TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २१७

ब्रह्मपुराणम् - अध्यायः २१७

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २१७
धर्मश्रैष्ठ्यवर्णनम्
लोमहर्षण उवाच
श्रुत्वैवं यममार्गं ते नरकेषु च यातनाम् ।
पप्रच्छुश्च पुनर्व्यासं संशयं मुनिसत्तमाः ॥१॥

मुनय ऊचुः
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः ॥२॥

ज्ञातिसंबन्धिवर्गश्च मित्रवर्गस्तथैव च ।
गृहं शरीरमुत्सृज्य काष्ठलोष्टसमं जनः ॥
गच्छन्त्यमुत्र लोके वै कश्च ताननुगच्छति ॥३॥

व्यास उवाच
एकः प्रसूयते विप्रा एक एव हि नश्यति ।
एकस्तरति दुर्गाणि गच्छत्येकस्तु दुर्गतिम् ॥४॥

असहायः पिता माता तथा भ्राता सुतो गुरुः ।
ज्ञातिसंबन्धिवर्गश्च मित्रवर्गस्तथैव च ॥५॥

मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः ।
मुहूर्तमिव रोदित्वा ततो यान्ति पराङ्मुखाः ॥६॥

तैस्तच्छरीरमुत्सृष्टं धर्म एकोऽनुगच्छति ।
तस्माद्धर्मः सहायश्च सेवितव्यः सदा नृभिः ॥७॥

प्राणी धर्मसमायुक्तो गच्छेत्स्वर्गगतिं पराम् ।
तथैवाधर्मसंयुक्तो नरकं चोपपद्यते ॥८॥

तस्मात्पापगतैरर्थै र्नानुरज्येत पण्डितः ।
धर्म एको मनुष्याणां सहायः परिकीर्तितः ॥९॥

लोभान्मोहादनुक्रोशाद्‌भयाद्वाऽथ बहुश्रुतः ।
नरः करोत्यकार्याणि पार्थे लोभमोहितः ॥१०॥

धर्मश्चार्थश्च कामश्च त्रितयं जीवतः फलम् ।
एतत्त्रयमवाप्तव्यमधर्मपरिवर्जितम् ॥११॥

मुनय ऊचुः
श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम् ।
शरीरनिचयं ज्ञातुं बुद्धिर्नोऽत्र प्रजायते ॥१२॥

मृतं शरीरं हि नृणां सूक्ष्ममव्यक्ततां गतम् ।
अचक्षुर्विषयं प्राप्तं कथं धर्मोऽनुगच्छति ॥१३॥

व्यास उवाच
पृथिवी वायुराकाशमापो ज्योतिर्मनोन्तरम् ।
बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा ॥१४॥

प्राणिनामिह सर्वेषां साक्षिभूता दिवानिशम् ।
एतैश्च सह धर्मो हि तं जीवमनुगच्छति ॥१५॥

त्वगस्थि मांसं शुक्रं च शोणितं च द्विजोत्तमाः ।
शरीरं वर्जयन्त्येते जीवितेन विवर्जितम् ॥१६॥

ततो धर्मसमायुक्तः स जीवः सुखमेधते ।
इह लोके परे चैव किं भूयः कथयामि वः ॥१७॥

मुनय ऊचुः
तद्‌दर्शितं भगवता यथा धर्मोऽनुगच्छति ।
एतत्तु ज्ञातुमिच्छामः कथं रेतः प्रवर्तते ॥१८॥

व्यास उवाच
अन्नमश्नन्ति ये देवाः शरीरस्था द्विजोत्तमाः ।
पृथिवी वायुराकाशमापो ज्योतिर्मनस्तथा ॥१९॥

ततस्तृप्तेषु भो विप्रास्तेषु भूतेषु पञ्चसु ।
मनः षष्ठेषु शुद्धात्मा रेतः संपद्यते महत् ॥२०॥

ततो गर्भः संभवति श्लेष्मा स्त्रीपुंसयोर्द्विजाः ।
एतद्वः सर्वमाख्यातं किं भूयः श्रोतुमिच्छथ ॥२१॥

मुनय ऊचुः
आख्यातं नो भगवता गर्भः संजायते यथा ।
यथा जातस्तु पुरुषः प्रपद्येत तदुच्यताम् ॥२२॥

व्यास उवाच
आसन्नमात्रपुरुषस्तैर्भूतैरभिभूयते ।
विप्रयुक्तस्तु तैभूतैः पुनर्यात्यपरां गतिम् ॥२३॥

स च भूतसमायुक्तः प्राप्नोति जीवमेव हि ।
ततोऽस्य कर्म पश्यनति शुभं वा यदि वाऽशुभम् ॥
देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छथ ॥२४॥

मुनय ऊचुः
त्वगस्थि मांसमुत्सृज्य तैस्तु भूतैर्विवर्जितः ।
जीवः स भगवन्क्वस्थः सुखदुःखे समश्नुते ॥२५॥

व्यास उवाच
जीवः कर्मसमायुक्तः शीघ्रं रेतः समागतः ।
स्त्रीणां पुष्पं समासाद्य ततः कालेन भो द्विजाः ॥२६॥

यमस्य पुरुषैः क्लेशो यमस्य पुरुषैर्वधः ।
दुःखं संसारचक्रं च नरः क्लेशं तच विन्दति ॥२७॥

इह लोके स तु प्राणी जन्मप्रभृति भो द्विजाः ।
सुकृतं कर्म वै भुङ्क्ते धर्मस्य फलमाश्रितः ॥२८॥

यदि धर्मं समायुज्य जन्मप्रभृति सेवते ।
ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम् ॥२९॥

अथान्तरान्तरं धर्ममधर्ममुपसेवते ।
सुखस्यानन्तरं दुःखं स जीवोऽप्यधिगच्छति ॥३०॥

अधर्मेण समायुक्तो यमस्य विषयं गतः ।
महादुःखं समासाद्य तिर्यग्योनौ प्रजायते ॥३१॥

कर्मणा येन येनेह यस्यां योनौ प्रजायते ।
जीवो मोहसमायुक्तस्तन्मे श्रृणुत सांप्रतम् ॥३२॥

यदेतदुच्यते शास्त्रैः सेतिहासैश्च छन्दसि ।
यमस्य विषयं घोरं मर्त्यलोकं प्रवर्तते ॥३३॥

इह स्थानानि पुण्यानि देवतुल्यानि भो द्विजाः ।
तिर्यग्योन्यतिरिक्तानि गतिमन्ति च सर्वशः ॥३४॥

यमस्य भवने दिव्ये ब्रह्मलोकसमे गुणैः ।
कर्मभिर्नियतैर्बद्धो जन्तुर्दुःखान्युपाश्नुते ॥३५॥

येन येन हि भावेन येन वै कर्मणां गतिम् ।
प्रयाति पुरुषो घोरां तथा वक्ष्याम्यतः परम् ॥३६॥

अधीत्य चतुरो वेदान्द्विजो मोहसमन्वितः ।
पतितात्प्रतिगृह्याथ खरयोनौ प्रजायते ॥३७॥

खरो जीवति वर्षाणि दश पञ्च च भो द्विजाः ।
खरो मृतो बलीवर्दः सप्त वर्षाणि जीवति ॥३८॥

बलीवर्दो मृतश्चापि जायते ब्रह्मराक्षसः ।
ब्रह्मरक्षस्तु मासांस्त्रींस्ततो जायेत ब्राह्मणः ॥३९॥

पतितं याजयित्वा तु कृमियोनौ प्रजायते ।
तत्र जीवति वर्षाणि दश पञ्च च भो द्विजाः ॥४०॥

क्रिमिभावाद्विनिर्मुक्तस्ततो जायेत गर्दभः ।
गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि शूकरः ॥४१॥

कुक्कुटः पञ्च वर्षाणि पञ्च वर्षाणि जम्बुकः ।
श्वा वर्षमेकं भवति ततो जायेन मानवः ॥४२॥

उपाध्यायस्य यः पापं शिष्यः कुर्यादबुद्धिमान् ।
स जन्मानीह संसारे त्रीनाप्नोति न संशयः ॥४३॥

प्रक्श्वा भवति भो विप्रास्ततः क्रव्यात्ततः खरः ।
प्रेत्य च परिक्लिष्टेषु पश्चाज्जायेत ब्राह्मणः ॥४४॥

मनसाऽपि गुरोर्भार्यां यः शिष्यो याति पापकृत् ।
उदग्रान्प्रैति संसारानधर्मेणेह चेतसा ॥४५॥

श्वयोनौ तु स संभूतस्त्रीणि वर्षाणि जीवति ।
तत्रापि निधनं प्राप्तः क्रिमियोनौ प्रजायते ॥४६॥

कृमिभावमनुप्राप्तो वर्षमेकं तु जीवति ।
ततस्तु निधनं पाप्यः ब्रह्मयोनौ प्रजायते ॥४७॥

यदि पुत्रसमं शिष्यं गुरुर्हन्यादकारणम् ।
आत्मनः कामकारेण सोऽपि हिंस्रः प्रजायते ॥४८॥

पितरं मातरं चैव यस्तु पुत्रोऽवमन्यते ।
सोऽपि विप्रा मृतो जन्तुः पूर्वं जायेत गर्दभः ॥४९॥

गर्दभत्वं तु संप्राप्य दश वर्षाणि जीवति ।
संवत्सरं तु कुम्भीरस्ततो जायेत मानवः ॥५०॥

पुत्रस्य मातापितरौ यस्य रुष्टावुभावपि ।
गुर्वपध्यानतः सोऽपि मृतो जयेत गर्दभः ॥५१॥

खरो जीवति मासांश्च दश चापि चतुर्दश ।
बिडालः सप्त मासांस्तु ततो जायेत मानवः ॥५२॥

मातापितारावाक्रुस्य सारीकः संप्राजयते ।
ताडयित्वा तु तावेव जायते कच्छपो द्विजाः ॥५३॥

कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः ।
व्यालो भुत्वा तु षण्मासांस्ततो जायेत मानुषः ॥५४॥

भर्तृपिण्डमुपाश्नीनो(दत्ते)राजद्विष्टानि सेवते ।
सोऽपि मोहसमापन्नो मृतो जायेत वानरः ॥५५ ॥
वानरो दश वर्षाणि सप्त वर्षाणि मूषकः ।
श्वा च भूत्वा तु षण्मासंस्ततो जायेत मानवः ॥५६॥

न्यासापहर्ता तु नरो यमस्य विषयं गतः ।
संसाराणां शतं गत्वा कृमियोनौ प्रजायते ॥५७॥

तत्र जीवति वर्षाणि दश पञ्च च भो द्विजाः ।
दुष्कृतस्य क्षयं कृत्वा ततो जायेत मानुषः ॥५८॥

असूयको नरश्चापि मृतो जायेत शार्ङ्गकः ।
विश्वासहर्ता च नरो मीनो जायेत दुर्मतिः ॥५९॥

भूत्वा मीनोऽष्टवर्षाणि मृगो जायेत भो द्विजाः ।
मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते ॥६०॥

छागस्तु निधनं प्राप्य पूर्णे संवत्सरे ततः ।
कीटः संजायते जन्तुस्ततो जायेत मानुषः ॥६१॥

धान्यान्यवांस्तिलान्माषान्कुलित्थान्सर्षपांश्चणान् ।
कलायानथ मुद्‌गांश्च गोधूमानतसीस्तथा ॥६२॥

सस्यान्यन्यानि हर्ता च मर्त्यो मोहादचेतनः ।
संजायते मुनिश्रेष्ठा मूषिको निरपत्रपः ॥६३॥

ततः प्रेत्य मुनिश्रेष्ठा मृतो जायेत शूकरः ।
शूकरो जातमात्रस्तु रोगेण म्रियते पुनः ॥६४॥

श्वा ततो जायते मूकः कर्मणा तेन मानवः ।
भूत्वा श्वा पञ्च वर्षाणि ततो जायेत मानवः ॥६५॥

परदाराभिमर्शं तु कृत्वा जायेत वै वृकः ।
श्वा श्रृगालस्ततो गृध्रो व्यालः कङ्को बकस्तथा ॥६६॥

भ्रातुर्भार्यां तु पापात्मा यो धर्षयति मोदितः ।
पुंस्कोकिलत्वमाप्नोति सोऽपि संवत्सरं द्विजाः ॥६७॥

सखिभार्यां गुरोर्भार्यां राजभार्यां तथैव च ।
प्रधर्षयित्वा कामात्मा मृतो जायेत शूकरः ॥६८॥

शुकरः पञ्च वर्षाणि दशा वर्षाणि बकः ।
पिपीलिकस्तु मासांस्त्रीन्कीटः स्यान्मासमेव च ॥६९॥

एतानासाद्य संसारान्कृमियोनौ प्रजायते ।
तत्र जीवति मासांस्तु कृमियोनौ चतुर्दश ॥७०॥

नरोऽधर्मक्षयं कृत्वा ततो जायेत मानुषः ।
पूर्वं दत्त्वा तु यः कन्यां द्वितीये दातुमिच्छति ॥७१॥

सोऽपि विप्रा मृतो जन्तुः क्रिमियोनौ प्रजायते ।
तत्र जीवति वर्षाणि त्रयोदश द्विजोत्तमाः ॥७२॥

अधर्मसंक्षये मुक्तस्ततो जायेत मानुषः
देवकार्यमकृत्वा तु पिताकार्यमथापि वा ॥७३॥

अनिर्वाप्य पितॄन्देवान्मृतो जायेत वायसः ।
वायसः शतवर्षाणि ततो जायेत कुक्कुटः ॥७४॥

जायते व्यालकश्चापि मासं तस्मात्तु मानुषः ।
ज्येष्ठं पितृसमं चापि भ्रातरं योऽवमन्यते ॥७५॥

सोऽपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते ।
क्रौञ्चो जीवति वर्षाणि दश जायेत जीवकः ॥७६॥

ततो निधनमाप्नोति मानुषत्वमवाप्नुयात् ।
वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते ॥७७॥

ततः संप्राप्य निधनं जायते शूकरः पुनः ।
शूकरो जातमात्रस्तु रोगेण म्रियते द्विजाः ॥७८॥

श्वा च वै जायते मूढः कर्मणा तेन भो द्विजाः ।
श्वा भूत्वा कृतकर्माऽसौ जायते मानुषस्ततः ॥७९॥

तत्रापत्यं समुत्पाद्य मृतो जायेत मूषिकः ।
कृतघ्नस्तु मृतो विप्रा यमस्य विषयं गतः ॥८०॥

यमस्य विषये क्रूरैर्बद्धः प्राप्नोति वेदनाम् ।
दण्डकं मुद्‌गरं शूलमग्निदण्डं च दारुणम् ॥८१॥

असिपत्रवनं घोरं वालुकां कूटशाल्मलीम् ।
एताश्चान्याश्च बहवो यमस्य विषयं गताः ॥८२॥

यातनाः प्राप्य घोरास्तु ततो याति च भो द्विजाः ।
संसारचक्रमासाद्य क्रिमियोनौ प्रजायते ॥८३॥

क्रिमिर्भवति वर्षाणि दश पञ्च च भो द्विजाः ।
ततो गर्भं समासाद्य तत्रैव म्रियते नरः ॥८४॥

ततो गर्भशतैर्जन्तुर्बहुशः संप्रपद्यते ।
संसारान्सुबहून्गत्वा ततस्तिर्यक्प्रजायते ॥८५॥

ततो दुःखमनुप्राप्य बहुर्वषगणानि वै ।
स पुनर्भवसंयुक्तस्ततः कूर्मः प्रजायते ॥८६॥

दधि हृत्वा बकश्चापि प्लवो मत्स्यानसंस्कृतान् ।
चोरयित्वा तु दुर्बुद्धिर्मधुदंशः प्रजायते ॥८७॥

फलं वा मूलकं हृत्वा पूपं वाऽपि पिपीलिकः ।
चोरयित्वा तु निष्पावं जायते फलमूषकः ॥८८॥

पायसं चोरयित्वा तु तित्तिरत्वमावाप्नुयात् ।
हृत्वा पिष्टमयं पूपं कुम्भोलूकः प्रजायते ॥८९॥

अपो हृत्वा तु दुर्बुद्धिर्वायसो जायते नरः ।
कांस्यं हृत्वा तु दुर्बुद्धिर्हारीतो जायते नरः ॥९०॥

राजतं भाजनं हृत्वा कपोतः संप्रजायते ।
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥९१॥

पत्रोर्णं चोरयित्वा तु कुररत्वं नियच्छति ।
कोशकारं ततो हृत्वा नरो जायेत नर्तकः ॥९२॥

अंशुकं चोरयित्वा तु शुको जायेत मानवः ।
चोरयित्वा दुकूलं तु मृतो हंसः प्रजायते ॥९३॥

क्रौञ्चः कार्पासिकं हृत्वा मृतो जायेत मानवः ।
चोरयित्वा नरः पट्टं त्वाविकं चैव भो द्विजाः ॥९४॥

क्षौमं च वस्त्रमाहृत्य शशो जन्तुः प्रजायते ।
चूर्णं तु हृत्वा पुरुषो मृतो जायेत बर्हिणः ॥९५॥

हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः ।
वर्णकादींस्तथा गन्धांश्चोरयित्वेह मानवः ॥९६॥

चुच्छुन्दरित्वमाप्नोति विप्रो लोभपरायणः ।
तत्र जीवति वर्षाणि ततो दश च पञ्च च ॥९७॥

अधर्मस्य क्षयं कृत्वा ततो जायेत मानवः ।
चोरयित्वा पयश्चापि बलाका संप्रजायते ॥९८॥

यस्तु चोरयते तैलं नरो मोहसमन्वितः ।
सोऽपि विप्रा मृतो जन्तुस्तैलपायी प्रजायते ॥९९॥

अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः ।
अर्थार्थं यदि वा वैरी मृतो जायेत वै खरः ॥१००॥

खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते ।
स मृतो मृगयोनौ तु नित्योद्धिग्नोऽभिजायते ॥१०१॥

मृगो विध्येत शस्त्रेण गते संवत्सरे ततः ।
हतो मृगस्ततो मीनः सोऽपि जालेन बध्यते ॥१०२॥

मासे चतुर्थे संप्राप्ते श्वापदः संप्रजायते ।
श्वापदो दश वर्षाणि द्वीपी वर्षाणि पञ्च च ॥१०३॥

ततस्तु निधनं प्राप्तः कालपर्यायचोदितः ।
अधर्मस्य क्षयं कृत्वा मानुषत्वमवाप्नुयात् ॥१०४॥

वाद्यं हृत्वा तु पुरुषो लोमशः संप्रजायते ।
तथा पिण्याकसंमिश्रमन्नं यश्चोरयेन्नरः ॥१०५॥

स जायते बभ्रुसटो दारुणो मूषिको नरः ।
दशन्वै मानुषान्नित्यं पापात्मा स द्विजोत्तमाः ॥१०६॥

घृतं हृत्वा तु दुर्बुद्धिः काको मद्‌गुः प्रजायते ।
मत्स्यमांसमथो हृत्वा काको जायेत मानवः ॥१०७॥

लवणं चोरयित्वा तु चिरिकाकः प्रजायते ।
विश्वासेन तु निक्षिप्तं योऽपनिह्नोति मानवः ॥१०८॥

स गतायुर्नरस्तेन मत्स्ययोनौ प्रजायते ।
मत्स्ययोनिमनुप्राप्य मृतो जायेत मानुषः ॥१०९॥

मानुषत्वमनुप्राप्य क्षीणायुरुपजायते ।
पापानि तु नरः कृत्वा तिर्यग्जायेत भो द्विजाः ॥११०॥

न चाऽऽत्मनः प्रमाणं तु धर्मं जानाति किंचन ।
ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा ॥१११॥

सुखदुःखसमायुक्ता व्याधिमन्तो भवन्त्युत ।
असंवीताः प्रजायन्ते श्मलेच्छाश्चापि न संशयः ॥११२॥

नराः पापसमाचारा लोभमोहसमन्विताः ।
वर्जयन्ति हि पापानि जन्मप्रभृति ये नराः ॥११३॥

अरोगा रूपवन्तश्च धनिनस्ते भवन्त्युत ।
स्त्रियोऽप्येतेन कल्पेन कृत्वा पापमवाप्नुयुः ॥११४॥

एतेषामेव पापानां भार्यात्वमुपयान्ति ताः ।
प्रायेण हरणे दोषाः सर्वं एव प्रकीर्तिताः ॥११५॥

एतद्वै लेशमात्रेण कथितं वो द्विजर्षभाः ।
अपरस्मिन्कथायोगे भूयः श्रोष्यथ भो द्विजाः ॥११६॥

एतन्मया महाभागा ब्रह्मणो वदतः पुरा ।
सुरर्षीणां श्रुतं मध्ये पृष्टं चापि यथा तथा ॥११७॥

मयाऽपि तुभ्यं कार्त्स्येन यथावदनुवर्णितम् ।
एतच्छ्रुत्वा मुनिश्रेष्ठा धर्मे कुरुत मानसम् ॥११८॥

इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे संसारचक्रनिरूपणं नाम सप्तदशाधिकद्विशततमोऽध्यायः ॥२१७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:45.6630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

moisture concentration

  • मोलल संहति 
RANDOM WORD

Did you know?

बांस की लकड़ी
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site