TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १७५

ब्रह्मपुराणम् - अध्यायः १७५

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १७५
तीर्थादीनां चातुर्विध्यादिनिरूपणम्
नारद उवाच
त्रिदैवत्यां सुरेशान गङ्गां ब्रूषे सुरेश्वर ।
ब्राह्मणेनाऽऽहृतां पुण्यां जगतः पावनीं शुभाम् ॥१॥

आदिमध्यावसाने च उभयोस्तीरयोरपि ।
या व्याप्ता विष्णुनेशेन त्वया च सुरसत्तम ॥
पुनः संक्षेपतो ब्रूहि न मे तृप्तिः प्रजायते ॥२॥

ब्रह्मोवाच
कमण्डलूस्‌थिता पूर्वं विष्णुपदानुगा ।
महेश्वरजटाजूटे स्थिता सैव नमस्कृता ॥३॥

ब्रह्मतेजः प्रभावेण शिवमाराध्य यत्नतः ।
ततः प्राप्ता गिरिं पुण्यं ततः पूर्वार्णवं प्रति ॥४॥

आगत्य संगता देवी सर्वतीर्थमयी नृणाम् ।
ईप्सितानां तथा दात्री प्रभावोऽस्या विशिष्यते ॥५॥

एतस्या नाधिकं मन्ये किंचित्तीर्थं जगत्त्रये ।
अस्याश्चैव प्रभावेण भाव्यं यच्च मनःस्थितम् ॥६॥

अद्याप्यस्या हि माहात्म्यं वक्तुं कैश्चिन्न शक्यते ।
भक्तितो वक्ष्यते नित्यं या ब्रह्म परमार्थतः ॥७॥

तस्याः परतरं तीर्थं न स्यादिति मतिर्मम ।
अन्यतीर्थेन साधर्म्यं न युज्येत कथञ्चन ॥८॥

श्रुत्वा मद्वाक्यपीयूषैर्गङ्गाया गुणकीर्तनम् ।
सर्वेषां न मतिः कस्मात्तत्रैवोपरितिं गता ॥
इति भाति विचित्र म मुन खलु जगत्त्रये ॥९॥

नारद उवाच
धर्मार्थकाममोक्षाणां त्वं वेत्ता चोपदेशकः ।
छन्दांसि सरहस्यानि पुराणस्मृतयोऽपि च ॥१०॥

धर्मशास्त्राणि यच्चान्यत्तव वाक्ये प्रतिष्ठितम् ।
तीर्थानामथ दानानां यज्ञानां तपसां तथा ॥११॥

देवतामन्त्रसेवानामधिकं किं वद प्रभो ।
यद्‌ब्रूषे भगवन्भक्त्या तथा भाव्यं न चान्यथा ॥१२॥

एतं मे संशयं ब्रह्मन्वाक्यात्त्‌वं छेत्तुमर्हसि ।
इष्टं मनोगतं श्रुत्वा तस्माद्विस्मयमागतः ॥१३॥

श्रृणु नारद वक्ष्यामि रहस्यं धर्ममुत्तमम् ।
चतुर्विधानि तीर्थानि तावन्त्येव युगानि च ॥१४॥

गुणास्त्रयश्च पुरुषास्त्रयो देवाः सनातनाः ।
वेदाश्च स्मृतिभिर्युक्ताश्चत्वारस्ते प्रकीर्तिताः ॥१५॥

पुरुषार्थाश्च चत्वारो वाणी चापि चतुर्विधा ।
गुणा ह्यपि तु चत्वारः समत्वेनेति नारद ॥१६॥

सर्वत्र धर्मः सामान्यो यतो धर्मः सनातनः ।
साध्यसाधनभावेन स एव बहुधा मतः ॥१७॥

तस्याऽऽश्रयश्च द्विविधो देशः कालश्च सर्वदा ।
कालाश्रयश्च यो धर्मो हीयते वर्धते सदा ॥१८॥

युगानामनुरूपेण पादः पादोऽस्य हीयते ।
धर्मस्येति महाप्राज्ञ देशापेक्षा तथोभयम् ॥१९॥

कालेन चाऽऽश्रितो धर्मो देशे नित्यं प्रतिष्ठितः ।
युगेषु क्षीयमाणेषु न देशेषु स हीयते ॥२०॥

उभयत्र विहीने च धर्मस्य स्यादभावता ।
तस्माद्देशाश्रितो धर्मश्चतुष्पात्सुप्रतिष्ठतः ॥२१॥

स चापि धर्मो देशेषु तीर्थरूपेण तिष्ठति ।
कृते देशं च कालं च धर्मोऽवष्टभ्य तिष्ठति ॥२२॥

त्रेतायां पादहीनेन स तु पादः प्रदेशतः ।
द्वापरे चार्धतः काले धर्मो देशे समास्थितः ॥२३॥

कलौ पादेन चैकेन धर्मश्चलति संकटम् ।
एवंविधं तु या धर्मं वेत्ति तस्य न हीयते ॥२४॥

युगानामनुभावेन जातिभेदाश्च संस्थिताः ।
गुणेभ्यो गुणकर्तुभ्यो विचित्रा धर्मसंस्थितिः ॥२५॥

गुणानामनुभावेन उद्भावाभिभवौ तथा ।
तीर्थानामपि वर्णानां वेदानां स्वर्गमोक्षयोः ॥२६॥

तादृग्रूपप्रवृत्त्या तु तदेव च विशिष्यते ।
कालोऽभिव्यञ्जकः प्रोक्तो देशोऽभिव्यङ्ग्य उच्यते ॥२७॥

यदा यदा अभिव्यक्तिं काल धत्ते तदा तदा ।
तदेव व्यञ्जनं ब्रह्मंस्तस्मान्नास्त्यत्र संशयः ॥२८॥

युगानुरूपा मूर्तिः स्याद्देवानां वैदिकी तथा ।
कर्मणामपि तीर्थानां जातीनामाश्रमस्य तु ॥२९॥

त्रिदैवत्यं सत्ययुगे तीर्थं लोकेषु पूज्यते ।
द्विदैवत्यं युगेऽन्यस्मिन्द्वापरे चैकदैविकम् ॥३०॥

कलौ न किंचिद्विज्ञेयमथान्यदपि तच्छृणु ।
दैवं कृतयुगे तीर्थं त्रेतायामासुरं विदुः ॥३१॥

आर्ष च द्वापरे प्रोक्तं कलौ मानुषमुच्यते ।
अथान्यदपि वक्ष्यामि श्रृणु नारद कारणम् ॥३२॥

गौतम्यां यत्त्वया पृष्टं तत्ते वक्ष्यामि विस्तरात् ।
यदा चेयं हरशिरः प्राप्ता गङ्गा महामुने ॥३३॥

तदा प्रभृति सा गङ्गा शंभोः प्रियतराऽभवत् ।
तद्देवस्य मतं ज्ञात्वा गजवक्त्रमुवाच सा ॥३४॥

उमा लोकत्रयेशाना माता च जगतो हिता ।
शान्ता श्रुतिरिति ख्याता भुक्तिमुक्तिप्रदायिनी ॥३५॥

ब्रह्मोवाच
तन्मातुर्वचनं श्रुत्वा गजवक्त्रोऽभ्यभाषत ॥३६॥

गजवक्त्र उवाच
किं कृत्यं शाधि मां मातस्तत्कर्ताऽहसमसंशयम् ॥३७॥

ब्रह्मोवाच
उमा सुतमुवाचेदं महेश्वरजटास्थिता ।
त्वयाऽवतार्यतां गङ्गा सत्यमीशप्रिया सती ॥३८॥

पुनश्चेशस्तत्र चित्रमध्यास्ते सर्वदा सुत ।
शिवो यत्र सुरास्तत्र तत्र वेदाः सनातनाः ॥३९॥

तत्रैव ऋषयः सर्वे मनुष्याः पितरस्तथा ।
तस्मान्निवर्तयेशानं देवदेवं महेश्वरम् ॥४०॥

तस्या निवर्तिते देवे गङ्गायाः सर्व एव हि ।
निवृत्तास्ते भविष्यन्ति श्रृणु चेदं वचो मम ॥
निवर्तय ततस्तस्याः सर्वभावेन शंकरम् ॥४१॥

ब्रह्मोवाच
मातुस्तद्वचनं श्रुत्वा पुनराह गणेश्वरः ॥४२॥

गणेश्वर उवाच
नैव शक्यः शिवो देवो मया तस्या निवर्तितुम् ।
अनिवृत्ते शिवे तस्या देवा अपि निवर्तितुम् ॥४३॥

न शक्य जगतां मातरथान्यच्चापि कारणम् ।
गङ्गाऽवतारिता पूर्वं गौतमेन महात्मना ॥४४॥

ऋषिणा लोकपूज्येन त्रैलोक्यहितकारिणा ।
सामोपायेन तद्वाक्यत्पूज्येन ब्रह्मतेजसा ॥४५॥

आराधयित्वा देवेशं तपोभिः स्तुतिभिर्भवम् ।
तुष्टेन शंकरेणेदमुक्तोऽसौ गौतमस्तदा ॥४६॥

शंकर उवाच
वरान्वरय पुण्यांश्च प्रियांश्च मनसेप्सितान् ।
यद्यदिच्छसि तत्सर्वं दाता तेऽद्य महामते ॥४७॥

ब्रह्मोवाच
एवमुक्ताः शिवेनासौ गौतमो मयि शृण्वति ।
इदमेव तदोवाच सजटां देहि शंकर ॥
गङ्गां मे याचते पुण्यां किमन्येन वरेण मे ॥४८॥

ब्रह्मोवाच
पुनः प्रोवाच तं शंभुः सर्वलोकोपकारकः ॥४९॥

शंभुरुवाच
उक्तं न चाऽऽत्मनः किंचित्तस्माद्याचस्व दुष्करम् ॥५०॥

ब्रह्मोवाच
गौतमोऽदीनसत्त्वस्तं भवमाह कृताञ्जलिः ॥५१॥

गौतम उवाच
एतदेव च सर्वेषां दुष्करं तव दर्शनम् ।
मया तदयच् संप्राप्तं कृपया तव शंकर ॥५२॥

स्मरणादेव ते पद्भ्यां कृतकृत्या मनीषिणः ।
भवन्ति किं पुनः साक्षात्त्वयि दुष्टे महेश्वरे ॥५३॥

ब्रह्मोवाच
एकमुक्ते गौतमेन भवो हर्षसमन्वितः ।
त्रयाणामुपकारार्थं लोकानां याचितं त्वया ॥५४॥

नचाऽऽत्मनो महाबुद्धे याचेत्याह शिवो द्विजम् ।
एवं प्रोक्तः पुनर्विप्रो ध्यात्वा प्राह शिवं तथा ॥५५॥

विनोतवददीनात्मा शिवभक्तिसमन्वितः ।
सर्वलोकोपकाराय पुनर्याचितवानिदम् ॥
श्रृण्वत्सु लोकपालेषु जगादेदं स गौतमः ॥५६॥

गौतम उवाच
यावत्सागरगा देवी निसृष्टा ब्रह्मणो गिरेः ।
सर्वत्र सर्वदा तस्यां स्थातव्यं वृषभध्वज ॥५७॥

फलेप्सूनां फलं दाता त्वमेव जगतः प्रभो ।
तीर्थान्यन्यानि देवेश क्वापि क्वापि शुभानि च ॥५८॥

यत्र ते संनिधिर्नित्यं तदेव शुभदं विदुः ।
यत्र गङ्गा त्वया दत्ता जटामुकुटसंस्थिता ॥
सर्वत्र तव सांनिध्यात्सर्वतीर्थानि शंकर ॥५९॥

ब्रह्मोवाच
तद्‌गौतमवचः श्रुत्वा पुनर्हर्षाच्छिवोऽब्रवीत् ॥६०॥

शिव उवाच
यत्र क्वापि च यत्किंचिद्यो वा भवति भक्तितः(?)यात्रां स्नानमथो दानं पितॄणां वाऽपि तर्पणम् ॥६१॥

श्रवणं पठनं वाऽपि स्मरणं वाऽपि गौतम ।
यः करोति नरो भक्त्या गोदावर्या यतव्रतः ॥६२॥

सप्तद्वीपवती पृथ्वी सशैलवनकानना ।
सरत्ना सौषधी रम्या सार्णवा धर्मभूषिता ॥६३॥

दत्त्वा भवति यो धर्मः स भवेद्‌गौतमीस्मृतेः ।
एवं विधा इला विप्र गोदानाद्याऽभिधीयते ॥६४॥

चन्द्रसूर्यग्रहे काले मत्सांनिध्ये यतव्रतः ।
भूभृते विष्णवे भक्त्या सर्वकालं कृता सुधीः ॥६५॥

गाः सुन्दराः सवत्साश्च संगमे लोकविश्रुते ।
यो ददाति द्विजश्रेष्ठ तत्र यत्पुण्यमाप्नुयात् ॥६६॥

तस्माद्वरं पुण्यमेति स्नानदानादिना नरः ।
गौतम्यां विश्ववन्द्यायां महानद्यां तु भक्तितः ॥६७॥

तस्माद्‌गोदावरी गङ्गा त्वया नीता भविष्यति ।
सर्वपापाक्षयकरी सर्वाभीष्टप्रदायिनी ॥६८॥

गणेश्वर उवाच
एतच्छ्रुतं मया मातर्वदतो गौतमं शिवात् ।
एतस्मात्कारणाच्छंभुर्गङ्गायां नियतः स्थितः ॥६९॥

को निवर्तयितं शक्तस्तमम्ब कुरुणोदधिम् ।
अथापि मातरेतत्स्यान्मानुषा विघ्नपाशकैः ॥७०॥

विनिबद्धा न गच्छन्ति गोदामप्यन्तिकस्थिताम् ।
न नमन्ति शिवं देवं न स्मरन्ति स्तुवन्ति न ॥७१॥

तथा मातः करिष्यामि तव संतोषहेतवे ।
संनिरोद्‌धुमथो क्लेशस्तव वाक्यं क्षमस्व मे ॥७२॥

ब्रहमोवाच
ततः प्रभृति विघ्नेशो मानुषान्प्रति किंचन ।
विघ्नमाचरते यस्तु तमुपास्य प्रवर्तते ॥७३॥

अथो विघ्नमनादृत्य गौतमीं याति भक्तितः ।
स कृतार्थो भवेल्लोके न कृत्यमवशिष्यते ॥७४॥

विघ्नान्यनेकानि भवन्ति गेहान्निर्गन्तुकामस्य नराधमस्य ।
निधाय तन्मूर्ध्नि पदं प्रयाति, गङ्गां न किं तेन फलं प्रलब्धम् ॥७५॥

अस्याः प्रभावं को ब्रूयादपि साक्षात्सदाशिवः ।
संक्षेपेण मया प्रोक्तमितिहासपदानुगम् ॥७६॥

धर्मार्थकाममोक्षाणां साधनं यच्चराचरे ।
तदत्र विद्यते सर्वमितिहासे सविस्तरे ॥७७॥

वेदोदितं श्रुतिसकलरहस्यमुक्तं, सत्कारणं समभिधानमिदं सदैव ।
सम्यक्च दृष्टं जगतां हिताय, प्रोक्तं पुराणं बहुधर्मयुक्तम् ॥७८॥

अस्य श्लोकं पदं वाऽपि भक्तितः शृणुयात्पठेत् ।
गङ्गा गङ्गेति वा वाक्यं स तु पुण्यमवाप्नुयात् ॥७९॥

कलिकलङ्कविनाशनदक्षमिदं, सकलसिद्धिकरं शुभदं शिवम् ।
जगति पूज्यमभीष्टफलप्रदं, गाङ्गमेतदुदीरितमुत्तमम् ॥८०॥

साधु गौतम भद्रं ते कोऽन्योऽस्ति सदृशस्त्वया ।
य एनां गौतमीं गङागं दण्डकारण्यमाप्नुयात् ॥८१॥

गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥८२॥

तिस्रः कोट्योऽर्धकोटी च तीर्थानि भुवनत्रये ।
तानि स्नातुं समायान्ति गङागयां सिंहगे गुरौ ॥८३॥

षष्टिवर्षसहस्राणि भगीरथ्यवगाहनम् ।
सकृद्‌गोदावरीस्नानं सिंहयुक्ते बृहस्पतौ ॥८४॥

इयं तु गौतमी पुत्र यत्र क्वापि ममाऽऽज्ञयाः
सर्वेषां सर्वदा नॄणां स्नानान्मुक्तिं प्रदास्यति ॥८५॥

अश्वमेधसहस्राणि वाजपेयशतानि च ।
कृत्वा यत्फलमाप्नोति तदस्य श्रवणाद्‌भवेत् ॥८६॥

यस्यैतत्तिष्ठति गृहे पुराणं ब्रह्मणोदितम् ।
न भयं विद्यते तस्य कलिकालस्य नारद ॥८७॥

यस्य कस्यापि नाऽऽख्येयं पुराणमिदमुत्तमम् ॥
श्रद्दधानाय शान्ताय वैष्णवाय महात्मने ॥८८॥

इदं कीर्त्यं भुक्तिमुक्तिदायकं पापनाशकम् ।
एतच्छ्रवणमात्रेण कृतकृत्यो भवेन्नरः ॥८९॥

लिखित्वा पुस्तकमिदं ब्राह्मणाय प्रयच्छति ।
सर्वपापविनिर्मुक्तः पुनर्गर्भं न संविशेत् ॥९०॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये ब्रह्मनारदसंवादे गङ्गामाहात्म्यश्रवणादिफलवर्णनं नाम पञ्चसप्तत्यधिकशततमोऽध्यायः ॥१७५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:43.4730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

गट्ट

  • ad  Imit. of the sound in gulping. 
  • m  A dense body or assembly. 
RANDOM WORD

Did you know?

दीप किंवा दिवा लावण्याचे कांही शास्त्र आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site