TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २२०

ब्रह्मपुराणम् - अध्यायः २२०

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २२०
श्राद्धकल्पवर्णनम्
मुनय ऊचुः
भूयः प्रब्रूहि भगवञ्श्राद्धकल्पं सुविस्तरात् ।
कथं क्व च कदा केषु कैस्तद्‌ब्रूहि तपोधन ॥१॥

व्यास उवाच
श्रृणुध्वं मुनिशार्दूलाः श्राद्धकल्पं सुविस्तरात् ।
यथा यत्र यदा येषु यैर्द्रव्यैस्तद्वदाम्यहम् ॥२॥

ब्राह्मणैः क्षत्रियैर्वैश्यैः श्राद्धं स्ववरणोदितम् ।
कुलधर्ममनुतिष्ठद्भिर्दातव्यं मन्त्रपूर्वकम् ॥३॥

स्त्रीभिर्वर्णावरैः शूद्रैर्विप्राणामनुशासनात् ।
अमन्त्रकं विधिपूर्वं वह्नियागविवर्जितम् ॥४॥

पुष्करादिषु तीर्थेषु पुण्येष्वायतनेषु च ।
शिखरेषु गिरीन्द्राणां पुण्यदेशेषु भो द्विजाः ॥५॥

सरित्सु पुण्यतोयासु नदेषु च सरःसु च ।
संगमेषु नदीनां च समुद्रेषु च सप्तसु ॥६॥

स्वनुलिप्तेषु गेहेषु स्वष्वनुज्ञापितेषु च ।
दिव्यपादपमूलेषु यज्ञियेषु ह्रदेषु च ॥७॥

श्राद्धमेतेषु दातव्यं वर्ज्यमेतेषु चोच्यते ।
किरातेषु कलिङ्गेषु कोङ्कणेषु कृमिष्वपि ॥८॥

दशार्णेषु कुमार्येषु तङ्गणेषु क्रथेष्वपि ॥
सिन्धोरुत्तरकूलेषु नर्मदायाश्च दक्षिणे ॥९॥

पूर्वेषु करतोयाया न देयं श्राद्धमुच्यते ।
श्राद्धं देयमुशन्तीह मासि मास्युडुपक्षये ॥१०॥

पौर्णमासेषु(?)श्राद्धं च कर्तव्यमृक्षगोचरे ।
नित्यश्राद्धमदैवं च मनुष्यैः सह गीयते ॥११॥

नैमित्तिकं सुरैः सार्धं नित्यं नैमित्तिकं तथा ।
काम्यान्यन्यानि श्राद्धानि प्रतिसंवत्सरं द्विजैः ॥१२॥

वृद्धिश्राद्धं च कर्तव्यं जातकर्मादिकेषु च ।
तत्र युग्मान्द्विजानाहुर्मन्त्रपूर्वं तु वै द्विजाः ॥१३॥

कन्यां गते सवितरि दिनानि दश पञ्च च ।
पूर्वेणैवेह विधिना श्राद्धं तत्र विधीयते ॥१४॥

प्रतिपद्धनलाभाय द्वितीया द्विपदप्रदा ।
पुत्रार्थिनी तृतीया तु चतुर्थी शत्रुनासिनी ॥१५॥

श्रियं प्राप्नोति पञ्चम्यां षष्ठ्यां पूज्यो भवेन्नरः ।
गणाधिपत्यं सप्तम्यामष्टम्यां बुद्धिमुत्तमाम् ॥१६॥

स्त्रियो नवम्यां प्राप्नोति दशम्यां पूर्णकामताम् ।
वेदांस्तथाऽऽप्नुयात्सर्वानेकादश्यां क्रियापरः ॥१७॥

द्वादश्यां जयलाभं च प्राप्नोति पितृपूजकः ।
प्रजावृद्धिं पशुं मेधां स्वातन्त्र्यं पुष्टिमुत्तमाम् ॥१८॥

दीर्घायुरथमैश्वर्यं कुर्वाणस्तु त्रयोदशीम् ।
अवाप्नोति न संदेहः श्राद्धं श्रद्धासमन्वितः ॥१९॥

यथासंभविनाऽन्नेन श्राद्धं श्रद्धासमन्वितः ।
युवानः पितरो यस्य मृताः शस्त्रेण वा हताः ॥२०॥

तेन कार्यं चतुर्दश्यां तेषां तृप्तिमभीप्सता ।
श्राद्धं कुर्वन्नमावास्यां यत्नेन पुरुषः शुचिः ॥२१॥

सर्वान्कामानवाप्नोति स्वर्गं चानन्तमश्नुते ।
अतः परं मुनिश्रेष्ठाः श्रृणुध्वं वदतो मम ॥२२॥

पितॄणां प्रीतये यत्र यद्‌देयं प्रीतिकारिणा ।
मासं तृप्तिः पितॄणां तु हविष्यान्नेन जायते ॥२३॥

मासद्वयं मत्स्यमांसैस्तृप्तिं यान्ति पितामहाः ।
त्रीन्मासान्हारिणं मांसं विज्ञेयं पितृतृप्तये ॥२४॥

पुष्णाति चतुरो मासाञ्शशस्य पिशितं पितृन् ।
शाकुनं पञ्च वै मासान्षण्मासाञ्शूकरामिषम् ॥२५॥

छागलं सप्त वै मासानैणेयं चाष्टमासकान् ।
करोति तृप्तिं नव वै रुरुमांसं न संशयः ॥२६॥

गव्यं मांसं पितृतृप्तिं करोति दशमासिकीम् ।
तथैकादश मासांस्तु औरभ्रं पितृतृप्तिदम् ॥२७॥

संवत्सरं तथा गव्यं पयः पायसमेव च ।
वाध्रीनमा(र्धोणसा)मिषं लोहं कालशाकं तथा मधु ॥२८॥

रोहितामिषमन्नं च दत्तान्यात्मकुलोद्‌भवैः ।
अनन्तं वै प्रयच्छन्ति तृप्तियोगं सुतांस्तथा ॥२९॥

पितॄणां नात्र संदोहो गयाश्राद्धं च भो द्विजाः ।
यो ददाति गुडोन्मिश्रांस्तिलान्वा श्राद्धकर्मणि ॥३०॥

मधु वा मधुमिश्रं वा अक्षयं सर्वमेव तत् ।
अपि नः स कुले भूयाद्यो नो दद्याज्जलाञ्जलिम् ॥३१॥

पायसं मधुसंयुक्तं वर्षासु च मघासु च ।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥३२॥

गौरीं वाऽप्युद्वहेत्कन्यां नीलं वा वृषमुत्सृजेत् ।
कृत्तिकासु पितॄनर्च्य स्वर्गमाप्नोति मानवः ॥३३॥

अपत्यकामो रोहिण्यां सौम्ये तेजस्वितां लभेत् ।
शौर्यमार्द्रासु चाऽऽप्नोति क्षेत्राणि च पुनर्वसौ ॥३४॥

पुष्ये तु धनमक्षय्यमाश्लेषे चाऽऽयुरुत्तमम् ।
मघासु च प्रजां पुष्टिं सौभाग्यं फाल्गुनीषु च ॥३५॥

प्रधानशीलो भवति सापत्यश्चोत्तरासु च ।
प्रयाति श्रेष्ठतां शास्त्रे हस्ते श्राद्धप्रदो नरः ॥३६॥

रूपं तेजश्च चित्रासु तथाऽऽपत्यमवाप्नुयात् ।
वाणिज्यलाभदा स्वाती विशाखा पुत्रकामदा ॥३७॥

कुर्वन्तां चानुराधासु ता दद्युश्चक्रवर्तिताम् ।
आधिपत्यं च ज्येष्ठासु मूले चाऽऽरोग्यमुत्तमम् ॥३८॥

आषाढासु यशः प्राप्तिरुत्तरासु विशोकता ।
श्रवणेन शुभांल्लोकान्धनिष्ठासु धनं महत् ॥३९॥

वेदवित्त्वमभिजिति भिषक्सिद्धिं च वारुणे ।
अजाविकं प्रौष्ठपद्यां विन्देद्‌गावस्त(श्च त)थोत्तरे ॥४०॥

रेवतीषु तथा कुप्यमश्विनीषु तुरङ्गमान् ।
श्राद्धं कुर्वंस्तथाऽऽप्नोति भरणीष्वायुरुत्तमम् ॥४१॥

एवं फलमवाप्नोति ऋक्षेष्वेतेषु तत्त्ववित् ।
तस्मात्काम्यानि श्राद्धानि देयानि विधिवद्‌द्विजाः ॥४२॥

कन्याराशिगते सूर्ये फलमत्यन्तमिच्छता ।
यान्यान्कामानभिध्यायन्कन्याराशिगते रवौ ॥४३॥

श्राद्धं कुर्वन्ति मनुजास्तांस्तान्कामाँल्लभन्ति ते ।
नान्दीमुखानां कर्तव्यं कन्याराशिगते रवौ ॥४४॥

पौर्णमास्यां तु कर्तव्यं वाराहवचनं यथा ।
दिव्यभौमान्तरिक्षाणि स्थावराणि चराणि च ॥४५॥

पिण्डमिच्छन्ति पितरः कन्याराशिगते रवौ ।
कन्यां गते सवितरि यान्यहानि तु षोडश ॥४६॥

क्रतुभिस्तानि तुल्यानि देवो नारायणोऽब्रवीत् ।
राजसूयाश्वमेधाभ्यां य इच्छेद्‌दुर्लभं फलम् ॥४७॥

अप्यम्बुशाकमूलाद्यैः पितॄन्कन्यागतेऽर्तयेत् ।
उत्तराहस्तनक्षत्रगते तीक्ष्णांशुमालिनि ॥४८॥

योऽर्चयेत्स्वपितॄन्भक्त्या तस्य वासस्त्रिविष्टपे ।
हस्तर्क्षगे दिनकरे पितृराजानुशासनात् ॥४९॥

तावत्पितृरुरी शून्या यावद्‌वृश्चिकदर्शनम् ।
वृश्चिके समतिक्रान्ते पितरो दैवतैः सह ॥५०॥

निः श्वस्य प्रतिगच्छन्ति शापं दत्त्वा सुदुः सहम् ।
अष्टकासु च कर्तव्यं श्राद्धं मन्वन्तरासु वै ॥५१॥

अन्वष्टकासु क्रमशो मातृपूर्वं तदिष्यते ।
ग्रहणे च व्यतीपाते रविचन्द्रसमागमे ॥५२॥

जन्मर्क्षे ग्रहपीडायं श्राद्धं पार्वणमुच्यते ।
अयनद्वितये श्राद्धं विषुवद्वितये तथा ॥५३॥

संक्रान्तिषु च कर्तव्यं श्राद्धं विधिवदुत्तमम् ।
एषु कार्यं द्विजाः श्राद्धं पिण्डनिर्वापणावृते ॥५४॥

वैशाखस्य तृतीयायां नवम्यां कार्तिकस्य च ।
श्राद्धं कार्यं तु शुक्लायां संक्रान्तिविधिना नरैः ॥५५॥

त्रयोदश्यां भाद्रपदे माघे चन्द्रक्षयेऽहनि ।
श्राद्धं कार्यं पायसेन दक्षिणायनवच्च तत् ॥५६॥

यदा च श्रोत्रियोऽभ्येति गेहं वेदविदग्निमान् ।
तेनैकेन च कर्तव्यं श्राद्धं विधिवदुत्तमम् ॥५७॥

श्राद्धीयद्रव्यसंप्राप्तिर्यदा स्यात्साधुसंमता ।
पार्वणेन विधानेन श्राद्धं कार्यं तथा द्विजैः ॥५८॥

प्रतिसंवत्सरं कार्यं मातापित्रोरमृतेऽहनि ।
पितृव्यस्याप्यपुत्रस्य भ्रातुर्ज्येष्ठस्य चैव हि ॥५९॥

पार्वणं देवपूर्वं स्यादेकोद्दिष्टं सुरैर्विना ।
द्वौ दैवे पितृकार्यं त्रीनेकैकमुभयत्र वा ॥६०॥

मातामहानामप्येवं सर्वमूहेन कीर्तितम् ।
प्रेतीभूतस्य सततं भुवि पिण्डं जलं तथा ॥६१॥

सतिलं सकुशं दद्याद्‌बहिर्जलसमीपतः ।
तृतीयेऽह्नि च कर्तव्यं प्रेतास्थिचयनं द्विजैः ॥६२॥

दशाहे ब्राह्मणः शुद्धो द्वादशाहेन क्षत्रियः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥६३॥

सूतकान्ते गृहे श्राद्धमेकोदिदष्टं प्रचक्षते ।
द्वादशेऽहनि मासे च त्रिपक्षे च ततः परम् ॥६४॥

मासि मासि च कर्तव्यं यावत्संवत्सरं द्विजाः ।
ततः परतरं कार्यं सपिण्डिकरणं क्रमात् ॥६५॥

कृते सपिण्डीकरणे पार्वणं प्रोच्यते पुनः ।
ततः प्रभृति निर्मुक्ताः प्रेतत्वात्पितृतां गताः ॥६६॥

अमूर्ता मूर्तिमन्तश्च पितरो द्विविधाः स्मृताः ।
नान्दीमुखास्त्वमूर्ताः स्युमूर्तिमन्तोऽथ पार्वणाः ॥
एकोद्दिष्टाशिनः प्रेताः पितॄणां निर्णयस्त्रिधा ॥६७॥

मुनय ऊचुः
कथं सपिण्डीकरणं कर्तव्यं द्विजसत्तम ।
प्रेतिभूतस्य विधिवद्‌ब्रूहि नो वदतां वर ॥६८॥

व्यास उवाच
सपिण्डीकरणं विप्राः श्रृणुध्वं वदतो मम ।
तच्चापि देवरहितमेकार्घैकपवित्रकम् ॥६९॥

नैवाग्नौकरणं तत्र तच्चाऽऽवाहनवर्जितम् ।
अपसव्यं च तत्रापि भोजयेदयुजो द्विजान् ॥७०॥

विशेषस्तत्र चान्योऽस्ति प्रतिमासक्रियादिकः ।
तं कथ्यमानमेकाग्राः श्रृणुध्वं मे द्विजोत्तमाः ॥७१॥

तिलगन्धोकैर्युक्तं तत्र पात्रचतुष्टयम् ।
कुर्यात्पितॄणां त्रितयमेकं प्रेतस्य च द्विजाः ॥७२॥

पात्रत्रये प्रेतपात्रादर्घं चैव प्रसेचयेत् ।
ये समाना इति जपन्पूर्ववच्छेषमाचरेत् ॥७३॥

स्ग्रीणामप्येवमेव स्यादेकोद्दिष्टमुदाहृतम् ।
सपिण्डीकरणं तासां पुत्राभावे न विद्यते ॥७४॥

प्रीतसंवत्सरं कार्यमेकोद्दिष्टं नरैः स्त्रियाः ।
मृताहनि च तत्कार्यं पितॄणां विधिचोदितम् ॥७५॥

पुत्राभावे सपिण्डास्तु तदभावे सहोदराः ।
कुर्युरेतं विधिं सम्यक्पुत्रस्य च सुताः सुताः ॥७६॥

कुर्यान्मातामहानां तु पुत्रिकातनयस्तथा ।
व्द्यामुष्यायणसंज्ञास्तु मातामहपितामहान् ॥७७॥

पूजयेयुर्यथान्यायं श्राद्धैर्नेमित्तिकैरपि ।
सर्वाभावे स्त्रियः कुर्युः स्वभर्तॄणाममन्त्रकम् ॥७८॥

तदाभावे च नृपतिः कारयेत्त्वकुटुम्बिनाम् ।
तज्जातीयैर्नरैः सम्यग्वाहाद्याः सकलाः क्रियाः ॥७९॥

सर्वेषामेव वर्णानां बान्धवो नृपतिर्यतः ।
एता वः कथिता विप्रा नित्या नैमित्तिकास्तथा ॥८०॥

वक्ष्ये श्राद्धाश्रयामन्यां नित्यनैमित्तिकां क्रियाम् ।
दर्शस्त(र्शं त)त्र निमित्तं तु विद्यादिन्दुक्षयान्वितः(तम्) ॥८१॥

नित्यस्तु नियतः कालस्तस्मिन्कुर्याद्यथोदितम् ।
सपिण्डकरणादूर्ध्वं पितुर्यः प्रपितामहः ॥८२॥

स तु लेपभुजं याति प्रलुप्तः पितृपिण्डतः ।
तेषां हि यश्चतुर्थोऽन्यः स तु लेपभुजो भवेत् ॥८३॥

सोऽपि संबन्धतो हीनमुपभोगं प्रपद्यते ।
पिता पितामहश्चैव तथैव प्रपितामहः ॥८४॥

पिण्डसंबन्धिनो ह्येते विज्ञेयाः पुरुषास्त्रयः ।
लेपसंबन्धिनश्चान्ये पितामहपितामहात् ॥८५॥

प्रभृत्युक्तास्त्रयस्तेषां यजमानश्च सप्तमः ।
इत्येष मुनिभिः प्रोक्तः संबन्धः साप्तपौरुषः ॥८६॥

यजमानात्प्रभृत्यूर्ध्वमनुलेपभुजस्तथा ।
ततोऽन्ये पूर्वजाः सर्वे ये चान्ये नरकौकसः ॥८७॥

येऽपि तिर्यक्त्वमापन्ना ये च भूतादिसंस्थिताः ।
तान्सर्वान्यजमानो वै श्राद्धं कुर्वन्यथाविधि ॥८८॥

स समाप्यायते विप्रा येन येन वदामि तत् ।
अन्नप्रकिरणं यत्तु मनुष्यैः क्रियते भुवि ॥८९॥

तेन तृप्तिमुपायान्ति ये पिशाचत्वमागताः ।
यदम्बु स्नानवस्त्रोत्थं भूमौ पतति भो द्विजाः ॥९०॥

तेन ये तरुतां प्राप्तास्तेषां तृप्तिः प्रजायते ।
यास्तु गन्धाम्बुकणिकाः पतन्ति धरणीतले ॥९१॥

ताभिराप्यायनं तेषां देवत्वं ये कुले गताः ।
उद्धतेष्वथ पिण्डेषु याश्चाम्बुकणिका भुवि ॥९२॥

ताभिराप्यायनं तेषां ये तिर्यक्त्वं कुले गताः ।
यो चादन्ताः कुले बालाः क्रियायोगाद्‌बहिष्कृताः ॥९३॥

विपन्नास्त्वनधिकाराः संमार्जितजलाशिनः ।
भुक्त्वा चाऽऽचामतां यच्च यज्जलं चाङ्‌घ्रिशौचजम् ॥९४॥

ब्राह्मणानां तथैवान्यत्तेन तृप्तिं प्रयान्ति वै ।
एवं यो यजमानस्य यश्च तेषां द्विजन्मनाम् ॥९५॥

कश्चिज्जलान्नविक्षेपः शुचिरुच्छिष्ट एव वा ।
तेनान्नेन कुले तत्र ये च योन्यन्तरं गताः ॥९६॥

प्रयान्त्याप्यायनं विप्राः सम्यक्श्राद्धक्रियावताम् ।
अन्यायोपार्जितैरर्थैर्यच्छ्राद्धं क्रियते नरैः ॥९७॥

तृप्यन्ते ते न चाण्डालपुल्कसाद्यासु योनिषु ।
एवमाप्यायनं विप्रा बहूनामेव बान्धवैः ॥९८॥

श्राद्धं कुर्वद्‌भिरत्राम्बुविक्षेपैः संप्रजायते ।
तस्माच्छ्राद्धं नरो भक्त्या शाकेनापि यथाविधि ॥९९॥

कुर्वीत कुर्वतः श्राद्धं कुले कश्चिन्न सीदति ।
श्राद्धं देयं तु विप्रेषु संयतेष्वग्निहोत्रिषु ॥१००॥

अवदातेषु विद्वत्सु श्रोत्रियेषु विशेषतः ।
त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः षडङ्गवित् ॥१०१॥

मातापितृपरश्चैव स्वस्रीयः सामवेदवित् ।
ऋत्विक्पुरोहिताचार्यमुपाध्यायं च भोजयेत् ॥१०२॥

मातुलः श्वशुरः श्यालः संबन्धी द्रोणपाठकः ।
मण्डलब्राह्मणो यस्तु पुराणार्थविशारदः ॥१०३॥

अकल्पः कल्पसंतृष्टः प्रतिग्रहविवर्जितः ।
एते श्राद्धे नियोक्तव्या ब्राह्मणाः पङ्क्तिपावनाः ॥१०४॥

निमन्त्रयेन पूर्वेद्युः पूर्वोक्तान्द्विजसत्तमान् ।
दैवे नियोगे पित्र्ये च तांस्तथैवोपकल्पयेत् ॥१०५॥

तैश्च संयमिभिर्भाध्यं यस्तु श्राद्धं करिष्यति ।
श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं योऽधिगच्छति ॥१०६॥

पितरस्तस्य वै मासं तस्मिन्प्रेतसि शेरते ।
गत्वां च योषितं श्राद्धं यो भुङ्क्ते यस्तु ग(य)च्छति ॥१०७॥

रेतोमूत्रकृताहारास्तं मासं पितरस्तयोः ।
तस्मात्त्व(त्तु)प्रथमं कार्यं प्राज्ञेनोपनिमन्त्रणम् ॥१०८॥

अप्राप्तौ तद्दिने वाऽपि वर्ज्या योषित्प्रसङ्गिनः ।
भिक्षार्थमागतांश्चापि कालेन संयतान्यतीन् ॥१०९॥

भोजयेत्प्रणिपाताद्यैः प्रसाद्य यतमानसः ।
योगिनश्च तदा श्राद्धे भोजनीया विपश्चिता ॥११०॥

योगाधारा हि पितरस्तस्मात्तान्पूजयेत्सदा ।
ब्राह्मणानां सहस्राणि एको योगी भवेद्यदि ॥१११॥

यजमानं च भोक्तॄंश्च नौरिवाम्भसि तारयेत् ।
पितृगाथा तथैवात्र गीयते ब्रह्मवादिभिः ॥११२॥

या गीता पितृभिः पूर्वमैलस्याऽऽसीन्महीपतेः ।
कदा नः संततावग्य्रः कस्यचिद्भविता सुतः ॥११३॥

यो योगिभुक्तशेषान्नो भुवि पिण्डान्प्रदास्यति ।
गयायामथवा पिण्डं खड्गमांसं तथा हविः ॥११४॥

कालशाकं तिलाज्यं च तृप्तये कृसरं च नः ।
वैश्वदेवं च सौम्यं च खड्गमांसं परं हविः ॥११५॥

विषाणवर्जं शिरसा पादादाशिषामहे ।
दद्याच्छ्राद्धं त्रयोदश्यां मघासु च यथाविधि ॥११६॥

मधुसर्पिःसमायुक्तं पायसं दक्षिणायने ।
तस्मात्संपूजयेद्‌भक्त्या स्वपितॄन्विधिवन्नरः ॥११७॥

कामानभिप्सन्सकलान्पापादात्मविमोचनम् ।
वसून्रुद्रांस्तथाऽऽदित्यान्नक्षत्रग्रहतारकाः ॥११८॥

प्रीणयन्ति मनुष्याणां पितरः श्राद्धतर्पिताः ।
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ॥११९॥

प्रयच्छन्ति तथा राज्यं पितरः श्राद्धतर्पिताः ।
तथाऽपराह्णाः पूर्वाह्णात्पितॄणामतिरिच्यते ॥१२०॥

संपूज्य स्वागतेनैतान्सदनेऽभ्यागतान्द्विजान् ।
पवित्रपाणिराचान्तानासनेषूपवेशयेत् ॥१२१॥

श्राद्धं कृत्वा विधानेन संभोज्य च द्विजोत्तमान् ।
विसर्जयोत्प्रियाण्युक्त्वा प्रणिपत्य च भक्तितः ॥१२२॥

आद्वारमनुगच्छेच्च आगच्छेदनुमोदितः ।
ततो नित्यक्रियां कुर्याद्‌भोजयेच्च तथाऽतिथीन् ॥१२३॥

नित्यक्रियां पितॄणां च केचिदिच्छन्ति सत्तमाः ।
न पितॄणां तथैवान्ये शेषं पूर्ववदाचरेत् ॥१२४॥

पृथक्त्वेन वदनत्यन्ये केचित्पूर्वं च पूर्ववत् ।
ततस्तदन्नं भुञ्जीत सह भृत्यादिभिर्नरः ॥१२५॥

एवं कुर्वीत धर्मज्ञः श्राद्धं पित्र्यं समाहितः ।
यथा च विप्रमुख्यानां परितोषोऽभिजायते ॥१२६॥

इदानीं संप्रवक्ष्यामि वर्जनीयान्द्विजाधमान् ।
मित्रध्रुक्कुनखी क्लीबः क्षयी शुक्ली वणिक्पथः ॥१२७॥

श्यावदन्तोऽथ खल्वाटः काणोऽन्धो बधिरो जडः ।
मूकः पङ्गुः कुणिः षण्ढो दुश्चर्मा व्यङ्गकेकरौ ॥१२८॥

कुष्ठी रक्तेक्षणः कुब्जो वामनो विकटोऽलसः ।
मित्रसत्रुर्दुष्कुलीनः पशुपालो निरागृतिः ॥१२९॥

परिवित्तिः परिवेत्ता परिवेदनिकासुतः ।
वृषलीपतिस्तत्सुतश्च न भवेच्छ्राद्धभुग्द्विजः ॥१३०॥

वृषलीपुत्रसंस्कर्ता अनुढो दिधिषूपतिः ।
भृतकाध्यापको यस्तु भृतकाध्यापितश्च यः ॥१३१॥

सूतकान्नोपजीवी च मृगयुः सोमविक्रयी ।
अभिशस्तस्तथा स्तेनः पतितो वार्धुषिः शठः ॥१३२॥

पिशुनो वेदसंत्यागी दानाग्नित्यागनिष्ठुरः ।
राज्ञः पुरोहितो भृत्यो विद्याहीनोऽथ मत्सरी ॥१३३॥

वृद्धद्विड्दुर्धरः क्रूरो मूढो देवलकस्तथा ।
नक्षत्रसूचकश्चैव पर्वकारश्च गर्हितः ॥१३४॥

अयाज्ययाजकः षण्ढो गर्हिता ये च येऽधमाः ।
न ते श्राद्धे नियोक्तव्या दृष्ट्वाऽमी पङ्क्तिदूषकाः ॥१३५॥

असतां प्रग्रहो यत्र सतां चैवावमानना ।
दण्डो देवकृतस्तत्र सद्यः पतति दारुणः ॥१३६॥

हित्वाऽऽगमं सुविहितं बालिशं यस्तु भोजयेत् ।
आदिधर्मं समुत्सृज्य दाता तत्र विनश्यति ॥१३७॥

यस्त्वाश्रितं द्विजं त्यक्त्वा अन्यमानीय भोजयेत् ।
तन्नः श्वासाग्निनिर्दग्धस्तत्र दाता विनश्यति ॥१३८॥

वस्त्राभावे क्रिया नास्ति यज्ञा वेदास्तपांसि च ।
तस्माद्वासांसि देयानि श्राद्धकाले विशेषतः ॥१३९॥

कौशेयं क्षौमकार्पासं दुकूलमहतं तथा ।
श्राद्धे त्वेतानि यो दद्यात्कामानाप्नोति चोत्तमान् ॥१४०॥

यथा गोषु प्रभूतासु वत्सो विन्दति मातरम् ।
तथाऽन्नं तत्र विप्राणां जन्तुर्यत्रावतिष्ठते ॥१४१॥

नामगोत्रं च मन्त्राश्च दत्तमन्नं नयन्ति ते ।
अपि ये निधनं प्राप्तास्तृप्तिस्तानुपतिष्ठते ॥१४२॥

देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमः स्वाहायै स्वधायै नित्यमेव भवन्त्विति ॥१४३॥

आद्यावसाने श्राद्धस्य त्रिरावृत्त्या जपेत्तदा ।
पिण्डनिर्वपणे वाऽपि जपेदेवं समाहितः ॥१४४॥

क्षिप्रमायान्ति पितरो राक्षसाः प्रद्रवन्ति च ।
प्रीयन्ते त्रिषु लोकेषु मन्त्रोऽयं तारयत्युत ॥१४५॥

क्षौमसूत्रं नवं दद्याच्छा(च्छो)णं कार्पासिकं तथा ।
पत्रोर्णं पट्टसूत्रं च कौशेयं च विवर्जयेत् ॥१४६॥

वर्जयेच्चादशं प्राज्ञो यद्यप्यव्याहतं भवेत् ।
न प्रीणयन्त्यथैतानि दातुश्चाप्यनयो भवेत् ॥१४७॥

न निवेद्ये भवेद्पिण्डः पितॄणां यस्तु जीवति ।
इष्टेनान्नेन भक्ष्येण भोजयेत्तं यथाविधि ॥१४८॥

पिण्डमग्नौ सदा दद्याद्‌भोगार्थो सततं नरः ।
पत्न्यै दद्यात्प्रजार्थो च मध्यमं मन्त्रपूर्वकम् ॥१४९॥

उत्तमां द्युतिमन्विच्छन्पिण्डं गोषु प्रयच्छति ।
प्रज्ञो चैव यशः सीर्तिमप्सु चैव निवेदयेत् ॥१५०॥

प्रार्थयन्दीर्घमायुश्च वायसेभ्यः प्रयच्छति ।
कुमारशालामन्विच्चन्कुक्कुटेभ्यः प्रयच्छति ॥१५१॥

एके विप्राः पुनः प्राहुः पिण्डोद्धरणग्रतः ।
अनुज्ञातस्तु विप्रैस्तैः काममुद्ध्रियतामिति ॥१५२॥

तस्माच्छ्राद्धं तथा कार्यं यथोक्तमृषिभिः पुरा ।
अन्यथा तु भवेद्दोषः पितॄणां नोपतिष्ठति ॥१५३॥

यवैर्व्रीहितिलैर्माषैर्गोधूमैश्चणकैस्तथा ।
संतर्पयेत्पितॄनमुद्‌गैः श्यामाकैः सर्षपद्रवैः ॥१५४॥

नीवारैर्हस्तिश्यामाकैः प्रियङ्गुभिस्तथाऽऽर्घयेत् ।
प्रसातिकां(अस्तिकाः)सतूलिकां द(तीलकान्द)द्याच्छ्राद्धे विचक्षणः ॥१५५॥

आम्रमाम्रातकं बिल्वं दाडिमं बीजपूरकम् ।
प्राचीनामलकं क्षीरं नारिकेलं परुषकम् ॥१५६॥

नारङ्गं च सखर्जूरं द्राक्षानीलकपित्थकम् ।
पटोलं च प्रियालं च कर्कन्धूबदराणि च ॥१५७॥

विकङ्कतं वत्सकं च कस्त्वारु(र्कारू)र्वारकानपि ।
एतानि फलजातानि श्राद्धे देयानि यत्नतः ॥१५८॥

गुडशर्करमत्स्यण्डी देयं फाणितमूर्मुरम् ।
गव्यं पयो दधि घृतं तैलं च तिलसंभवम् ॥१५९॥

सैन्धवं सागरोत्थं च लवणं सारसं तथा ।
निवेदयेच्छुचीन्गन्धांश्चन्दनागुरुकुङ्कुमान् ॥१६०॥

कालशाकं तन्दुलीयं वास्तुकं मूलकं तथा ।
शाकमारण्यकं चापि दद्यात्पुण्पाण्यमूनि च ॥१६१॥

जातिचम्पकलोध्राश्च मल्लिकाबाणबर्बरी ।
वृन्ताशोकाटरूषं च तुलसी तिलकं तथा ॥१६२॥

पावन्तीः शतपत्रां च गन्धशोफालिकामपि ।
कुब्जकं तगरं चैव मृगमारण्यकेतकीम् ॥१६३॥

यूथिकामतिमुक्तं च श्राद्धयोग्यानि भो द्विजाः ।
कमलं कुमुदं पद्मं पुण्डरीकं च यत्नतः ॥१६४॥

इन्दीवरं कोकनदं कह्लारं च नियोजयेत् ।
कुष्ठं मांसी बालकं च कुक्कुटी जातिपत्रकम् ॥१६५॥

नलिकोशीरमुस्तं च ग्रन्थिपर्णी च सुन्दरी ।
पुनरप्येवमादीनि गन्धयोग्यानि चक्षते ॥१६६॥

गुग्गुलुं चन्दनं चैव श्रीवासमगुरुं तथा ।
धूपानि पितृयोग्यानि ऋषिगुग्गुलमेव च ॥१६७॥

राजमाषांश्च चणकान्मसूरन्कोरदूषकान् ।
विप्रुषान्मर्कटांश्चैव कोद्रवांश्चैव वर्जयेत् ॥१६८॥

माहिषं चामरं मार्गमाविकैकशफोद्भवम् ।
स्त्रैणमौष्ट्रमाविकं च दधि क्षीरं घृतं त्यजेत् ॥१६९॥

तालं वरुणकाकोलौ बहुपत्रार्जुनीफलम् ।
जम्बीरं रक्तबिल्वं च शालस्यापि फलं त्यजेत् ॥१७०॥

मत्स्यसूकरकूर्माश्च गावो वर्ज्या विशेषतः ।
पूतिकं मृगनाभिं च रोचनां पद्मचन्दनम् ॥१७१॥

कालेयकं तूग्रगन्धं तुरुष्कं चापि वर्जयेत् ।
पालङ्कं च कुमारीं च किरातं पिण्डमूलकम् ॥१७२॥

गृञ्जनं चुक्रिकां चुक्रं वरुमां चनपत्रिकाम् ।
जीवं च शतपुष्पां च नालिकां गन्धशूकरम् ॥१७३॥

हलभृत्यं सर्षपं च पलाण्डुं लशुनं त्यजेत् ।
मानकन्दं विषकन्दं वज्रकन्दं गदास्थिकम् ॥१७४॥

पुरुषाल्वं सपिण्डालुं श्राद्धकर्मणि वर्जयेत् ।
अलाबुं तिक्तपर्णां च कूष्माण्डं कटुकत्रयम् ॥१७५॥

वार्ताकं शिवजातं च लोमशानि वटानि च ।
कालीयं रक्तवाणां च बलाकां लकुचं तथा ॥१७६॥

श्राद्धकर्मणि वर्ज्यानि विभीतकफलं तथा ।
आरनालं च शुक्तं च शीर्णं पर्युषितं तथा ॥१७७॥

नोग्रागन्धं च दातव्यं कोविदारकशिग्रुकौ ।
अत्यम्लं पिच्छिलं सूक्ष्मं यातयामं च सत्तमाः ॥१७८॥

न च देयं गतरसं मद्यगन्धं च यद्भवेत् ।
हिङ्गूग्रगन्धं फणिशं भूनिम्बं निम्बराजिके ॥१७९॥

कुस्तुम्बुरुं कलिङ्गोत्थं वर्जयेदम्लवेतसम् ।
दाडिमं मागधीं चैव नागरार्द्रकतित्तिडीः ॥१८०॥

आम्रातकं जीवकं च तुम्बुरुं च नियोजयेत् ।
पायसं शाल्लीमुद्रान्मोदकादींश्च भक्तितः ॥१८१॥

पानकं च रसालं च गोक्षीरं च निवेदयेत् ।
यानि चाभ्यवहार्याणि स्वादुस्निग्धानि भो द्विजाः ॥१८२॥

ईषदम्लकटून्येव देयानि श्राद्धकर्मणि ।
अत्यम्लं चातिलवणमतिरिक्तकटूनि च ॥१८३॥

आसुराणीह भोज्यानि तान्यतो दूरतस्त्यजेत् ।
मृष्टस्निग्धानि यानि स्युरीषत्कट्‌वम्लकानि च ॥१८४॥

स्वादूनि देवभोज्यानि तानि श्राद्धे नियोजयेत् ।
छागमांसं वार्तिकं च तैत्तिरं शशकामिषम् ॥१८५॥

शिवालावकराजीवमांसं श्राद्धे नियोजयेत् ।
वाघ्रीणसं रक्तशिवं लोहं शल्कसमन्वितम् ॥१८६॥

सिंहतुण्डं च खड्गं च श्राद्धे योज्यं तथोच्यते ।
यदप्युक्तं हि मनुना रोहितं प्रतियोजयेत् ॥१८७॥

योक्तव्यं हव्यकव्येषु तथा न विप्रयोजयेत् ।
एवमुक्तं मया विप्रा वाराहेणावलोकितम् ॥१८८॥

मया निषिद्धं भुञ्जानो रौरवं नरकं व्रजेत् ।
एतानि च निषिद्धानि वाराहेण तपोधनाः ॥१८९॥

अभक्ष्याणि द्विजातीनां न देयानि पितृष्वपि ।
रोहितं शूकरं कूर्मं गोधाहंसं च वर्जयेत् ॥१९०॥

चक्रवाकं च मद्गुं च शल्कहीनांश्च मत्स्यकान् ।
कुररं च निरस्थिं च वासहातं च(?)कुक्कुटान् ॥१९१॥

कलविङ्कमयूरांश्च भारद्वाजांश्च शार्ङ्गकान् ।
नकुलोलूकमार्जारांल्लोपानन्यान्सुदुर्ग्रहान् ॥१९२॥

टिट्टिभान्सार्धजम्बूकान्व्याघ्रॠक्षतरक्षुकान् ।
एतानन्यांश्च संदुष्टान्यो भक्षयति दुर्मतिः । ॥१९३॥

स महापापकारी तु रौरवं नरकं व्रजेत् ।
पितृष्वेतांस्तु यो दद्यात्पापात्मा गर्हितामिषान् ॥१९४॥

स स्वर्गस्थानपि पितॄन्नरके पातयिष्यति ।
कुसुम्भशाकं जम्बीरं सिग्रुकं कोविदारकम् ॥१९५॥

पिण्याकं विप्रुषं चैव मसूरं गृञ्जनं शणम् ।
कोद्रवं कोकिलाक्षं च चक्रं कम्बुकपद्मकम् ॥१९६॥

चकोरश्येनमांसं च बर्तुलालबुतालिनीम् ।
फलं तालतरूणां च भुक्त्या नरकमृच्छति ॥१९७॥

दत्त्वा पितृषु तैः सार्धः ब्रजेत्पूयवहं नरः ।
तस्मात्सर्वप्रयत्नेन नाऽऽहरेत्तु विचक्षणः ॥१९८॥

निषिद्धानि वराहेण स्वयं पित्रर्थमादरात् ।
वरमेवाऽऽत्ममांसस्य भक्षणं मुनयः कृतम् ॥१९९॥

न त्वेव हि निषिद्धानामादानं पुंभिरादरात् ।
अज्ञानाद्वा प्रमादाद्वा सकृदेतानि च द्विजाः ॥२००॥

भक्षितानि निषिद्धानि प्रायश्चित्तं ततश्चरेत् ।
फलमूलदधिक्षीरतक्रगोमूत्रयावकैः ॥२०१॥

भोज्यान्नभोज्यसंभुक्ते प्रत्येकं दिनसप्तकम् ।
एवं निषिद्धाचरणे कृते सकृदपि द्विजैः ॥२०२॥

शुद्धिं नेयं शरीरं तु विष्णुभक्तैर्विशेषतः ।
निषिद्धं वर्जयेद्‌द्रव्यं यथोक्तं च द्विजोत्तमाः ॥२०३॥

समाहृत्य ततः श्राद्धं कर्तव्यं निजशक्तितः ।
एवं विधानतः श्राद्धं कृत्वा स्वविभवोचितम् ॥
आब्रह्यस्तम्बपर्यन्तं जगत्प्रीणाति मानव ॥२०४॥

मुनय ऊचुः
पिता जीवति यस्याथ मृतौ द्वौ पितरौ पितुः ।
श्राद्धं हि कर्तव्यमेतद्विस्तरशो वद ॥२०५॥

व्यास उवाच
यस्मै दद्यात्पिता श्राद्धं तस्मै दद्यात्सुतः स्वयम् ।
एवं न हीयते धर्मो लौकिको वैदिकस्तथा ॥२०६॥

मुनय ऊचुः
मृतः पिता जीवति च यस्य ब्रह्मन्पितामहः ।
स हि श्राद्धं कथं कुर्यादेतत्त्वं वक्तुमर्हसि ॥२०७॥

व्यास उवाच
पितुः पिण्डं प्रदद्याच्च भोजयेच्च पितामहम् ।
प्रपितामहास्य पिण्डं वैह्यं शास्त्रेषु निर्णयः ॥२०८॥

मृतेषु पिण्डं दातव्यं जीवन्तं चापि भोजयेत् ।
सपिण्डीकरणं नास्ति न च पार्वणमिष्यते ॥२०९॥

आचारमाचरेद्यस्तु पितृमेधाश्रितं नरः ।
आयुषा धनुपुत्रैश्च वर्धत्याशु न संशयः ॥२१०॥

पितृमेधाध्यायमिमं श्राद्धकालेषु यः पठेत् ।
तदन्नमस्य पितरोऽश्नन्ति च त्रियुगं द्विजाः ॥२११॥

एवं मयोक्तः पितृमेधकल्पः, पापापहः पुण्यविवर्धनश्च ।
श्रोतव्य एष प्रयतैर्नरैश्च, श्राद्धेषु चैवाप्यनुकीर्तयेत ॥२१२॥

इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे श्राद्धकल्पनिरूपणं नाम विंशत्यधिकद्विशततमोऽध्यायः ॥२२०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:45.8030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

condolence

  • पु. दुखवटा 
RANDOM WORD

Did you know?

उगवत्या सूर्याला नमस्कार, मावळत्या का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site