संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ५९

ब्रह्मपुराणम् - अध्यायः ५९

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथैकोनषष्टितमोऽध्यायः
श्वेतमाधवमाहात्म्यवर्णनम्
ब्रह्मोवाच
अनन्ताख्यं वासुदेवं दृष्ट्वा भक्त्या प्रणम्य च ।
सर्वपापविनिर्मुक्तो नरो याति परं पदम् ॥१॥

मया चाऽऽराधितश्चासौ शक्रेण तदन्तरम् ।
विभिषणेन रामेण कस्तं नाऽऽराधयेत्पुमान् ॥२॥

श्वेतगङ्गां नरः स्नात्वा यः पश्येच्छ्वेतमाधवम् ।
मत्स्याख्यं माधवं चैव श्वेतद्वीपं स गच्छति ॥३॥

मुनय ऊचुः
श्वेतमाधवमाहात्म्यं वक्तुमर्हस्यशेषतः ।
विस्तरेण जगन्नाथ प्रतिमां तस्य वै हरेः ॥४॥

तस्मिन्क्षेत्रवरे पुण्ये विख्याते जगतीतले ।
श्वेताख्यं माधवं देवं कस्तं स्थापितवान्पुरा ॥५॥

ब्रह्मोवाच
अभूत्कृतयुगे विप्राः श्वेतो नाम नृपो बली ।
मतिमान्धर्मविच्छूरः सत्यसंधो दृढव्रतः ॥६॥

यस्य राज्ये तु वर्षाणां सहस्रं दश मानवाः ।
भवन्त्यायुष्मन्तो लोका बालस्तस्मिन्न सीदति ॥७॥

वर्तमाने तदा राज्ये किंचित्काले गते द्विजाः ।
कपालगौतमौ नाम ऋषिः परमधार्मिकः ॥८॥

सुतोऽस्याजातदन्तश्च मृतः कालवशाद् द्विजाः ।
तमादाय ऋषिर्धोमान्नृपस्यान्तिकमानयत् ॥९॥

दृष्ट्वैवं नृपतिः सुप्तं कुमारं गतचेतसम् ।
प्रतिज्ञामकरोद्विप्रा जीवनार्थं शिशोस्तदा ॥१०॥

राजोवाच
यावद्बालमहं त्वेनं यमस्य सदने गतम् ।
नाऽऽनये सप्तरात्रेण चितां दीप्तां समारुहे ॥११॥

ब्रह्मोवाच
एवमुक्त्वाऽसितैः पद्मैः शतैर्दशशतादिकैः ।
संपूज्य च महादेवं राजा विद्यां पुनर्जपेत्(?) ॥१२॥

अतिभक्तिं तु संचिन्त्य नृपस्य जगदीश्वरः ।
सांनिध्यमागमत्तुष्टोऽस्मीत्युवाच सहोमया ॥१३॥

श्रुत्वैवं गिरमीशस्य विलोक्य सहसा हरम् ।
भस्मदिग्धं विख्यपाक्षं शरत्कुन्देन्दुवर्चसम् ॥१४॥

शार्दूलचवर्मवसनं शशाङ्काङ्कितमूर्धजम् ।
महीं निपत्य सहसा प्रणम्य स तदाऽब्रवीत् ॥१५॥

श्वेत उवाच
कारुण्यं यदि मे दृष्ट्वा प्रसन्नोऽसि प्रभो यदि ।
कालस्य वशमापन्नो बालको द्विजपुत्रकः ॥१६॥

जीवत्वेष पुनर्बाल इत्येवं व्रतमाहितम् ।
अकस्माच्च मृतं बालं नियम्य भगवन्स्वयम्॥
यथोक्तायुष्यसंयुक्तं क्षेमं कुरु महेश्वर ॥१७॥

ब्रह्मोवाच
श्वेतस्यैतद्वचः श्रुत्वा मुदं प्राप हरस्तदा ।
कालमाज्ञापयामास सर्वभूतभयंकरम् ॥१८॥

नियम्य कालं दुर्धर्षं यमस्याऽऽज्ञाकरं द्विजाः ।
बालं संजीवयामास मृत्योर्मुखगतं पुनः ॥१९॥

कृत्वा क्षेमं जगत्सर्वं मुनेः पुत्रं स तं द्विजाः ।
देव्या सहोमया देवस्तत्रैवान्तरधीयत ॥२०॥

एवं संजीवयामास मुनेः पुत्रं नृपोत्तमः ॥२१॥

मुनय ऊचुः
देवदेव जगन्नाथ त्रैलोक्यप्रभवाव्यय ।
ब्रूहि नः परमं तथ्यं श्वेताख्यस्य च सांप्रतम् ॥२२॥

ब्रह्मोवाच
श्रृणुध्वं मुनिशार्दूलाः सर्वसत्त्वहितावहम् ।
प्रवक्ष्यामि यथातथ्यं यत्पृच्छथ ममानघाः ॥२३॥

माधवस्य च माहात्म्यं सर्वपापप्रणाशनम् ।
यच्छ्रुत्वाऽभिमतान्कामान्ध्रुवं प्राप्नोति मानवः ॥२४॥

श्रुतवानृषिभिः पूर्वं माधवाख्यस्य भो द्विजाः ।
श्रृणुध्वं तां कथां दिव्यां भयशोकार्तिनासिनीम् ॥२५॥

स कृत्वा राज्यमेकाग्य्रं वर्षाणां च सहस्रशः ।
विचार्य लौकिकान्धर्मान्वैदिकान्नियमांस्तथा ॥२६॥

केशवाराधने विप्रा निश्चितं व्रतमास्थितः ।
स गत्वा परमं क्षेत्रं सागरं दक्षिणाश्रयम् ॥२७॥

तटे तस्मिञ्छुभे रम्ये देशे कृष्णस्य चान्तिके ।
श्वेतोऽथ कारयामास प्रसादं शुभलक्षणम् ॥२८॥

धन्वन्तरशतं चैकं देवदेवस्य दक्षिणे ।
ततः श्वेतेन विप्रेन्द्राः श्वेतशैलमयेन च ॥२९॥

कृतः स भगवाञ्छ्वेतो माधवश्चन्द्रसंनिभः ।
प्रतिष्ठां विधिवच्चक्रे यथोद्दिष्टां स्वयं तु सः ॥३०॥

दत्त्वा दानं द्विजातिभ्यो दीनानाथतपस्विनाम् ।
अथानन्तरतो राजा माधवस्य च संनिधौ ॥३१॥

महीं निपत्य सहसा ओंकारं द्वादशाक्षरम् ।
जपन्स मौनमास्थाय मासमेकं समाधिना ॥३२॥

निराहारो महाभागः सम्यग्विष्णुपदे स्थितः ।
जपान्ते स तु देवेशं संस्तोतुमुपचक्रमे ॥३३॥

श्वेत उवाच
ओं नमो वासुदेवाय नमः संकर्षणाय च ।
प्रद्युम्नायानिरुद्धाय नमो नारायणाय च ॥३४॥

नमोऽस्तु बहुरूपाय विश्वरूपाय वेधसे ।
निर्गुणायाप्रतर्क्याय शुचये शुक्लकर्मणे ॥३५॥

ओं नमः पद्मनाभाय पद्मगर्भोद्भवाय च ।
नमोऽस्तु पद्मवर्णाय पद्महस्ताय ते नमः ॥३६॥

ओं नमः पुष्कराक्षाय सहस्राक्षाय मीढुषे ।
नमः सहस्रपादाय सहस्रभुज मन्यवे ॥३७॥

ओं नमोऽस्तु वराहाय वरदाय सुमेधसे ।
वरिष्ठाय वरेण्याय शरण्यायाच्युताय च ॥३८॥

ओं नमो बालरूपाय बालपद्मप्रभाय च ।
बालार्कसोमनेत्राय मुञ्जकेशाय धीमते ॥३९॥

केशवाय नमो नित्यं नमो नारायणाय च ।
माधवाय वरिष्ठाय गोविन्दाय नमो नमः ॥४०॥

ओं नमो विष्णवे नित्यं देवाय वसुरेतसे ।
मधुसूदनाय नमः शुद्धायांशुधराय च ॥४१॥

नमोऽनन्ताय सूक्ष्माय नमः श्रीवत्सधारिणे ।
त्रिविक्रमाय च नमो दिव्यपीताम्बराय च ॥४२॥

सृष्टिकर्त्रे नमस्तुभ्यं गोप्त्रे धात्रे नमो नमः ।
नमोऽस्तु गुणभूताय निर्गुणाय नमो नमः ॥४३॥

नमो वामनरूपाय नमो वामनकर्मणे ।
नमो वामननेत्राय नमो वामनवाहिने ॥४४॥

नमो रम्याय पूज्याय नमोऽस्त्वव्यक्तरूपिणे ।
अप्रतर्क्याय शुद्धाय नमो भयहराय च ॥४५॥

संसारार्णवपोताय प्रशान्ताय स्वरूपिणे ।
शिवाय सौम्यरूपाय रुद्रायोत्तारणाय च ॥४६॥

भवभङ्गकृते चैव भवभोगप्रदाय च ।
भवसंघातरूपाय भवसृष्टिकृते नमः ॥४७॥

ओं नमो दिव्यरूपाय सोमाग्निश्वसिताय च ।
सोमसूर्यांशुकेशाय गोब्राह्मणहिताय च ॥४८॥

ओं नम ऋक्स्वरूपाय पदक्रमस्वरूपिणे ।
ऋक्स्तुताय नमस्तुभ्यं नम ऋक्साधनाय च ॥४९॥

ओं नमो यजुषां धात्रे यजूरूपधराय च ।
यजुर्याज्याय जुष्टाय यजुषां पतये नमः ॥५०॥

ओं नमः श्रीपते देव श्रीधराय वराय च ।
श्रियः कान्ताय दान्ताय योगिचिन्त्याय योगिने ॥५१॥

ओं नमः सामरूपाय सामध्वनिवराय च ।
ओं नमः सामसौम्याय मामयोगविदे नमः ॥५२॥

साम्ने च सामगीताय ओं नमः सामधारिणे ।
सामयज्ञविदे चैव नमः सामाकराय च ॥५३॥

नमस्त्वथर्वशिरसे नमोऽथर्वस्वरूपिणे ।
नमोऽस्त्वथर्वपादाय नमोऽथर्वकराय च ॥५४॥

ओं नमो वज्रशीर्षाय मधुकैटभघातिने ।
महोदधिजलस्थाय वेदाहरणकारिणे ॥५५॥

नमो दीप्तस्वरूपाय हृषीकेशाय वै नमः ।
नमो भगवते तुभ्यं वासुदेवाय ते नमः ॥५६॥

नारायण नमस्तुभ्यं नमो लोकहिताय च ।
ओं नमो मोहनाशाय भवभङ्गकराय च ॥५७॥

गतिप्रदाय च नमो नमो बन्धहराय च ।
त्रैलोक्यतेजसां कर्त्रे नमस्तेजःस्वरूपिणे ॥५८॥

योगीश्वराय शुद्धाय रामायोत्तरणाय च ।
सुखाय सुखनेत्राय नमः सुकृतधारिणे ॥५९॥

वासुदेवाय वन्द्याय वामदेवाय वै नमः ।
देहिनां देहकर्त्रे च भेदभङ्गकराय च ॥६०॥

देवैर्वान्दितदेहाय नमस्ते दिव्यमौलिने ।
नमो वासनिवासाय वासव्यवहराय च ॥६१॥

ओं नमो वसुकर्त्रे च वसुवासप्रदाय च ।
नमो यज्ञस्वरूपाय यज्ञेशाय च योगिने॥ ५९.६२॥

यतियोगकरेशाय नमो यज्ञाङ्गधारिणे ।
संकर्षणाय च नमः प्रलम्बमथनाय च ॥६३॥

मेघघोषस्वनोत्तीर्णवेगलाङ्गलधारिणे ।
नमोऽस्तु ज्ञानिनां ज्ञान नारायणपरायण ॥६४॥

न मेऽस्ति त्वामृते बन्धुर्नरकोत्तारणे प्रभो ।
अतस्त्वां सर्वभावेन प्रणतो नतवत्सल ॥६५॥

मलं यत्कायजं वाऽपि मानसं चैव केशव ।
न तस्यान्योऽस्ति देवेश क्षालकस्त्वामृतेऽच्युत ॥६६॥

संसर्गाणि समस्तानि विहाय त्वामुपस्थितः ।
संगो मेऽस्तु त्वया सार्धमात्मलाभाय केशव ॥६७॥

कष्टमापत्सुदुष्पारं संसारं वेद्मि केशव ।
तापत्रयपरिक्लिष्टस्तेन त्वां शरणं गतः ॥६८॥

एषणभिर्जगत्सर्वं मोहितं मायया तव ।
आकर्षितं च लोभाद्यैरतस्त्वामहमाश्रितः ॥६९॥

नास्ति किंचित्सुखं विष्णो संसारस्थस्य देहिनः ।
यथा यथा हि यज्ञेश त्वयि चेतः प्रवर्तते ॥७०॥

तथा फलविहीनं तु सुखमात्यन्तिकं लभेत् ।
नष्टो विवेकशून्योऽस्मि दृश्यते जगदातुरम् ॥७१॥

गोविन्द त्राहि संसारान्मामुद्धर्तुं त्वमर्हसि ।
मग्नस्य मोहसलिले निरुत्तरे भवार्णवे॥
उद्धर्ता पुण्डरीकाक्ष त्वामृतेऽन्यो न विद्यते ॥७२॥

ब्रह्मोवाच
इत्थं स्तुतस्ततस्तेन राज्ञा श्वेतेन भो द्विजाः ।
तस्मिन्क्षेत्रवरे दिव्ये विख्याते पुरुषोत्तमे ॥७३॥

भक्तिं तस्य तु संचिन्त्य देवदेवो जगद्गुरुः ।
आजगाम नृपस्याग्रे सर्वैर्देवैर्वृतो हरिः ॥७४॥

नीलजीमूतसंकाशः पद्मपत्रायतेक्षणः ।
दधत्सुदर्शनं धीमान्कराग्रे दीप्तमण्डलम् ॥७५॥

क्षीरोदजलसंकाशो विमलश्चन्द्रसंनिभः ।
रराज वामहस्तेऽस्य पाञ्चजन्यो महाद्युतिः ॥७६॥

पक्षिराजध्वजः श्रीमान्गदाशार्ङ्गासिधृक्प्रभुः ।
उवाच साधु भो राजन्यस्य ते मतिरुत्तमा
यादिष्टं वर भद्रं ते प्रसन्नोऽस्मि तवानघ ॥७७॥

ब्रह्मोवाच
श्रुत्वैवं देवदेवस्य वाक्यं तत्परमामृतम् ।
प्रणम्य शिरसोवाच श्वेतस्तद्गतमानसः ॥७८॥

यद्यहं भगवन्भक्तः प्रयच्छ वरमुत्तमम् ।
आब्रह्मभवनादूर्ध्वं वैष्णवं पदमव्ययम् ॥७९॥

विमलं विरजं शुद्धं संसारासङ्गवर्जितम् ।
तत्पदं गन्तुमिच्छामि त्वत्प्रसादाज्जगत्पते ॥८०॥

श्रीभगवानुवाच
यत्पदं विबुधाः सर्वे मुनयः सिद्धयोगिनः ।
नाभिगच्छन्ति यद्रम्यं परं पदमनामयम् ॥८१॥

यास्यसि परमं स्थानं राज्यामृतमुपास्य च ।
सर्वांल्लोकानतिक्रम्य मम लोकं गमिष्यसि ॥८२॥

कीर्तिस्तवात्र राजेन्द्र त्रींल्लोकांश्च गमिष्यति ।
सांनिध्यं मम चैवात्र सर्वदैव भविष्यति ॥८३॥

श्वेतगङ्गेति गास्यन्ति सर्वे ते देवदानवाः ।
कुशाग्रेणापि राजेन्द्रश्वेतगाङ्गेयमम्बु च ॥८४॥

स्पृष्ट्वा स्वर्गं गमिष्यन्ति मद्भक्ता ये समाहिताः ।
यस्त्विमां प्रतिमांगच्छेन्माधवाख्यां शशिप्रभाम् ॥८५॥

शङ्खगोक्षीरसंकाशामशेषाघविनाशिनीम् ।
तां प्रणम्य सकृद्भक्त्या पुण्डरीकनिकनिभेक्षणाम् ॥८६॥

विहाय सर्वलोकान्वै मम लोके महीयते ।
मन्वन्तराणि तत्रैव देवकन्याभिरावृतः ॥८७॥

गीयमानश्च मधुरं सिद्धगन्धर्वसेवितः ।
भुनक्ति विपुलान्भोगान्यथेष्टं मामकैः सह ॥८८॥

च्युतस्तस्मादिहाऽऽगत्य मनुष्यो ब्राह्मणो भवेत् ।
वेदवेदाङ्गविच्छ्रीमान्भोगवांश्चिरजीवितः ॥८९॥

गजाश्वरथयानाढ्यो धनधान्यावृतः शुचिः ।
रूपवान्बहुभग्यश्च पुत्रपौत्रसमन्वितः ॥९०॥

पुरुषोत्तमं पुनः प्राप्य वटमूलेऽथ सागरे ।
त्यक्त्वा देहं हरिं स्मृत्वा ततः शान्तपदं व्रजेत् ॥९१॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे श्वेतमाधवमाहात्म्यवर्णनं नामैकोनषष्टितमोऽध्यायः ॥५९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP