्यातमृषयः सप्त नारद ।
निषेदुस्तपसे यत्र यत्र भीमेश्वरः शिवः ॥१॥

तत्रेदं वृत्तमाख्यास्ये देवर्षिपितृबृंहितम् ।
श्रृणु यत्नेन वक्ष्यामि सर्वकामप्रदं शुभम् ॥२॥

सप्तधा व्यभजन्गङ्गामृषयः सप्त नारद ।
वासिष्ठी दाक्षिणेयी स्याद्वैश्वामित्री तदुत्तरा ॥३॥

वामदेव्यपरा ज्ञेया गौतमी मध्यतः शुभा ।
भारद्वाजी स्मृता चान्या आत्रेयी चेत्यथापरा ॥४॥

जामदग्नी तथा चान्या व्यपदिष्टा तु सप्तधा ।
तैः सर्वैर्ऋषिभिस्तत्र यष्टुमिष्टैर्महात्मभिः ॥५॥

निष्पादितं महासत्रमृषिभः पारदर्शिभिः ।
एतस्मिन्नन्तरे तत्र देवानां प्रबलो रिपुः ॥६॥

विश्वरूप इति ख्यातो मुनीनां सत्रमभ्यगात् ।
ब्रह्मचर्येण तपसा तानाराध्य यथाविधि ॥
विनयेनाथ पप्रच्छ ऋषीन्सर्वाननुक्रमात् ॥७॥

विश्वरूप उवाच
ध्रुवं सर्वे यथाकामं मम स्वास्थ्येन हेतुना ।
यथा स्याद्‌बलवान्पुत्रो देवानामपि दुर्धरः ॥
यज्ञैर्वा तपसा वाऽपि मुनयो वक्तुमर्हथ ॥८॥

ब्रह्मोवाच
तत्र प्राह महाबुद्धिर्विश्वामित्रो महामनाः ॥९॥

विश्वामित्र उवाच
कर्मणा तात लभ्यन्ते फलानि विविधानि च ।
त्रयाणां कारणानां च कर्म प्रथमकारणम् ॥१०॥

ततश्च कारणं कर्ता ततश्चान्यत्प्रकीर्तितम् ।
उपादानं तथा बीजं न च कर्म विदुर्बुधाः ॥११॥

कर्मणां कारणत्वं च कारणे पुष्कले सति ।
भावाभावौ फले दृष्टौ तस्मात्कर्माश्रितं फलम् ॥१२॥

कर्मापि द्विविधं ज्ञेयं क्रियमाणं तथा कृतम् ।
कर्तव्यं क्रियमाणस्य साधनं यद्यदुच्यते ॥१३॥

तद्भावाः कर्मसिद्धौ च उभयत्रापि कारणम् ।
यद्यद्‌भावयते जन्तुः कर्म कुर्वन्विचक्षणः ॥१४॥

तद्भावनानुरूपेण फलनिष्पत्तिरुच्यते ॥
करोति कर्म विधिवद्विना भावनया यदि ॥१५॥

अन्यथा स्यात्फलं सर्वं तस्य भावानुरूपतः ।
तस्मात्तपो व्रतं दानं जपयज्ञादिकाः क्रियाः ॥१६॥

कर्मणस्त्वनुरूपेण फलं दास्यन्ति भावतः ।
तस्माद्भावानुरूपेण कर्म वै दास्यते फलम् ॥१७॥

भावस्तु त्रिविधो ज्ञेयः सात्त्विको राजसस्तथा ।
तामसस्तु तथा ज्ञेयः फलं कर्मानुसारतः ॥१८॥

भावनानुगुणं चेति विचित्रा कर्मणां स्थितिः ।
तस्मादिच्छानुसारेण भावं कुर्याद्विचक्षणः ॥१९॥

पश्चात्कर्मापि कर्तव्यं फलदाताऽपि तद्विधम् ।
फलं ददाति फलिनां फले यदि प्रवर्तते ॥२०॥

कर्मकारो न तत्रास्ति कुर्यात्कर्म स्वभावतः ।
तदेव चोपदानादि सत्त्वादिगुणभेदतः ॥२१॥

भावात्प्रारभते तद्वद्‌भावैः फलमवाप्यते ।
धर्मार्थकाममोक्षाणां कर्म चैव हि कारणम् ॥२२॥

भावस्थितं भवेत्कर्म मुक्तिदं बन्धकारणम् ।
स्वभावानुगुणं कर्म स्वस्यैवेहे परत्र च ॥२३॥

फलानि विविधान्याशु करोति समतानुगम् ।
एक एव पदार्थोऽसौ भावैर्भेदः प्रदृश्यते ॥२४॥

क्रियते भुज्यते वाऽपि तस्माद्‌भावो विशिष्यते ।
यथाभावं कर्म कुरु यथेप्सितमवाप्स्यसि ॥२५॥

ब्रह्मोवाच
एतच्छ्रुत्वा ऋषेर्वाक्यं विश्वामित्रस्य धीमतः
तपस्तप्त्वा बहुकालं तामसं भावमाश्रितः ॥२६॥

विश्वरूपः कर्म भीमं चकार सुरभीषणम् ।
पश्यत्सु ऋषिमुख्येषु वार्यमाणोऽपि नित्यशः ॥२७॥

आत्मकोपानुसारेण भीमं कर्म तथाऽकरोत् ।
भीषणे कुण्डखाते तु भीषणे जातवेदसि ॥२८॥

भीषणं रौद्रपुरुषं ध्यात्वाऽऽत्मानं गुहाशयम् ।
एवं तपन्तमालक्ष्य वागुवाचाशरीरिणी ॥२९॥

जटाजूटं विनाऽऽत्मानं नच वृत्रो व्यजीयत ।
वृथाऽऽत्मानं विश्वरूपो जुहुयाज्जातवेदसि(?) ॥३०॥

स एवेन्द्रः स वरुणः स च स्यात्सर्वमेव च ।
त्यक्त्वाऽऽत्मानं जटामात्रं हुतवान्वृजिनोद्‌भवः ॥३१॥

वृत्र इत्युच्यते वेदे स चापि वृजिनोऽभवत् ।
भीमस्य महिमानं को जानाति जगदीशितुः ॥३२॥

सृजत्यशेषमपि यो न च सङ्गेन लिप्यते ।
विररामेति संकीर्त्य सा वाण्येनं मुनीश्वराः ॥३३॥

भीमेश्वरं नमस्कृत्य जग्मुः स्वं स्वमथाऽऽश्रमम् ।
विश्वरूपो महाभीमो भीमकर्मा तथाकृतिः ॥३४॥

भीमभावो भीमतनुं ध्यात्वाऽऽत्मानं जुहाव ह ।
तस्माद्‌भीमेश्वरो देवः पुराणे परिपठ्यते ॥
तत्र स्नानं च दानं च मुक्तिदं नात्र सशयः ॥३५॥

इति पठति श्रुणोति यश्च भक्त्या, विबुधपतिं शिवमत्र भीमरूपम् ।
जगति विदितमशेषपापहारिस्मृतिपदशरणेन मुक्तिदश्च(?) ॥३६॥

गोदावरी तावदशेषपापसमूहहन्त्री परमार्थदात्री ।
सदैव सर्वत्र विशेषतस्तु, यत्राम्बुराशिं समनुप्रविष्टा ॥३७॥

स्नात्वा तु तस्मिन्सुकृती शरीरी, गोदावरीवारिधिसंगमे यः ।
उद्धृत्य तीव्रन्निरयादशेषात्स पूर्वजान्याति पुरं पुरारेः ॥३८॥

वेदान्तवेद्यं यदुपासितव्यं, तद्‌ब्रह्म साक्षात्खलु भीमनाथः ।
दृष्टे हि तस्मिन्न पुनर्विशन्ति, शरीरिणः संसृतिमुग्रदुःखाम् ॥३९॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये ऋषिसत्रभीमेश्वरतीर्थवर्णनं नाम त्रिसप्तत्यधिकशततमोऽध्यायः ॥१७३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:43.3630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ते

  • सना . तो तृतीयपुरुषवाचक सर्वनामाचे नपुसकलिंगी एकवचन . 
  • अ. पर्यंत ; पावेंतों . ( फा . ता ) 
  • स्त्रीसमाअव . ( काव्य ) त्या . गुणिये आधिष्टीले हृषीकेशे । ते वांचौनिया । - ऋ १९ . 
  • सना . तो चे अनेकवचन . स्त्रीने पतीस संबोधावयाचा शब्द . 
More meanings
RANDOM WORD

Did you know?

जीवनात वयाच्या कोणत्या वर्षी कोणती शांती करावी?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.