TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ५३

ब्रह्मपुराणम् - अध्यायः ५३

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः ५३
मार्कण्डेयाख्यानम्
ब्रह्मोवाच
ततो गजकुलप्रख्यास्तडिन्मालाविभूषिताः ।
समुत्तस्थुर्महामेघा नभस्यद्‌भुतदर्शनाः ॥१॥

केचिन्नीलोत्पलश्यामाः केचित्कुमुदसंनिभाः ।
केचित्किञ्जल्कसंकाशाः केचित्पीताः पयोधराः ॥२॥

केचिद्धरितसंकाशाः काकाण्डसंनिभस्तथा ।
केचित्कमलपत्राभाः कचिद्धिङ्गुलसंनिभाः ॥३॥

केचित्पुरवराकाराः केचिद्‌गिरिवरोपमाः ।
केचिदञ्जनसंकाशाः केचिन्मरकतप्रभाः ॥४॥

विद्युन्मालापिनद्धाङ्गाः समुत्तस्थुर्महाघनाः ।
घोररूपा महाभागा घोरस्वननिनादिताः ॥५॥

ततोजलधराः सर्वे समावृण्वन्नभस्तलम् ।
तैरियं पृथिवी सर्वा सपर्वतवनाकरा ॥६॥

आपूरिता दिशः सर्वाः सलिलौघपरिप्लुताः ।
ततस्ते जलदा घोरा वारिणा मुनिसत्तमाः ॥७॥

सर्वतः प्लावयामासुश्चोदिताः परमेष्ठिना ।
वर्षमाणा महातोयं पूरयन्तो वसुंधराम् ॥८॥

सुघोरमशिवं रौद्रं नाशयन्ति स्म पावकम् ।
ततो द्वादश वर्षाणि पयोदाः समुप्लवे ॥९॥

धाराबिः पूरयन्तो वै चोद्यमाना महात्मना ।
ततः समुद्राः स्वां वेलामतिक्रामन्ति भो द्विजाः ॥१०॥

पर्वताश्च व्यशीर्यन्त मही चाप्सु निमज्जति ।
सर्वतः सुमहाक्ष्रान्तास्ते पयोदा नभस्तलम् ॥११॥

संवेष्टयित्वा नश्यन्ति वायुवेगसमाहताः ।
ततस्तं मारुतं घोरं स विष्णुर्मुनिसत्तमाः ॥१२॥

आदिपद्मालयो देवः पीत्वा स्वपिति भो द्विजाः ।
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ॥१३॥

नष्टे देवासुरनरे यक्षराक्षसवर्जिते ।
ततो मुनिः स विश्रान्तो ध्यात्वा च पुरुषोत्तमम् ॥१४॥

ददर्श चक्षुरुन्मील्य जलपूर्णां वसुंधराम् ।
नापश्यत्तं वटं नोर्वों न दिगादि न भास्करम् ॥१५॥

न चन्द्रार्काग्निपवनं न देवासुरपन्नगम् ।
तस्मिन्नेकार्णवे घोरे तमोभूते निराश्रये ॥१६॥

निमज्जन्स तदा विप्राः संतर्तुमुपचक्रमे ।
बभ्रामासौ मुनिश्चाऽऽर्त इतश्चेतश्च संप्लवन् ॥१७॥

निममज्ज तदा विप्रास्त्रातारं नाधिगच्छति ।
एवं तं विह्‌वलं दृष्ट्वा कृपया पुरुषोत्तमः ।
प्रोवाच मुनिसार्दूलास्तदा ध्यानेन तोषितः ॥१८॥

श्रीभगवानुवाच
वत्स श्रान्तोऽसि बालस्त्वं भक्तत्र मम सुव्रत ।
आगच्छाऽऽगच्छ शीघ्रं त्वं मार्कण्डेय ममन्तिकम् ॥१९॥

मा त्वयैव च भेतव्यं संप्राप्तोऽसि ममाग्रतः ।
मार्कण्डेय मुने धीर बालस्त्वं श्रमपीडितः ॥२०॥

ब्रह्मोवाच
तस्य तद्वचनं श्रुत्वा मुनिः परमकोपितः ।
उवाच स तदा विप्रा विस्मितश्चाभवन्मुहुः ॥२१॥

मार्कण्डेय उवाच
कोऽयं नाम्ना कीर्तयति तपः परिभवन्निव ।
बहुवर्षसहस्राख्यं धर्षयन्निव मे वपुः ॥२२॥

न ह्येष समुदाचारो देवेष्वपि समाहितः ।
मां ब्रह्मा स च देवेशो दीर्घायुरिति भाषते ॥२३॥

कस्तेपो घोरशिरसो ममाद्य त्यक्तजीवितः ।
मार्कण्डेयेति चोक्त्वा मन्मृत्युं गन्तुमिहेच्छति ॥२४॥

एकमुक्त्वा तदा विप्राश्चिन्ताविष्टोभवन्मुनिः ।
किं स्वप्नोऽयं मया दृष्टः किंवा मोहोऽयमागतः ॥२५॥

इत्यं चिन्तयतस्तस्य उत्पन्ना दुःखहा मतिः ।
व्रजामि शरणं देवं भक्त्याऽहं पुरुषोत्तमम् ॥२६॥

स गत्वा शरणं देवं मुनिस्तद्‌गतमानसः ।
ददर्श तं वटं भूयो विशालं सलिलोपरि ॥२७॥

शाखायां तस्य सौवर्मं विस्तीर्णायां महाद्‌भुतम् ।
रुचिरं दिव्यपर्यङ्कं रचितं विश्वकर्मणा ॥२८॥

वज्रवैदूर्यरचितं मणिविद्रुमशांभतम् ।
पद्मरागादिभिर्जुष्टं रत्नैरन्यैरलंकृतम् ॥२९॥

नानास्तरणसंवीतं नानारत्नोपशोभितम् ।
नानास्चर्यसमायुक्तं प्रभामण्डलमण्डितम् ॥३०॥

तस्योपरि स्थितं देवं कृष्णं बालवपुर्धरम् ।
सूर्यकोटिप्रतीकाशं दीप्यमानं सुवर्चसम् ॥३१॥

चतुर्भुजं सुन्दराङ्गं पद्मपत्रायतेक्षणम् ।
श्रीवत्सवक्षसं देवं शङ्खचक्रगदाधरम् ॥३२॥

वनमालावृतोरस्कं दिव्यकुण्डलधारिणम् ।
हारभारार्पितग्रीवं दिव्यरत्नविभूषितम् ॥३३॥

दृष्ट्वा तदा मुनिर्देवं विस्मयोत्फुल्ललोचनः ।
रोमाञ्चिततनुर्देवं प्रणिपत्येदमब्रवीत् ॥३४॥

मार्कण्‍डेय उवाच
अहो चैकार्णवे घोरे विनष्टे सचराचरे ।
कथमेको ह्ययं बालस्तिष्ठत्यत्र सुनिर्भयाः ॥३५॥

ब्रह्मोवाच
भूतं भव्यं भिष्यं च जानन्नपि महामुनिः ।
न बुबोध तदा देवं मायया तस्य माहितः ।
यदा न बुबुधे चैनं तदा खेदादुवाच ह ॥३६॥

मार्कण्डेय उवाच
वृथा मे तपसो वीर्यं वृथा ज्ञानं वृथा क्रिया ।
वृथा मे जीवितं दीर्घं वृथा मानुष्यमेव च ॥३७॥

योऽहं सप्तं न जानामि पर्यङ्के दिव्यबालकम् ॥३८॥

ब्रह्मोवाच
एवं संचिन्तयन्विप्रः प्लवमानो विचेतनः ।
त्राणार्थं विह्‌वलश्चासौ निर्वेदं गतवांस्तदा ॥३९॥

ततो बालार्कसंकाशं स्वमहिम्ना व्यवस्थितम् ।
सर्वतेजोमयं विप्रा न शशाकाभिवीक्षितुम् ॥४०॥

दृष्ट्वा तं मुनिमायान्तं स बालः प्रहसन्निव ।
प्रोवाच मुनिशार्दूलास्तदा मेघौघनिस्वनः ॥४१॥

श्रीभगवानुवाच
वत्स जानामि त्वां त्राणार्थं मामुपस्थितम् ।
शरीरं विश मे क्षिप्रं पिश्रामस्ते मयोदितः ॥४२॥

ब्रह्मोवाच
श्रुत्वा स वचनं तस्य किंचिन्नोवाच मोहितः ।
विवेश वदनं तस्य विवृतं चावशो मुनिः ॥४३॥

इति श्रीमहापुराणे ब्राह्मे स्वयंभ्वृषिसंवादे मार्कण्डेयप्रलयदर्शनं नाम त्रिपञ्चाशत्तमोऽध्यायः॥ ५३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:36.2700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

suprasellar

  • अधिपर्याण- 
RANDOM WORD

Did you know?

एका क्षणासाठी निमिष ही संज्ञा कशी प्राप्त झाली?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.